अमेरिक ईराने निरंतरं द्वितीये दिने वर्षयति विस्फोटान्, बहरीने कुवैते वैमानिकस्थानकेषु आकस्मिकःसूचना ध्वनिता
तेहरानम्/वाशिंगटनम्/बेरूतम्, 28 जूनमासीयः (हि.स.)। कतिपयदिनानां शान्तेः अनन्तरं होर्मुज जलडमरूमध्यस्य समीपे वाणिज्यिकजलयानस्य उपरि मानवविहीनविमानाक्रमणस्य अनन्तरं अमेरिका द्वितीयदिने अपि ईरानदेशे बमवर्षणम् अकरोत्। अमेरिकादेशेन सिरिकनगरं बन्दर लें
अरब सागर में 21 जून को विशालकाय परमाणु-संचालित विमानवाहक पोत  यूएसएस जॉर्ज एच.डब्ल्यू. बुश पर एक अमेरिकी नाविक निगरानी करता हुआ। फोटो - अमेरिकी नौसेना


तेहरानम्/वाशिंगटनम्/बेरूतम्, 28 जूनमासीयः (हि.स.)।

कतिपयदिनानां शान्तेः अनन्तरं होर्मुज जलडमरूमध्यस्य समीपे वाणिज्यिकजलयानस्य उपरि मानवविहीनविमानाक्रमणस्य अनन्तरं अमेरिका द्वितीयदिने अपि ईरानदेशे बमवर्षणम् अकरोत्। अमेरिकादेशेन सिरिकनगरं बन्दर लेंघे नगरं तथा केशमद्वीपं लक्ष्यीकृतम्। अपरत्र बहरीनदेशे कुवैतदेशे च वाय्वाक्रमणसूचकध्वनयः श्रूयन्ते। कुवैतस्य सेनया उक्तं यत् शत्रोः प्रक्षेपास्त्रमानवविहीनविमानाक्रमणानां प्रत्युत्तरं दीयते।

अपरत्र लेबनानदेशे शान्तेः आशाः पुनः भग्नाः अभवन्। लेबनानसरकारेण सह वैरसमाप्त्यर्थं रूपरेखासन्धौ हस्ताक्षरात् एकदिनस्य अनन्तरमेव इजराइलदेशेन दक्षिणलेबनानप्रदेशे बमवर्षणं कृतम्। अस्मिन् आक्रमणे न्यूनातिन्यूनम् एकस्य व्यक्तेः मृत्युः अभवत्। लेबनानस्य राष्ट्रपतिः जोसेफ आउन अमेरिकादेशस्य राष्ट्रपतिं ट्रम्प महोदयम् इजराइलदेशस्य उल्लङ्घनानि निरोद्धुं साहाय्यम् अयाचत। अपरत्र ईरानसमर्थितेन आतङ्कवादीसङ्घटनेन हिज्बुल्लाह नाम्ना इजराइलदेशेन सह सम्पन्नः सम्झौतिः अस्वीकृतः। तेन उक्तं यत् एषः राष्ट्रसार्वभौमत्वस्य समर्पणम् अस्ति।

सीएनएन अलजजीरा एबीसी न्यूज तथा सीबीएस न्यूज इत्यादीनां वार्तानुसारम् अमेरिकीयरक्षासेनया उक्तं यत् ईरानदेशस्य दश सैन्यस्थलेषु आक्रमणानि कृतानि। अमेरिकीया मध्यसैन्यकमाण्ड सेंटकॉम इत्यनेन उक्तं यत् अमेरिकीययुद्धविमानैः होर्मुज जलडमरूमध्यस्य अन्तः तथा तस्य समीपवर्तिषु स्थानेषु बहवः आक्रमणाः कृताः। सेंटकॉम इत्यनेन सामाजिकमाध्यमेषु आक्रमणस्य अस्पष्टं चलच्चित्रमपि प्रसारितम्।

ईरानस्य इस्लामिक रिवोल्यूशनरी गार्ड कॉर्प्स इत्यनेन पुष्टं कृतं यत् अमेरिकादेशेन नवीनाक्रमणक्रमे देशस्य पञ्च तटीयप्रदेशेषु बमवर्षणं कृतम्। सङ्घटनया उक्तं यत् शत्रोः कस्यापि आक्रामकतायाः दृढं प्रत्युत्तरं प्रदास्यते। तेन अपि उक्तं यत् अमेरिका ईरानयोः मध्ये सम्पन्नस्य अन्तरिमसम्झौतस्यानुसारं होर्मुज जलडमरूमध्ये नौकासञ्चारनियन्त्रणस्य व्यवस्था तेहरानस्य अधीना अस्ति। अमेरिकादेशः तस्य उल्लङ्घनं करोति। अधुना नियमान् उल्लङ्घयन्तः जलयानाः पूर्वापेक्षया अधिककठोरतया व्यवहरिष्यन्ते।

राष्ट्रपतिः ट्रम्प महोदयः अवदत् यत् ईरानदेशेन युद्धविरामस्य उल्लङ्घनं कृतम् अतः एते आक्रमणाः कृताः। तेन उक्तं यत् अमेरिकीयविमानैः ईरानस्य प्रक्षेपास्त्रभण्डाराणि मानवविहीनविमानसञ्चयस्थलानि तटीयरडारव्यवस्थाश्च लक्ष्यीकृताः। सेंटकॉम इत्यस्य दावानुसारं पनामा ध्वजधारिणि तैलवाहके ईरानस्य रात्रिकालीनमानवविहीनविमानाक्रमणस्य प्रत्युत्तररूपेण एते आक्रमणाः कृताः। अस्मिन् तैलवाहके विंशलक्षाधिकद्विलक्षबैरलपरिमितं तैलं आसीत्।

ट्रम्प महोदयेन चेतावनी दत्ता यत् कदाचित् अमेरिका सम्पूर्णसामर्थ्येन सैन्याक्रमणं कर्तुं बाध्यः भविष्यति। तेन उक्तं यत् यदि तथा जातम् तर्हि इस्लामिक रिपब्लिक आफ ईरान इत्यस्य अस्तित्वमेव समाप्तं भविष्यति। अपरत्र अमेरिकीयाक्रमणानां प्रत्युत्तररूपेण ईरानदेशेन बहरीनदेशे कुवैतदेशे च अमेरिकीयसैन्यस्थलानि लक्ष्यीकृतानि। ईरानस्य इरना तथा तस्नीम समाचारसंस्थाभ्यां इस्लामिक रिवोल्यूशनरी गार्ड कॉर्प्स इत्यस्य वक्तव्यं प्रकाशितम्। तस्मिन् कुवैतदेशे बहरीनदेशे च सम्पन्नानाम् आक्रमणानां पुष्टिः कृता।

इस्लामिक रिवोल्यूशनरी गार्ड कॉर्प्स इत्यनेन उक्तं यत् तस्य नौसेनया वायुसेनया च कुवैतदेशस्य अली अल सलेम वायुसैन्यकेन्द्रे तथा बहरीनदेशस्य राजधानी मनामा नगरे स्थिते पोर्ट सलमान इत्यत्र अवस्थिते अमेरिकीयपञ्चमनौसैनिकदलस्य उपरि बैलिस्टिक प्रक्षेपास्त्राणि मानवविहीनविमानानि च प्रेषितानि। वक्तव्ये उक्तं यत् एते आक्रमणाः ईरानस्य पञ्च तटीयप्रदेशेषु अमेरिकीयबमवर्षणस्य प्रत्युत्तररूपेण कृताः। ओमानदेशेन बहरीनदेशस्य उपरि कथितस्य ईरानीयमानवविहीनविमानाक्रमणस्य निन्दा कृता।

उल्लेखनीयम् अस्ति यत् फेब्रुवरीमासस्य अन्तिमदिनेषु आरब्धः अयं संघर्षः अद्यापि न विरतः। राष्ट्रपतिः डोनाल्ड ट्रम्प महोदयः फेब्रुवरीमासस्य अष्टाविंशतितमे दिनाङ्के ईरानदेशस्य विरुद्धं महत् सैन्याभियानं घोषितवान्। ततः अनन्तरम् अमेरिका इजराइलदेशेन सह मिलित्वा ईरानदेशस्य सैन्यशासकीयाधारभूतसंरचनास्थलेषु प्रबलान् आक्रमणान् अकरोत्। तेन मध्यपूर्वप्रदेशे सङ्कटम् अधिकं वर्धितम्। शान्तिस्थापनाय बहवः प्रयत्नाः अभवन्। अस्य क्रमस्य अन्तर्गतं अमेरिका ईरानदेशयोः प्रतिनिधिमण्डले एतस्मिन् सप्ताहान्ते स्विट्जरलैण्डदेशस्य बुर्गेनस्टॉक विश्रामकेन्द्रे समागतवन्तौ तथा युद्धसमापनार्थं सम्झौताय वार्तालापम् आरब्धवन्तौ। एषः वार्तालापः उभयदेशयोः मध्ये गतसप्ताहे हस्ताक्षरितस्य सहमतिपत्रस्य आधारेण प्रवृत्तः। किन्तु एषः क्रमः अग्रे न प्रवर्तितः यतः संघर्षः पुनरारब्धः।

---------------

Hindusthan Samachar / Dheeraj Maithani