आवश्यकसेवाभ्यः, कृषिक्षेत्राय उद्योगेभ्यश्च पश्चिमबङ्गसर्वकारस्य विशेष-शिथिलता
कोलकातानगरम्, २८ जूनमासः (हि.स.)। पश्चिमबङ्गसर्वकारेण डीजल-आपूर्तिसम्बद्धानां प्रतिबन्धात्मक-व्यवस्थानां मध्ये आवश्यकसेवानां, कृषिक्षेत्रस्य तथा सार्वजनिकोपयोगिता-क्षेत्राणां कृते शिथिलतां प्रदातुं महत्त्वपूर्णः निर्णयः कृतः। अस्य विषये राज्यस्य खा
आवश्यकसेवाभ्यः, कृषिक्षेत्राय उद्योगेभ्यश्च पश्चिमबङ्गसर्वकारस्य विशेष-शिथिलता


कोलकातानगरम्, २८ जूनमासः (हि.स.)। पश्चिमबङ्गसर्वकारेण डीजल-आपूर्तिसम्बद्धानां प्रतिबन्धात्मक-व्यवस्थानां मध्ये आवश्यकसेवानां, कृषिक्षेत्रस्य तथा सार्वजनिकोपयोगिता-क्षेत्राणां कृते शिथिलतां प्रदातुं महत्त्वपूर्णः निर्णयः कृतः। अस्य विषये राज्यस्य खाद्य-आपूर्ति-विभागेन आधिकारिकं परिपत्रं प्रसारितं तथा तैल-निर्माणीभ्यः पेट्रोलियम-विक्रेतृभ्यश्च आवश्यकनिर्देशाः प्रदत्ताः। एतां सूचनां शनिवासरस्य रात्रौ पेट्रोलियम-डीलर्स-एसोसिएशन-इत्यस्य विश्वदीप-राय-चौधरी अवदत्।

पेट्रोलियम-डीलर्स-एसोसिएशन-इत्यस्य मते, अस्य निर्णयस्य फलस्वरूपम् आवश्यकसेवानां सञ्चालने राज्यस्य आर्थिकक्रियाकलापेषु च महती शिथिलता भविष्यति।

प्रसारिते आदेशे भारतसर्वकारस्य मोटर-स्पिरिट् तथा उच्चवेग-डीजल (टेम्पररी रेगुलेशन ऑफ सप्लाई थ्रू रिटेल आउटलेट्स) आदेशः, २०२६ इत्यस्य अधीनं डीजल-वितरणे प्रवर्तितेषु प्रतिबन्धेषु कतिपयेभ्यः महत्त्वपूर्णक्षेत्रेभ्यः विशेष-शिथिलता प्रदत्ता।

राज्यसर्वकारेण स्वीकृतं यत् डीजल-आपूर्तेः नियन्त्रणस्य कारणात् अनेकासां आवश्यकसेवानां तथा आर्थिकक्रियाकलापानां प्रतिकूलः प्रभावः अभवत्। चिकित्सालयानां बैकअप-व्यवस्था, सिञ्चन-व्यवस्था, दुग्ध-उद्योगः, शीत-भण्डारणगृहाणि, शैक्षणिक-संस्थानानि तथा शासकीय-सेवानां सञ्चालने कठिनतायाः शिकायताः प्राप्ताः। एतत् दृष्ट्वा स्वास्थ्य-कृषि-उद्योग- तथा सार्वजनिकोपयोगिता-क्षेत्रेभ्यः विशेष-शिथिलता प्रदत्ता। अस्य अन्तर्गतं चिकित्सालयेभ्यः, स्वास्थ्यकेन्द्रेभ्यः, पुलिस-विभागाय, अग्निशमन-विभागाय तथा आपदा-प्रबन्धन-सेवाभ्यः निर्बाधा डीजल-आपूर्तिः सुनिश्चितीक्रियते।

कृषिकार्यम्, सिञ्चनम्, सस्य-कर्तनम्, दुग्ध-उद्योगः, कुक्कुट-पालनम्, शीत-भण्डारणगृहाणि तथा बेकरी-उद्योगाय अपि विशेष-शिथिलता प्रदत्ता, येन उत्पादनम् आपूर्तिव्यवस्था च अप्रभाविता तिष्ठेत्।

एतदतिरिक्तं आवासीय-परिसरेषु जलापूर्ति- तथा मल-निष्कासन-पम्पानां सञ्चालनाय, शासकीय-कार्यालयेषु तथा शैक्षणिक-संस्थासु डीजल-जनित्राणां सञ्चालनाय अपि विशेषानुमतिः प्रदत्ता।

राज्यस्य कृषि-अर्थव्यवस्थां दृष्ट्वा चाय-उद्यानानां प्रसंस्करण-कारखानानि तथा तेषां परिवहन-तन्त्रं अपि अस्याः शिथिलताया: परिधौ समाविष्टम्।

परिपत्रे द्वौ महत्त्वपूर्णौ निर्णयौ कृतौ। प्रथमः— चयनितेषु आवश्यकक्षेत्रेषु वास्तविक-आवश्यकतानुसारं डीजल-वितरणस्य दैनिकसीमायां शिथिलता प्रदास्यते। द्वितीयः— अधिकृतोपभोक्तृभ्यः विशेष-परिस्थितिषु बैरल-पात्रैः तथा अन्यैः पात्रैः उच्चवेग-डीजलस्य आपूर्तिः भविष्यति, येन स्थिर-यन्त्राणां उपकरणानां च सञ्चालनं न बाध्येत।

राज्यसर्वकारेण इण्डियन-ऑयल, हिन्दुस्तान-पेट्रोलियम तथा भारत-पेट्रोलियम इत्यादीनां तैलनिर्माणीनां पेट्रोल-पम्प-सञ्चालकेभ्य: च निर्देशः प्रदत्तः यत् अधिकृतोपभोक्तृभ्यः अवरोध-रहितरूपेण इन्धनम् उपलब्धं क्रियताम्। एतदर्थम् आवश्यकतानुसारं परिचयपत्रम्, व्यापार-पञ्जीकरणम्, भूमिसम्बद्ध-तथ्यानि अथवा शासकीय-अनुमतिपत्रं प्रदर्शनीयम् भविष्यति।

सर्वकारेण अयं आदेशः अत्यावश्यक-श्रेण्यां स्थापयित्वा सर्वेषु जनपदेषु सम्बन्धित-विभागेषु च तत्क्षणप्रभावेण प्रवर्तनाय निर्देशाः प्रदत्ताः।

हिन्दुस्थानसमाचारः

Hindusthan Samachar / Divya Ranjan