समाजे सकारात्मक-परिवर्तनस्य प्रभावी माध्यमानि मातृशक्ति-कॉन्क्लेव-इत्यादीनि आयोजनानि - आनन्दीबेन-पटेलः
अयोध्यानगरम्, २८ जूनमासः (हि.स.)। उत्तरप्रदेशस्य राज्यपाल: आनन्दीबेन-पटेलः रविवासरे डॉ.राममनोहर-लोहिया-अवध-विश्वविद्यालये आयोजिते मातृशक्ति-कॉन्क्लेव-अयोध्या कार्यक्रमे मुख्य-अतिथिरूपेण सहभागिनी अभवत्। कार्यक्रमे आयोजितेन माता-पुत्री-संवादेन शिक्षा
अवध विश्विद्यालय में राज्यपाल


अयोध्यानगरम्, २८ जूनमासः (हि.स.)। उत्तरप्रदेशस्य राज्यपाल: आनन्दीबेन-पटेलः रविवासरे डॉ.राममनोहर-लोहिया-अवध-विश्वविद्यालये आयोजिते मातृशक्ति-कॉन्क्लेव-अयोध्या कार्यक्रमे मुख्य-अतिथिरूपेण सहभागिनी अभवत्। कार्यक्रमे आयोजितेन माता-पुत्री-संवादेन शिक्षायाः, संस्कारस्य, स्वास्थ्यस्य, महिला-सशक्तीकरणस्य तथा बाल-विकासस्य इत्यादीनां महत्त्वपूर्ण-विषयाणां विषये विस्तृतः विचार-विमर्शः अभवत्।

राज्यपाला विभिन्न-विभागैः आयोजितानां प्रदर्शिनीनां तथा सीएसआर-अनुदानित-सामग्रीणाम् अवलोकनम् अकरोत्। अस्मिन्नवसरे स्वास्थ्य-विभागेन २०० बालिकाभ्यः एचपीवी-टीका प्रदत्ता तथा १० बालकेभ्यः पल्स-पोलियो-औषधस्य द्वे बिन्दू पायिते।

राज्यपाला अवदत् यत् मातृशक्ति-कॉन्क्लेव-इत्यादीनि आयोजनानि समाजे सकारात्मक-परिवर्तनस्य प्रभावी माध्यमानि सन्ति। तया उक्तं यत् राष्ट्रनिर्माणे मातृशक्तेः भूमिका सर्वाधिक-महत्त्वपूर्णा वर्तते तथा भारतस्य २०४७ तमवर्षपर्यन्तं विकसित-राष्ट्रत्व-लक्ष्यस्य सिद्ध्यर्थं महिलानां सक्रिय-सहभागिता अनिवार्या अस्ति।

सा जनपद-प्रशासनेन महिला-बाल-विकास-क्षेत्रे क्रियमाणानां कार्याणां प्रशंसाम् अकुरुत्। तया उक्तं यत् जनपदस्य सर्वेषु आङ्गनबाडी-केन्द्रेषु पाक-व्यवस्थायाः शत-प्रतिशत-सुदृढीकरणं तथा बालकेभ्यः नियमितरूपेण उष्ण-पौष्टिक-भोजनस्य उपलब्धता अत्यन्तं प्रशंसनीया अस्ति।

राज्यपाला मातृभ्यः आह्वानम् अकरोत् यत् ताः स्वपुत्रीभ्यः एचपीवी-टीकां अवश्यं दापयेयुः। तथा च त्रिंशद्वर्षाधिक-वयस्काः महिलाः समये-समये स्वास्थ्य-परीक्षणं कर्कट-रोग-परीक्षणं च कारयेयुः। तया गर्भवती-महिलानां पोषणम्, बालकानां नियमित-टीकाकरणम्, पल्स-पोलियो-अभियानम्, सन्तुलित-आहारः तथा गुणवत्तापूर्ण-शिक्षा इत्येतेषु विशेषं बलं दत्तम्। सा अवदत् यत् बालकेभ्यः उत्तम-संस्कार-प्रदानं परिवारस्य सामूहिकं दायित्वम् अस्ति। बालकान् चलदूरवाणी-सामाजिक-माध्यमयोः अतिप्रयोगात् दूरं स्थापयित्वा भारतीय-संस्कृत्या, नैतिक-मूल्यैः तथा महापुरुषाणाम् आदर्शैः सह संयोजनीयम्। किशोरीभ्यः उत्तम-शिक्षां प्राप्य आत्मनिर्भराः भवितुं तथा दुष्सङ्गात् दूरं स्थातुम् अपि सा प्रेरितवती।

कार्यक्रमे विभिन्न-विद्यालयानां विद्यार्थिभिः आकर्षकाः सांस्कृतिक-प्रस्तुतयः प्रदर्शिताः। उत्कृष्ट-प्रदर्शनं कृतवन्तः विद्यार्थी सम्मानिताः। ‘बेटी-बचाओ-बेटी-पढ़ाओ’ अभियानस्य, विद्याशक्ति-पहलस्य तथा सीएसआर-सम्बद्ध-कार्यक्रमाणाम् अपि आयोजनम् अभवत्।

अस्मिन्नवसरे कुलपतिः प्रो. बृजेन्द्र-सिंहः, जनपदाधिकारी शशाङ्क-त्रिपाठी, वरिष्ठ-पुलिस-अधीक्षकः डा. गौरव-ग्रोवरः, मुख्य-विकास-अधिकारी कृष्ण-कुमार-सिंहः, मुख्य-चिकित्सा-अधिकारी डा. देवेन्द्र-भिटौरिया, विभिन्न-विभागानां अधिकारीणः कर्मचारीणश्च, जनप्रतिनिधयः, आङ्गनबाडी-कार्यकर्त्र्यः, छात्राः, छात्र्यः तथा बहुसंख्याः महिलाः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / Divya Ranjan