Enter your Email Address to subscribe to our newsletters


गोरखपुरम्, 29 जूनमासः (हि.स.)।
अखिलभारतीयविद्यार्थिपरिषदः गोरक्षप्रान्तस्य चतुर्दिवसीयः प्रान्ताभ्यासवर्गः २५ जूनतः २८ जूनपर्यन्तं बस्तीस्थिते स्वामीविवेकानन्द फार्मेसी महाविद्यालये सम्पन्नः। अस्मिन् अभ्यासवर्गे गोरक्षप्रान्तस्य सर्वेभ्यः १७ सङ्गठनात्मकजनपदेभ्यः आगताः शताधिकाः छात्राः शिक्षककार्यकर्तारश्च सहभागिनः अभवन्। अभ्यासवर्गे कार्यकर्तृभ्यः सङ्गठनस्य कार्यपद्धतिः कार्यदृष्टिः वैचारिकाधिष्ठानम् व्यक्तित्वविकासः नेतृत्वक्षमता सङ्गठनविस्तारः राष्ट्रपुनर्निर्माणे विद्यार्थिनः भूमिका च इत्यादिषु विविधविषयेषु प्रशिक्षणं प्रदत्तम्।
अभ्यासवर्गस्य विधिवद् शुभारम्भः अभाविपस्य राष्ट्रियमन्त्री अभयप्रतापसिंहः केन्द्रीयकार्यसमितिसदस्यः हिमालयसिंह झाला प्रान्ताध्यक्षः डा राकेशप्रतापसिंहः प्रान्तमन्त्री शशिकान्तमङ्गलम् गुप्तः प्रान्तसङ्गठनमन्त्री पुनीतअग्रवालः च दीपप्रज्वलनेन अकुर्वन्। चतुर्दिवसीये अभ्यासवर्गे सङ्गठनात्मकविकासं व्यक्तित्वविकासं च केन्द्रे निधाय अष्ट प्रशिक्षणसत्राणि द्वे प्रेरणाभाषणसत्रे च आयोजिते। उद्घाटनसत्रे प्रान्ताध्यक्षः डा राकेशप्रतापसिंहः प्रस्तावनां प्रस्तुत्य अभ्यासवर्गस्य रूपरेखाम् उद्देश्यम् महत्त्वं च प्रकाशितवान्।
प्रथमभाषणसत्रे प्रो राजशरणशाही कार्यकर्तॄन् मार्गदर्शनम् अकरोत्। ततः अनन्तरम् अभाविपस्य पूर्वोत्तरप्रदेशक्षेत्रीयसङ्गठनमन्त्री घनश्यामशाही सैद्धान्तिकी भूमिका इति विषये परिषदः विचारधारां कार्यदृष्टिं च स्पष्टीचकार। अभाविपस्य राष्ट्रियमन्त्री अभयप्रतापसिंहः परिसरैकाई विषयम् राष्ट्रियकलामञ्चस्य अखिलभारतीयप्रमुखः अङ्कितशुक्लः सक्षमैकाई विषयम् केन्द्रीयकार्यसमितिसदस्यः हिमालयसिंह झाला कार्यपद्धतिः विषयम् नेपालीविद्यार्थिकार्यस्य संयोजकः प्रियांशुत्रिपाठी आयामः कार्यगतिविधयः च विषयम् प्रान्तमन्त्री शशिकान्तमङ्गलम् गुप्तः सदस्यता कार्यकारिणी पुनर्गठनम् च विषयम् प्रान्तसङ्गठनमन्त्री पुनीतअग्रवालः प्रवासः सम्पर्कः संवादः च विषयम् प्रान्ताध्यक्षः डा राकेशप्रतापसिंहः कार्यकर्तृव्यवहारः विकासः च विषयम् विस्तृतं मार्गदर्शनं प्रदत्तवान्। द्वितीयभाषणसत्रे राष्ट्रियकलामञ्चस्य अखिलभारतीयप्रमुखः अङ्कितशुक्लः सन्तशिरोमणिः गुरुरविदासस्य जीवनम् दर्शनम् सामाजिकसमरसता च इति विषये प्रेरणाप्रदं भाषणम् अकरोत्।
अभ्यासवर्गस्य समारोपसत्रे सङ्गठनविस्तारं कार्यस्य प्रभावीगतिं च दृष्ट्वा विद्यार्थीपरिषदः पूर्णकालिककार्यकर्तॄणां नवीनकार्यक्षेत्राणां घोषणा प्रान्ताध्यक्षेन डा राकेशप्रतापसिंहेन कृता। घोषितकार्यविभागानुसारम् अङ्कितमिश्राय सिद्धार्थनगरविभागस्य राजवर्धनसिंहाय गोरखपुरमहानगरविभागस्य अभिषेकश्रीवास्तवाय गोरखपुरग्रामीणविभागस्य अमर्त्यसुन्दरम् पाण्डेयाय देवरियाविभागस्य आदित्यगान्धिने कुशीनगरविभागस्य रञ्जीतसिंहाय बलियाविभागस्य सात्विकश्रीवास्तवाय आजमगढविभागस्य दायित्वं प्रदत्तम्। अस्मिन्नेव अवसरे गोरखपुरमहानगरविभागस्य विभागप्रमुखरूपेण प्रो सुषमापाण्डेय विभागसंयोजकरूपेण प्रशान्तत्रिपाठी विभागछात्राप्रमुखरूपेण सम्पदाद्विवेदी इत्येषां घोषणापि कृता।
अखिलभारतीयविद्यार्थिपरिषदो राष्ट्रियमन्त्री अभयप्रतापसिंहः अवदत् यत् विद्यार्थीपरिषदः कार्यं सर्वस्पर्शि सर्वव्यापि च अस्ति। परिषदः प्रत्येकः कार्यकर्ता महाविद्यालयविश्वविद्यालयपरिसरयोः प्रत्येकं विद्यार्थिनं सम्प्राप्य तं सङ्गठनसमाजराष्ट्रनिर्माणस्य मुख्यधारया सह संयोजयितुं सततं प्रयतते। विद्यार्थीपरिषद् केवलं सङ्गठनं नास्ति अपितु राष्ट्रनिर्माणस्य सशक्तम् अभियानम् अस्ति। परिषदः कार्यसंस्कृतिः अहम् इति भावे न आधारिता किन्तु वयम् इति भावे आधारिता अस्ति यत्र सामूहिकता आत्मीयता सर्वान् सह नयितुं परम्परा च सङ्गठनस्य महान् बलम् अस्ति। प्रत्येकः कार्यकर्ता स्वकीयव्यक्तिगतहितात् उपरि उत्थाय सङ्गठनस्य समाजस्य राष्ट्रहितस्य च सर्वोच्चप्राथमिकतां दत्त्वा कार्यं करोति।
राष्ट्रियकलामञ्चस्य अखिलभारतीयप्रमुखः अङ्कितशुक्लः सन्तशिरोमणिः गुरुरविदासः इति विषये आयोजिते भाषणसत्रे अवदत् यत् सनातनम् अस्यां धरायां जातस्य प्रत्येकस्य मानवस्य स्वाभाविकजीवनव्यवस्था अस्ति समरसता च तस्य मूलस्वभावः अस्ति। भक्त्यन्दोलनम् केवलम् आध्यात्मिकजागरणस्य आन्दोलनं नासीत् अपितु सामाजिकसमरसतायाः समानतायाः सांस्कृतिकपुनर्जागरणस्य च आन्दोलनम् आसीत्। सन्तरविदासः स्वजीवनेन स्ववाण्या च समाजं भेदभावात् उपरि नीत्वा मानवता सेवाभावम् आत्मीयतां च संदेशरूपेण प्रदत्तवान्। विद्यार्थीपरिषद् अपि एतानि जीवनमूल्यानि आत्मसात् कृत्वा विद्यार्थिषु सामाजिकसमरसतां सांस्कृतिकचेतनां राष्ट्रनिर्माणभावनां च विकसितुं कार्यं करोति।
---------------
Hindusthan Samachar / Dheeraj Maithani