Enter your Email Address to subscribe to our newsletters

कोलकाता, 28 जूनमासः (हि.स.)। पश्चिमबङ्गालस्य मुख्यमन्त्री शुभेन्दुअधिकारी राज्ये आवश्यकसेवानां कृते राहतं प्रदाय पात्रेषु बैरेलपात्रेषु च डीजलवितरणे आरोपितानां प्रतिबन्धानां विषये महतीं शिथिलतां घोषयामास। रविवासरस्य प्रातःकाले सामाजिकमाध्यमसन्देशस्य माध्यमेन राज्यसर्वकारेण निर्गतां अधिसूचनां प्रसारितवान्। अनन्तरं मुख्यमन्त्री अवदत् यत् सामान्यजनानां दैनिकजीवनम् आपत्कालीनसेवाः राज्यस्य अर्थव्यवस्था च कस्यापि विघ्नस्य विना सम्यग्रूपेण प्रवर्तेत इति सुनिश्चितीकरणं सर्वकारस्य सर्वोच्चप्राथमिकता अस्ति।
मुख्यमन्त्री अवदत् यत् अद्यतनकाले पात्रेषु डीजलवितरणे आरोपितप्रतिबन्धस्य कारणेन कृषकाः चिकित्सालयाः अन्याश्च आवश्यकसेवाभिः सम्बद्धाः संस्थाः गम्भीरकठिनताः अनुभवन्तः आसन्। जनहितं दृष्ट्वा राज्यसर्वकारेण तत्क्षणमेव हस्तक्षेपः कृतः।
सर्वकारेण प्रमुखतैलकम्पनीभ्यः निर्देशः प्रदत्तः यत् स्वास्थ्यसेवाः कृषिकार्यम् खाद्यवितरणम् जनसेवाः चायोद्यानानि च इत्यादीनि महत्त्वपूर्णक्षेत्राणि डीजलवितरणसम्बद्धप्रतिबन्धेभ्यः पूर्णतया मुक्तानि स्थापनीयानि।
अस्य निर्णयस्य अनन्तरं एतेषु क्षेत्रेषु सम्बद्धाः व्यक्तयः संस्थाः उपभोक्तारश्च अधुना पात्रेषु बैरेलपात्रेषु च सुलभतया डीजलं क्रेतुं शक्नुवन्ति। सहैव प्रतिदिनं डीजलवितरणस्य निर्धारितायाः अधिकतमसीमायाः अपि शिथिलता प्रदत्ता अस्ति।
मुख्यमन्त्री अवदत् यत् डीजलप्राप्तये इन्धनविक्रयकेन्द्रेषु केवलं सामान्यपरिचयपत्रस्य प्रदर्शनमेव पर्याप्तं भविष्यति। तेन विश्वासः व्यक्तः यत् अस्मात् निर्णयात् कृषकाणां चिकित्सालयानाम् अन्यासां च आवश्यकसेवानां कृते निर्बाधरूपेण डीजलम् उपलब्धं भविष्यति तथा च सामान्यजनानां कापि असुविधा न भविष्यति।-----------------
Hindusthan Samachar / Dheeraj Maithani