प्रगतिशीलकृषकस्य एकड़त्रयमिते प्रक्षेत्रे डीएसआर पद्धत्या कार्यते धान्यस्य कृषिः
वाराणसी, 28 जूनमासः (हि. स.)। वाराणस्यां सेवापुरीविकासखण्डे प्रगतिशीलकृषकः हौसिलाप्रसाददुबे इत्यस्मात् रविवासरे कृषिविभागस्य अधिकारिणः समागत्य त्र्यधिकैकएकडपरिमिते क्षेत्रे डी एस आर पद्धत्या धानस्य वपनं कारितवन्तः। कृषिविभागस्य संयुक्तकृषिनिदेश
खेती कराते कृषि विभाग के अधिकारी और किसान


वाराणसी, 28 जूनमासः (हि. स.)।

वाराणस्यां सेवापुरीविकासखण्डे प्रगतिशीलकृषकः हौसिलाप्रसाददुबे इत्यस्मात् रविवासरे कृषिविभागस्य अधिकारिणः समागत्य त्र्यधिकैकएकडपरिमिते क्षेत्रे डी एस आर पद्धत्या धानस्य वपनं कारितवन्तः।

कृषिविभागस्य संयुक्तकृषिनिदेशकः शैलेन्द्रः उक्तवान् यत् अल नीनो प्रभावात् अस्मिन् वर्षे वर्षायाः मात्रा न्यूना भवितुम् आशङ्का अस्ति। एतादृशे समये डी एस आर पद्धतिः यस्याम् त्रिंशत् प्रतिशततः चत्वारिंशत् प्रतिशतपर्यन्तं न्यूनं जलम् अपेक्ष्यते सा कृषकाणां कृते वरदानसदृशी सिद्धा भवति। प्रगतिशीलकृषकः हौसिलाप्रसाददुबे अस्याः पद्धतेः लाभं प्राप्तवान्।

तेन उक्तं यत् सेवापुरीविकासखण्डे कृषकेभ्यः संकरमक्कायाः प्रदर्शनार्थं निःशुल्कबीजानि अपि वितरितानि। कृषकाः न्यूनजलापेक्षासु सस्येषु यथा श्रीअन्नम् मक्का बाजरा इत्यादीनां कृषौ प्रवर्तयितुं प्रेरिताः।

---------------

Hindusthan Samachar / Dheeraj Maithani