Enter your Email Address to subscribe to our newsletters

नवदेहली, २९ जूनमासः (हि.स.)। भारतीय-चलचित्र-उद्योगाय नूतनां गतिं प्रदातुं केन्द्र-सर्वकारेण द्वौ महत्त्वपूर्णौ निर्णयौ स्वीकृतौ। सोमवासरे केन्द्रीय-सूचना-प्रसारणमन्त्री अश्विनी-वैष्णवस्य अध्यक्षतायां सम्पन्नायां सभायां एते निर्णयौ अनुमोदितौ।
प्रथमः निर्णयः— भारतीय-चलचित्रस्य भविष्यं वैश्विक-प्रतिस्पर्धां च दृष्ट्वा प्रसून-जोशीन: अध्यक्षतायां उच्चस्तरीय-अध्ययन-समूहस्य गठनं कृतम्। अयं समूहः कृत्रिम-बुद्धिमत्ता, आभासीय-निर्माणम्, चलचित्र-वित्तपोषणम्, वितरण-व्यवस्था तथा नवीन-प्रौद्योगिकीनां उपयोगः इत्यादिषु विषयेषु विणारान् प्रदास्यति। अयं समूहः त्रिमासाभ्यन्तरे स्वप्रतिवेदनं समर्पयिष्यति।
सूचना-प्रसारण-मन्त्रालयेन सोमवासरे प्रकाशितायां विज्ञप्तौ उक्तं यत् द्वितीयः निर्णयः देशे, विशेषतः लघु-नगरेषु ग्रामीण-प्रदेशेषु च, नवीन-चलच्चित्रगृहाणां स्थापन-प्रक्रियां सरलीकर्तुं केन्द्र-सर्वकारेण आदर्श-राज्य-चलचित्र-नियमनावली निर्माय सर्वेभ्यः राज्येभ्यः प्रेषिता। राज्य-सर्वकारान् तस्याः स्वीकृत्यर्थम् अनुरोधः कृतः, येन अनुमतिप्रक्रिया सरला भवेत् तथा अधिकानि चलच्चित्रगृहाणि निर्मातुं शक्येरन्।
सर्वकारस्य मतानुसारम् एताभ्यां निर्णयाभ्यां भारतीय-चलचित्र-उद्योगः नूतनां दृढतां प्राप्स्यति, निवेशः वर्धिष्यते, आधुनिक-प्रौद्योगिकीनां प्रयोगः त्वरितो भविष्यति, तथा भारतीयं चलचित्रम् वैश्विक-स्तरे स्वीयां प्रतिस्पर्धात्मकं परिचयं च अधिकं सुदृढं कर्तुं समर्थ: भविष्यति।
हिन्दुस्थान समाचार / Divya Ranjan