ऋतुपरिवर्तनस्य प्रभावः सेवफलोत्पादने, हिमाचले ब्लूबेरी-फलस्य नूतनविकल्परूपेण विकासः
शिमलानगरम्, जूनमासस्य २९ दिनाङ्कः। हिमाचलप्रदेशस्य परिचयः सेवफलकृष्या सह सम्बद्धः अस्ति, किन्तु परिवर्तमानजलवायोः कारणात् अस्याः कृषेः समक्षं नूतनाः समस्याः उत्पन्नाः सन्ति। वर्धमानतापमानम्, न्यूनीकृताः चिलिङ्ग-आवर्स तथा असामयिक-वृष्ट्यादयः सेवफलोत
ब्लूबेरी : फाइल फोटो


शिमलानगरम्, जूनमासस्य २९ दिनाङ्कः। हिमाचलप्रदेशस्य परिचयः सेवफलकृष्या सह सम्बद्धः अस्ति, किन्तु परिवर्तमानजलवायोः कारणात् अस्याः कृषेः समक्षं नूतनाः समस्याः उत्पन्नाः सन्ति। वर्धमानतापमानम्, न्यूनीकृताः चिलिङ्ग-आवर्स तथा असामयिक-वृष्ट्यादयः सेवफलोत्पादनम् प्रभावितवन्तः। अतः राज्यसर्वकारः कृषकाणां आयवृद्धये ब्लूबेरी-फलस्य नूतनफलरूपेण विकासाय प्रयत्नशीलः अस्ति।

राज्ये प्रथमवारं ब्लूबेरी-फलस्य वाणिज्यिककृष्यर्थं द्वादश उन्नतजातिनां प्रायः पञ्चलक्षाणि रोपाणि सज्जीकृतानि सन्ति। अतीतेषु दिनेषु सोलन-जनपदे उद्यानिकीविभागेन कृतं प्रायोगिकपरीक्षणं सफलम् अभवत्।

सर्वकारस्य विश्वासः अस्ति यत् ब्लूबेरी-फलम् अग्रिमकाले हिमाचलस्य कृषकाणां कृते आयस्य नूतनस्रोतः भविष्यति। अस्य मूल्यं विपण्यां प्रतिकिलोग्राम् ८०० तः २००० रूप्यकपर्यन्तं प्राप्यते। अल्पभूमिक्षेत्रे अपि अस्य कृष्या पर्याप्तं लाभं प्राप्तुं शक्यते। एतां सम्भावनां दृष्ट्वा पालमपुर-कृषिविश्वविद्यालये, डॉ.वाई.एस.परमार-औद्यानिकी-वानिकी-विश्वविद्यालये नौणी, बजौरा, खड़ापत्थर तथा जोगेन्द्रनगरम् इत्यादिषु स्थानेषु अस्य परीक्षणानि सम्पन्नानि। तत्र प्राप्तैः उत्तमपरिणामैः अधुना वाणिज्यिककृषेः योजनापत्रं निर्मितम् अस्ति।

पञ्चलक्षाणि रोपाणि, द्वादश उन्नतजातयः

उद्यानिकीविभागेन राज्यस्य विभिन्नोच्चतायुक्तप्रदेशानुसारं ड्यूक, लेगेसी, ब्लूक्रॉप, स्पार्टन्, इलियट् इत्यादयः द्वादश उन्नतजातयः चयनिताः। एतानि रोपाणि टिशू-कल्चर इति प्रविध्या उत्पादितानि सन्ति तथा क्रमशः कृषकेभ्यः प्रदास्यन्ते। एकस्य रोपणस्य मूल्यं प्रायः षट्शतं रूप्यकाणि निर्धारितम् अस्ति। विशेषज्ञानां मते ब्लूबेरी-फलस्य कृषि पॉलीहाउस तथा नियन्त्रितवातावरणे विशेषफलप्रदा भवति। एकवारं रोपणं सम्पन्ने सति बहुवर्षपर्यन्तं फलोत्पादनं भवति। अन्ताराष्ट्रियविपण्यां अस्य याचना निरन्तरं वर्धते, निर्यातस्य अपि पर्याप्ताः सम्भावनाः सन्ति।

‘सुपरफूड्’ इति रूपेण वर्धमाना याचना

ब्लूबेरी-फलम् आरोग्यस्य दृष्ट्या अत्यन्तं हितकरं मन्यते। अस्मिन् एन्थोसायनिन्, टेरोस्टिलबिन्, रेशांशः, जीवनसत्त्वानि ए, सी, ई च प्रचुरमात्रया सन्ति। प्रतिऑक्सीकारकगुणयुक्तत्वात् एतत् सुपरफूड् इति श्रेण्यां गण्यते, अतः विश्वे अस्य याचना निरन्तरं वर्धमाना अस्ति।

राज्यस्य उद्यानिकीसचिवः सी.पालरासु अवदत् यत् हिमाचले ब्लूबेरी-फलं सेवफलस्य दृढविकल्परूपेण विकसितं भविष्यति। कृषकेभ्यः गुणवत्तायुक्तानि रोपाणि प्रदास्यन्ते, येन ते अल्पक्षेत्रे अधिकं लाभं प्राप्तुं शक्नुयुः। सर्वकारस्य लक्ष्यं हिमाचलप्रदेशं देशस्य प्रमुखं ब्लूबेरी-उत्पादकराज्यं कर्तुम् अस्ति।

जलवायुपरिवर्तनात् प्रभावितः सेवफलव्यवसायः

उल्लेखनीयम् अस्ति यत् हिमाचलप्रदेशस्य प्रायः पञ्चसहस्रकोटिरूप्यकमूल्ययुक्तः सेवफलव्यवसायः जलवायुपरिवर्तनस्य प्रभावेन प्रभावितः अस्ति। गतवर्षेषु सेवफलकृषिक्षेत्रस्य विस्तारः अभवत्, किन्तु उत्पादनस्य मात्रा आरोहावरोहयुक्ता अभवत्। वर्धमानतापमानम्, चिलिङ्ग्-आवर्स इत्यस्य न्यूनता, ओलावृष्टिः, तीव्रवाताः तथा असामयिकवृष्टिः उत्पादनस्य गुणवत्तायाः च प्रतिकूलप्रभावं जनयन्ति।

Hindusthan Samachar / Divya Ranjan