भाजपादलस्य राष्ट्रीय महामंत्री तरुण चुगः राज्यसभासदस्यस्य रूपेणागृह्णात् शपथवचनम्
नव दिल्ली, 29 जूनमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रियमहामन्त्री तरुणचुगः सोमवासरे राज्यसभायाः सदस्यरूपेण शपथग्रहणम् अकरोत्। राज्यसभायाः सभापतिः सी पी राधाकृष्णनः सदने तस्मै पदगोपनीयतायाः शपथम् अकारयत्। मध्यप्रदेशात् निर्विरोधनिर्वाचितः सन् सः
राज्य सभा की सदस्य के रूप में शपथ ग्रहण के बाद सभापति सीपी राधाकृष्णन से हाथ मिलते हुए तरुण चुग


शपथ लेते हुए भाजपा के महामंत्री तरुण चुग


नव दिल्ली, 29 जूनमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रियमहामन्त्री तरुणचुगः सोमवासरे राज्यसभायाः सदस्यरूपेण शपथग्रहणम् अकरोत्। राज्यसभायाः सभापतिः सी पी राधाकृष्णनः सदने तस्मै पदगोपनीयतायाः शपथम् अकारयत्। मध्यप्रदेशात् निर्विरोधनिर्वाचितः सन् सः उच्चसदनस्य सदस्यरूपेण स्वकर्तव्यभारम् अस्वीकरोत्। तेन सह अन्ये षट् नवनिर्वाचिताः सदस्याः अपि शपथम् अगृह्णन्।

शपथग्रहणात् पूर्वं तरुणचुगः संसद्भवनस्य प्रवेशद्वारे प्रणामं कृत्वा लोकतन्त्रस्य सर्वोच्चमन्दिरस्य प्रति स्वश्रद्धाम् अव्यक्तयत्। ततः पूर्वं सः नवदेहलीस्थे गुरुद्वाररकाबगञ्जसाहिबे मस्तकं नत्वा आशीर्वादम् अलभत।

उल्लेखनीयम् अस्ति यत् तरुणचुगः मध्यप्रदेशात् राज्यसभायै निर्विरोधं निर्वाचितः। सः ११ जून २०२६ तमे दिने स्वनिर्वाचनप्रमाणपत्रम् अलभत। राज्यसभासदस्यरूपेण शपथग्रहणेन सह एव सः स्वान् संसदीयदायित्वान् औपचारिकरूपेण निर्वोढुम् आरब्धवान्।

भारतीयजनतापक्षस्य वरिष्ठनेतृषु गण्यमानः तरुणचुगः सम्प्रति पक्षस्य राष्ट्रीयमहामन्त्री अस्ति। पञ्जाबप्रदेशस्य अमृतसरनगरात् आगतः चुगः दीर्घकालात् संगठनात्मकराजनीत्यां सक्रियः अस्ति। सः अल्पवयसि एव राष्ट्रियस्वयंसेवकसंघेन सह सम्बद्धः अभवत् तथा पश्चात् अखिलभारतीयविद्यार्थिपरिषदि सक्रियभूमिकाम् अवहत्। वर्षे १९८९ तः १९९४ पर्यन्तं सः अखिलभारतीयविद्यार्थिपरिषदि जिलासचिवरूपेण राज्यकार्यकारिणीसदस्यरूपेण च कार्यम् अकरोत्।

वर्षे १९९३ तमे सः अमृतसरनगरे भारतीयजनतायुवामोर्चायाः जिलाध्यक्षः अभवत्। अनन्तरं सः पञ्जाबभारतीयजनतायुवामोर्चायाः प्रदेशाध्यक्षः राष्ट्रियकार्यकारिणीसदस्यः च अभवत्। युवानः संगठनस्य सह संयोजयितुम् उद्दिश्य सः २१०० किलोमीटरपरिमितायाः युवाचेतनायात्रायाः नेतृत्वम् अकरोत्।

भारतीयजनतापक्षस्य संगठनात्मकव्यवस्थायां सः प्रदेशसचिवः पञ्जाबभारतीयजनतापक्षस्य महासचिवः तथा सम्प्रति राष्ट्रीयमहामन्त्री इत्यादीनि अनेकानि महत्त्वपूर्णदायित्वानि निर्वहितवान्। सम्प्रति सः जम्मूकश्मीर लद्दाख तेलङ्गाण अण्डमाननिकोबारप्रदेशानां पक्षप्रभारी अस्ति। एतदतिरिक्तं तस्मै देहलीभारतीयजनतापक्षस्य सहप्रभारीपदम् अपि प्रदत्तम्। संगठनविस्तारे निर्वाचनरणनीतौ तथा केन्द्रप्रबन्धने तस्य सक्रियभूमिकायाः कारणात् सः पक्षस्य प्रमुखरणनीतिकर्तृषु अन्यतमः मन्यते।

------------

Hindusthan Samachar / Dheeraj Maithani