श्रीखंड महोदेव यात्रा विकृणा वातावरणेन अग्रिमान् आदेशान् यावत् स्थगिता
कुल्लूः, 28 जूनमासः (हि.स.)। श्रद्धालूनां सुरक्षां दृष्ट्वा कुल्लू जनपदप्रशासनेन अस्मिन् वर्षे आयोजनीया श्रीखण्डमहादेवयात्रा अग्रिमसूचनापर्यन्तं स्थगिता अस्ति। जनपददण्डाधिकारी उपायुक्तश्च कुल्लू अनुरागचन्द्रशर्मा भारतीय नागरिक सुरक्षा संहिता २०२३
श्रीखंड महादे


कुल्लूः, 28 जूनमासः (हि.स.)।

श्रद्धालूनां सुरक्षां दृष्ट्वा कुल्लू जनपदप्रशासनेन अस्मिन् वर्षे आयोजनीया श्रीखण्डमहादेवयात्रा अग्रिमसूचनापर्यन्तं स्थगिता अस्ति। जनपददण्डाधिकारी उपायुक्तश्च कुल्लू अनुरागचन्द्रशर्मा भारतीय नागरिक सुरक्षा संहिता २०२३ इत्यस्य धारा १६३ अन्तर्गतं एतदादेशं निर्गतवान्। अयं कठोरनिर्णयः संयुक्तविशेषज्ञनिरीक्षणदलस्य प्रतिवेदनं यात्रामार्गे सम्भाव्यमानप्राकृतिकविपदां गम्भीरसंकटं च दृष्ट्वा स्वीकृतः।

विशेषज्ञदलस्य प्रतिवेदने महत् उद्घाटनम्

प्रशासनेन गठितेन अटलबिहारीवाजपेयी पर्वतारोहणसंस्थानेन मनालीनगरस्थितेन राजस्वविभागेन वनविभागेन च विशेषज्ञानां संयुक्तदलेन यात्रामार्गस्य विस्तृतनिरीक्षणं कृतम्। दलस्य ८ जून २०२६ दिनाङ्कस्य प्रतिवेदने भीमद्वारीतः पार्वतीबागपर्यन्तस्य मार्गः अत्यन्तं संकटपूर्णः असुरक्षितश्च इति निर्दिश्य तत्र यात्रानिषेधस्य अनुशंसा कृता।

वैकल्पिकमार्गः अपि अनुपयुक्तः सिद्धः

ततः परं प्रशासनेन वैकल्पिकमार्गस्य सम्भावना अपि परीक्षिता। किन्तु १८ जून दिनाङ्कस्य प्रतिवेदने विशेषज्ञैः सः मार्गः अपि अस्वीकृतः। प्रतिवेदनानुसारं वर्तमानः प्रस्तावितश्च उभौ मार्गौ तीव्रप्रवणभूमिभिः शिथिलया अस्थिरया मृदा संकीर्णमार्गैः अनेकनालिकाभिश्च युक्तौ स्तः। तेषु भूस्खलनस्य शिलापतनस्य आकस्मिकजलप्रवाहस्य मलबाप्रवाहस्य च महत् संकटम् अस्ति।

विशेषज्ञानां मते भीमद्वारी पार्वतीबागयोः मध्ये कस्यापि आपत्कालीनस्थितौ राहत उद्धारकार्यक्रमस्य सञ्चालनम् अत्यन्तं कठिनं भविष्यति। नालिकासमीपवर्तिनी भूमिः अन्तःशून्या अस्ति अतः तत्र अस्थायिरज्जुबन्धनस्य शिविरस्थापनस्य वा सुरक्षा नास्ति।

त्रिदिनाभ्यन्तरे सर्वे अस्थायिशिविराः अपसारयिष्यन्ते

जनपददण्डाधिकारिणः आदेशानुसारं यात्रामार्गे स्थापिताः सर्वे अस्थायिशिविराः तम्बूनि राशनविक्रयकेन्द्राणि अन्यानि अस्थायिसंरचनानि च आदेशनिर्गमनदिनात् त्रिदिनाभ्यन्तरे अपसारयितव्यानि।

पुलिस अधीक्षकः कुल्लू उपमण्डलाधिकारी निरमण्ड प्रभागीयवनाधिकारी लूहरी वनप्रभागश्च एतेभ्यः निर्देशाः प्रदत्ताः यत् प्रतिबन्धितमार्गे कश्चिदपि जनः प्रवेशं न करोतु इति सुनिश्चितं कुर्वन्तु। आदेशस्य उल्लङ्घनं कुर्वतां विरुद्धं भारतीय न्याय संहिता तथा अन्यैः प्रासङ्गिकविधिनियमैः अन्तर्गतं कठोरा दण्डात्मिका कार्यवाही विधास्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani