ईपीएफओ-संस्थायां सॉफ्टवेयर-अनुप्रयोगस्य उन्नयनकार्यं प्रचलति, जुलाईमासस्य १ दिनाङ्कतः सेवाः पुनः आरप्स्यन्ते — सुबोधः
वाराणसीनगरम्, २८ जूनमासः (हि.स.)। कर्मचारी-भविष्य-निधि-सङ्गठनस्य वाराणसी-कार्यालये कार्यरतः अधिकारी सुबोधः अवदत् यत् ईपीएफओ स्वस्य दत्तांशाधारस्य एकीकरणं तथा सॉफ्टवेयर-अनुप्रयोगस्य उन्नयनकार्यं करोति। अस्य परिवर्तनस्य कारणात् २६ जूनमासस्य दिनाङ्कत
कर्मचारी भविष्य निधि संगठन (प्रतीक फोटो)


वाराणसीनगरम्, २८ जूनमासः (हि.स.)। कर्मचारी-भविष्य-निधि-सङ्गठनस्य वाराणसी-कार्यालये कार्यरतः अधिकारी सुबोधः अवदत् यत् ईपीएफओ स्वस्य दत्तांशाधारस्य एकीकरणं तथा सॉफ्टवेयर-अनुप्रयोगस्य उन्नयनकार्यं करोति।

अस्य परिवर्तनस्य कारणात् २६ जूनमासस्य दिनाङ्कतः सदस्येभ्यः शपथपत्र-समर्पणम् तथा पासबुक-अवतारणम् इत्यादयः सेवाः किञ्चित्काल-पर्यन्तम् अनुपलब्धाः सन्ति। अपेक्षा अस्ति यत् २०२६ तमवर्षस्य जुलाईमासस्य १ दिनाङ्कतः ईपीएफओ-संस्थायाः सेवाः पुनः प्रारभ्यन्ते।

कर्मचारी-भविष्य-निधि-सङ्गठनस्य सूचनाप्रसारणस्य विषये सः अवदत् यत् अस्य अस्थायी-असुविधायाः कृते ईपीएफओ-संस्थया खेदः व्यक्तीकृतः। वाराणसी-नगरस्य पहड़ियां-स्थिते कार्यालये आगतेभ्यः जनानाम् अभवत् असुविधायाः कृते अपि ईपीएफओ-संस्थया खेदः प्रकटितः।

हिन्दुस्थानसमाचारः

Hindusthan Samachar / Divya Ranjan