अली फजलः अश्रावयत् 'मिर्जापुरस्य' वार्ताम्
अभिनेता अली फजलः उद्घाटितवान् यत् यदा तस्मै जालशृङ्खला ‘मिर्जापुर’ इत्यस्याः प्रस्तावः प्राप्तः, तदा बहुभिः निर्मातृभिः तस्मै अस्मात् परियोजनात् दूरं स्थितुं परामर्शः दत्तः आसीत्। तस्मिन् समये सः चलच्चित्रेषु स्वीयां परिचितिं निर्मातुं प्रयतमानः आस
अली फजल - फोटो सोर्स एक्स


अभिनेता अली फजलः उद्घाटितवान् यत् यदा तस्मै जालशृङ्खला ‘मिर्जापुर’ इत्यस्याः प्रस्तावः प्राप्तः, तदा बहुभिः निर्मातृभिः तस्मै अस्मात् परियोजनात् दूरं स्थितुं परामर्शः दत्तः आसीत्। तस्मिन् समये सः चलच्चित्रेषु स्वीयां परिचितिं निर्मातुं प्रयतमानः आसीत्, तथा च जनानां मतम् आसीत् यत् तेन केवलं चलच्चित्रेष्वेव ध्यानं केन्द्रितव्यम्। अली अवदत् यत् अनन्तरं तस्मै ज्ञातम् अभवत् यत् ‘फुकरे’ इत्यस्य निर्देशकः मृगदीपसिंहलाम्बा ‘मिर्जापुर’ इत्यस्य निर्मातृभ्यः तस्य नाम अनुशंसितवान्।

अली अवदत् यत् ‘गुड्डू पण्डित’ इति पात्रं प्राप्य सः अत्यन्तं सन्त्रस्तः आसीत्, यतः तस्मै ज्ञातं नासीत् यत् एतत् पात्रं समग्रा च शृङ्खला दर्शकाणां पुरतः केन रूपेण प्रस्तुते भविष्यतः। तथापि सः परिवर्तमानं कालं सम्यक् अवगत्य ओटीटी माध्यमस्य सम्भावनासु विश्वासं कृत्वा अस्याः परियोजनायाः अङ्गं भवितुं निर्णयम् अकरोत्।

अली फजलस्य अनुसारम्, सः ओटीटी माध्यमस्य उद्भवमानं युगं समीपतः अवलोकितवान्, तेन च अनुभूतं यत् मनोरञ्जनक्षेत्रे नूतना क्रान्तिः आगन्तुं वर्तते। तेन लेखकस्य पुनीतकृष्णस्य पटकथायाः तथा ‘मिर्जापुर’ इत्यस्य जगतः मुक्तकण्ठेन प्रशंसा कृता। अधुना अस्याः एव लोकप्रियायाः शृङ्खलायाः आधारेण निर्मिता ‘मिर्जापुरः चलचित्रम्’ इति चलचित्रं ४ सेप्टेम्बर् २०२६ तमे दिने चलच्चित्रगृहेषु प्रदर्शितं भविष्यति, यस्मिन् पङ्कजत्रिपाठी, दिव्येन्दुः, जितेन्द्रकुमारयादवः तथा रविकिशनः अपि महत्त्वपूर्णेषु भूमिकासु दृश्यन्ते।

Hindusthan Samachar / Dheeraj Maithani