छत्तीसगढस्य मुख्यमंत्री सायेन सह कर्नाटकस्य राज्यपाल थावरचंद गहलोतः अकरोत् सौजन्यमेलनम्
रायपुरम् 29 जूनमासः (हि.स.)। छत्तीसगढस्य मुख्यमन्त्री विष्णुदेव सायेन अद्य सोमवासरे रायपुरनगरे स्थिते मुख्यमन्त्रिनिवासे कर्नाटकस्य राज्यपालेन थावरचन्द गहलोतेन सह सौजन्यमेलनं कृतम्। मुख्यमन्त्री सायः छत्तीसगढप्रवासे आगतस्य राज्यपालस्य गहलोतस्य
मुख्यमंत्री  साय  राज्यपाल गहलोत का बस्तर आर्ट का प्रतीक चिन्ह भेंट कर स्वागत करते हुए


रायपुरम् 29 जूनमासः (हि.स.)।

छत्तीसगढस्य मुख्यमन्त्री विष्णुदेव सायेन अद्य सोमवासरे रायपुरनगरे स्थिते मुख्यमन्त्रिनिवासे कर्नाटकस्य राज्यपालेन थावरचन्द गहलोतेन सह सौजन्यमेलनं कृतम्।

मुख्यमन्त्री सायः छत्तीसगढप्रवासे आगतस्य राज्यपालस्य गहलोतस्य आत्मीयस्वागतं कृत्वा तस्मै बस्तरप्रदेशस्य समृद्धकलासांस्कृतिकपरम्परायाः प्रतीकरूपं बस्तरकलाचिह्नं समर्पितवान्। अस्मिन् अवसरे उभयोः मध्ये विविधेषु समसामयिकविषयेषु जनहितसम्बद्धेषु विषयेषु च आत्मीयचर्चा अभवत्।

Hindusthan Samachar / Dheeraj Maithani