Enter your Email Address to subscribe to our newsletters

मथुरानगरम्, २९ जूनमासः (हि.स.)। ज्येष्ठ-शुक्ल-पूर्णिमायाः अवसरे सोमवासरे वृन्दावने ठा.बाँकेबिहारी-महाराजस्य दर्शनार्थं भक्तानां महान् सम्मर्द: समुपस्थित:। प्रातःकालादेव मन्दिर-परिसरः लाडले-बाँकेबिहारी-इत्यस्य जयघोषैः गुञ्जायमानः अभवत्। ज्येष्ठ-शुक्ल-पूर्णिमा जलयात्रा-पर्व इति नाम्ना अपि प्रसिद्धा अस्ति। अतः वृन्दावनस्य राधामदनमोहन:, राधाश्यामसुन्दर:, राधादामोदर:, राधागोविन्ददेव:, राधारमण:, राधागोकुलानन्दादिषु मन्दिरेषु अपि एतत् पर्व विशेष-श्रद्धया आचरितम्।
बाँकेबिहारी-मन्दिरे प्रातःकाले भव्यः पुष्प-मण्डपः सज्जीकृतः, अन्येषु मन्दिरेषु तु सायङ्काले पुष्प-मण्डपस्य आयोजनम् अभवत्। मन्दिर-प्राङ्गणानि अपि भव्यतया अलङ्कृतानि। अस्मिन् अवसरे ऋतूनुकूलानि फलानि, रसाः, मिष्टान्नानि च विशेष-नैवेद्यरूपेण ठाकुरेभ्यः निवेदितानि। तदनन्तरं भक्तैः प्रातः सायं च वृन्दावन-धाम्नः सप्तकोशीया-परिक्रमा कृता।
टेढ़े-खम्भ-मन्दिररूपेण प्रसिद्धे वृन्दावनस्य शाहजी-मन्दिरे विराजमानः ठा.छोटे-राधारमणलालः ज्येष्ठ-पूर्णिमायाः अवसरे मन्दिर-परिसरस्थिते दिव्य-उद्याने विराजमानः आसीत्, यत्र भक्ताः स्वाराध्यस्य दर्शनं कृत्वा धन्यताम् अनुभूतवन्तः। ठाकुरेभ्यः दिव्य-प्रसादः निवेदितः, भव्ये पुष्प-मण्डपे तान् विराज्य तेषां पुरतः दिव्य-जलयन्त्राणि अपि प्रवर्तितानि।
उल्लेखनीयम् अस्ति यत् ज्येष्ठ-पूर्णिमा-पर्व ब्रजस्य आराध्यानाम् अर्चा-विग्रहाणां ग्रीष्म-ऋतोः तापात् राहतिं प्रदातुं स्नान-यात्रा-रूपेण महता श्रद्धया आचर्यते। मन्दिर-सेवाधिकारी शाह-के.-एस्.-गुप्तः तथा प्रशान्त-शाह उक्तवन्तौ यत् ठाकुरस्य एतत् दिव्य-विलास-पर्व विगत-१५७-वर्षेभ्यः श्रद्धापूर्वकम् आचर्यते, यस्य दर्शनात् भक्तानां हृदयेषु अद्भुतः आनन्दः आह्लादश्च जायते।
Hindusthan Samachar / Divya Ranjan