गंगा-गोमती क्षेत्रस्य भूजले आर्सेनिक इत्यस्मिन् एवं फ्लोराइड प्रदूषणे बीबीएयूद्वारा करिष्यते महत्वपूर्ण शोधः
- प्रो. नरेन्द्र कुमाराय एवं डॉ. मोनिकायै एएनआरएफद्वारा अमिलत् शोध परियोजना लखनऊ, 29 जूनमासः (हि.स.)। उत्तरप्रदेशस्य राजधानी लखनऊ नगरे स्थितस्य बाबासाहेबभीमरावअम्बेडकरविश्वविद्यालयस्य पर्यावरणविज्ञानविभागस्य प्राध्यापकः नरेन्द्रकुमारः तथा जैवप
जैव प्रौद्योगिकी विभाग की डॉ. मोनिका


पर्यावरण विज्ञान विभाग के प्रो. नरेन्द्र कुमार


- प्रो. नरेन्द्र कुमाराय एवं डॉ. मोनिकायै एएनआरएफद्वारा अमिलत् शोध परियोजना

लखनऊ, 29 जूनमासः (हि.स.)।

उत्तरप्रदेशस्य राजधानी लखनऊ नगरे स्थितस्य बाबासाहेबभीमरावअम्बेडकरविश्वविद्यालयस्य पर्यावरणविज्ञानविभागस्य प्राध्यापकः नरेन्द्रकुमारः तथा जैवप्रौद्योगिकीविभागस्य डा मोनिका इत्येताभ्यां महती अनुसंधानसफलता प्राप्ता। अनुसंधान राष्ट्रिय अनुसंधान प्रतिष्ठानम् नवीदिल्ली इत्यनेन तयोः संयुक्ता शोधपरियोजना गंगागोमतीदोआबे आर्सेनिक फ्लोराइडयोः जलविज्ञानाधारितमानचित्रणम् सहअस्तित्वम् पर्यावरणगतिशीलता च शाश्वतशमनविधीनां समन्वितदृष्टिकोणः इति स्वीकृता। प्रायः पञ्चसप्ततिलक्षरूप्यकव्यययुक्ता एषा परियोजना त्रिवर्षीयावधये अनुमोदिता। एषा सूचना विश्वविद्यालयस्य जनसम्पर्काधिकारिण्या डा रचना गंगवार इत्यनया सोमवासरे प्रकाशितपत्रे प्रदत्ता। तत्र उक्तम् यत् अस्याः परियोजनायाः प्रमुखम् उद्देश्यम् उत्तरप्रदेशस्य महत्त्वपूर्णे गंगागोमतीदोआबप्रदेशे भूजलस्थितयोः आर्सेनिक फ्लोराइडयोः अवस्था वितरणम् सहअस्तित्वम् तथा तयोः पर्यावरणीयप्रभावानां वैज्ञानिकाध्ययनम् अस्ति। एतत् अनुसंधानम् प्रदेशे सुरक्षितपेयजलोपलब्धये जनस्वास्थ्यसंरक्षणाय पर्यावरणस्थैर्यवर्धनाय च महत्त्वपूर्णम् योगदानम् दास्यति।

ग्रामीणनगरीयप्रदेशयोः बहुसंख्यका जनाः पेयजलार्थम् भूजलमेव आश्रयन्ति किन्तु अर्वाचीनकालेषु भूजले आर्सेनिक फ्लोराइडयोः वर्धमाना मात्रा गम्भीरस्वास्थ्यसमस्यारूपेण अभवत्। एते तत्त्वे स्वाभाविकरूपेण शिलासु मृत्तिकायां च विद्येते किन्तु भूजलस्य परिवर्तितपरिस्थितिभिः अतिदोहनेन अन्यैश्च पर्यावरणकारकैः तयोः सान्द्रता वर्धते। आर्सेनिकम् अत्यन्तविषाक्ततत्त्वम् अस्ति यस्य दीर्घकालसम्पर्केण त्वग्रोगाः हृदयरोगाः तथा कर्कटरोगादयः गम्भीररोगाः सम्भवन्ति। फ्लोराइडस्य अधिकमात्रा दन्तफ्लोरोसिस अस्थिफ्लोरोसिस च जनयति। यदा एतौ उभौ प्रदूषकौ भूजले सहवर्तेते तदा मानवस्वास्थ्ये कृषिक्षेत्रे मृदागुणे स्थानीयपारिस्थितिकतन्त्रे च तयोः प्रतिकूलप्रभावः अधिकः भवति।

अस्याः परियोजनायाः अन्तर्गतं प्रभावितप्रदेशानां वैज्ञानिकमानचित्रणम् प्रदूषणस्य स्रोतसां कारणानां च परिचयः भूजलस्य गतिशीलतायाः अध्ययनम् तथा व्यवहारयोग्यानां शाश्वतशमनोपायानां विकासः क्रियते। अनुसंधानात् प्राप्ताः निष्कर्षाः नीतिनिर्मातृभ्यः प्रशासनिकसंस्थाभ्यः स्थानीयसमुदायेभ्यश्च सुरक्षितपेयजलव्यवस्थापनाय जनस्वास्थ्यसंरक्षणाय च उपयोगिनः वैज्ञानिकाधारं प्रदास्यन्ति।

एषा परियोजना गंगागोमतीप्रदेशे जलगुणवत्तासुधाराय पर्यावरणसंरक्षणाय सततविकासलक्ष्यसिद्धये च महत्त्वपूर्णं पदम् भविष्यति। तदनन्तरं स्थानीयसमुदायेषु जलगुणवत्ताविषये जनजागरूकतां वर्धयितुं जलजन्यस्वास्थ्यसंकटानां न्यूनीकरणे च एषा परियोजना महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani