Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 29 जूनमासः (हि.स)।
केन्द्रीयमन्त्रिमण्डलेन देशस्य आधारभूतसंरचनाविकासस्य गतिवर्धनार्थं राष्ट्रियनिवेश-अवसंरचनाकोषे (एनआईआईएफ) अतिरिक्तरूपेण ३० सहस्रकोटिरूप्यकाणां निवेशः अनुमोदितः। एतेन सह भारतसर्वकारस्य एनआईआईएफ-मध्ये कुलनिवेशनिबद्धता द्विगुणिता भूत्वा ६० सहस्रकोटिरूप्यकाणि जाता।
वित्तमन्त्रालयेन सोमवासरे प्रकाशिते वक्तव्ये उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदिनः अध्यक्षतायां सम्पन्ने केन्द्रीयमन्त्रिमण्डलस्य सभायां गतसप्ताहे आधारभूतसंरचनायाः तथा राष्ट्रियमहत्त्वस्य अन्येषां क्षेत्राणां निवेशप्रतिबद्धतां सुदृढीकर्तुं महत्त्वपूर्णः निर्णयः कृतः। तस्यानुसारं एनआईआईएफस्य नवीनानाम् आगामिनां च निधीनां कृते भारतसर्वकारस्य पक्षतः अतिरिक्तरूपेण ३० सहस्रकोटिरूप्यकाणां निवेशः अनुमोदितः। एतेन सह भारतसर्वकारस्य एनआईआईएफ-मध्ये कुलनिवेशनिबद्धता ६० सहस्रकोटिरूप्यकेभ्यः अभवत्।
मन्त्रालयस्य अनुसारं राष्ट्रियनिवेश-अवसंरचनाकोषः (एनआईआईएफ) भारतस्य सार्वभौम-आधारनिधिः अस्ति, यस्य सञ्चालनं प्रबन्धनं च नेशनल इन्वेस्टमेंट एण्ड इन्फ्रास्ट्रक्चर फण्ड लिमिटेड (एनआईआईएफएल) इत्यनेन व्यावसायिकरीत्या क्रियते। भारतसर्वकारस्य अस्मिन् कोषे ४९ प्रतिशतभागीदारी अस्ति। सः स्वनिधीनां निवेशनीतेः अन्तर्गतं प्रायः ४० सहस्रकोटिरूप्यकाणां पूँजीनिबद्धतां प्रबध्नाति।
एनआईआईएफ पूँजीनिवेशे तथा तस्मात् प्रतिफलप्राप्तौ उत्कृष्टं कार्यप्रदर्शनं प्रदर्शितवान्। सः विशालनिवेशसञ्चयात् सफलनिर्गमं कृत्वा निवेशकेभ्यः प्रायः १२ सहस्रकोटिरूप्यकाणि प्रत्यर्पितवान्।
राष्ट्रियनिवेश-अवसंरचनाकोषे सार्वभौमनिधिभ्यः, पेंशननिधिभ्यः, बहुपक्षीयविकासबैङ्केभ्यः तथा देशस्य प्रमुखवित्तीयसंस्थाभ्यः पर्याप्ता पूँजी संगृहीता अस्ति। एतेषु अबूधाबी इन्वेस्टमेण्ट अथॉरिटी, ऑस्ट्रेलियनसुपर, सीपीपी इन्वेस्टमेण्ट्स, ओण्टारियो टीचर्स पेंशन प्लान, पीएसपी इन्वेस्टमेण्ट्स, टेमासेक, एशियन इन्फ्रास्ट्रक्चर इन्वेस्टमेण्ट बैङ्क, न्यू डेवलपमेण्ट बैङ्क, एशियन डेवलपमेण्ट बैङ्क, जापान बैङ्क फॉर इण्टरनेशनल कोऑपरेशन, यूएस इण्टरनेशनल डेवलपमेण्ट फाइनान्स कॉरपोरेशन, एक्सिस बैङ्क, एचडीएफसी समूहः, आईसीआईसीआई बैङ्क, कोटक महिन्द्रा लाइफ इन्श्योरन्स तथा स्टेट बैङ्क ऑफ इण्डिया इत्यादयः प्रमुखनिवेशकाः सन्ति।
---------------------
Hindusthan Samachar / Dheeraj Maithani