प्राकृतिक-सौन्दर्येन परिपूर्णः कुकरू-प्रदेशः प्रमुख-पर्यटन-केन्द्रं भविष्यति - मुख्यमन्त्री डा. यादवः
भोपालनगरम्, २८ जूनमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डा. मोहन-यादवः बैतूल-जनपदस्य पर्वतीय-पर्यटनस्थलं कुकरू प्रदेशस्य प्रमुख-पर्यटन-केन्द्ररूपेण विकसितुं अनेकाः महत्त्वपूर्णाः घोषणाः अकरोत्। सः अवदत् यत् पर्यटन-विकासार्थं १५ कोटि-रूप्यकाणां व
मुख्यमंत्री डॉ. मोहन यादव ने बैतूल के कुकरू में ग्राम चौपाल में ग्रामीणों से संवाद किया


मुख्यमंत्री डॉ. मोहन यादव ने बैतूल के कुकरू में योगाभ्यास किया


मुख्यमंत्री डॉ. मोहन यादव ने बैतूल के कुकरू में नव नियुक्त वन रक्षकों को नियुक्ति पत्र प्रदान किए


मुख्यमंत्री डॉ. मोहन यादव ने बैतूल के कुकरू में खेत में चलाया हल


मुख्यमंत्री डॉ. मोहन यादव ने बैतूल के कुकरू में स्व सहायता समूह की महिलाओं को हेलमेट वितरित किए


भोपालनगरम्, २८ जूनमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डा. मोहन-यादवः बैतूल-जनपदस्य पर्वतीय-पर्यटनस्थलं कुकरू प्रदेशस्य प्रमुख-पर्यटन-केन्द्ररूपेण विकसितुं अनेकाः महत्त्वपूर्णाः घोषणाः अकरोत्। सः अवदत् यत् पर्यटन-विकासार्थं १५ कोटि-रूप्यकाणां व्ययेन कुकरू, चिखलदरा, मुक्तागिरिः तथा मेलघाटम् एतानि संयोज्य एकीकृत-पर्यटन-परिपथः विकसितः भविष्यति।

मुख्यमन्त्री रविवासरे कुकरू-भ्रमणावसरे एतद् उक्तवान्। सः प्रसिद्धस्य कुकरू-पर्वतीय-पर्यटनस्थलस्य विश्रामगृह-परिसरे योगाभ्यासेन दिवसस्य आरम्भम् अकरोत् तथा योगस्य नियमित-अनुष्ठानाय प्रदेशवासिनः प्रेरितवान्। प्राकृतिक-रमणीय-परिसरे आयोजिते योग-सत्रे सः मयूरासनम्, शीर्षासनम्, ताडासनम्, वृक्षासनम्, त्रिकोणासनम्, भद्रासनम्, वक्रासनम्, भुजङ्गासनम्, शलभासनम् इत्यादीनि योगासनानि स्थानीय-ग्रामीणैः सह अभ्यस्य नाडी-शोधनम्, तितली-प्राणायामम्, भ्रामरी-प्राणायामं च अकरोत्।

मुख्यमन्त्री कुकरूतः राष्ट्रिय-पल्स-पोलियो-अभियानस्य शुभारम्भम् अकरोत् तथा बालकेभ्यः पोलियो-औषधस्य द्वे बिन्दू पाययितवान्। तेन कुकरू-पर्यटन-विकासस्य कार्ययोजनायाः प्रस्तुतीकरणम् अपि दृष्टम्।

सः अवदत् यत् कुकरूमध्ये ईको-पर्यटनम्, सूर्योदय-दर्शन-स्थलम्, सूर्यास्त-दर्शन-स्थलम् तथा अन्येषां दर्शनीय-स्थलानां विकासः भविष्यति। पर्यटकानां सुविधार्थम् आधुनिक-सुविधायुक्ताः ईको-विश्रामगृहाः तथा अन्या पर्यटन-अधोसंरचना विकसिताः भविष्यन्ति। ट्रेकिङ्ग्-सहितं विविधाः साहसिक-क्रीडाः अपि आरभ्यन्ते। आवश्यकता चेत् पर्यटन-विकासार्थं धनराशिरपि वर्धिता भविष्यति।

मुख्यमन्त्री अवदत् यत् स्थानीय-जनजातीय-ग्रामीण-समूहान् पर्यटन-व्यवसायेन संयोजयितुं होम-स्टे-व्यवस्था विकसिताः भविष्यन्ति। तेषां सञ्चालनं मध्यप्रदेश-पर्यटन-विकास-निगमस्य होटेल-इत्येतेषामिव भविष्यति तथा आरक्षण-व्यवस्था मध्यप्रदेश-पर्यटन-विभागेन क्रियते। एतेन स्थानीय-जनानां रोजगार-स्वरोजगार-अवसराः वर्धिष्यन्ते।

सः अवदत् यत् कुकरू उत्कृष्ट-कॉफी-उत्पादनेन सह कोदो-कुटकी, आमलकम्, मधु, हरितकी, विभीतकः, श्वेत-मूसली, भिल्लवः इत्यादिभिः प्राकृतिक-उत्पादैः अपि प्रसिद्धः अस्ति। एतेषां उत्पादानां संवर्धनार्थं स्वसहायता-समूह-महिलाभिः वन-विभागस्य सहयोगेन ‘कुकरू-नेचुरल’ इति नाम्ना उत्पादन-एककानि स्थाप्यन्ते तथा नगरेषु विक्रय-केन्द्राणि अपि उद्घाटितानि भविष्यन्ति।

सः दुग्ध-उत्पादनस्य अपार-सम्भावनां दृष्ट्वा रबडी, मावा, दधि तथा अन्येषां दुग्धोत्पादानां विक्रय-केन्द्राणि स्थापयितुं घोषणाम् अकरोत्। स्थानीय-यूनां पर्यटन-रोजगारे नियोजयितुं राष्ट्रिय-कौशल-विकास-निगमस्य माध्यमेन पर्यटक-मार्गदर्शकत्वे, वाहन-चालने, होटेल-प्रबन्धने च प्रशिक्षणं प्रदास्यते। रोबुस्टा-अरेबिका-कॉफी-उत्पादनस्य संवर्धनार्थं एक-कोटि-रूप्यकाणां व्ययेन परियोजना स्थाप्यते तथा कॉफी-बोर्ड वन-विभागश्च ग्रामीणेभ्यः तकनीकी-सहयोगं प्रदास्यतः।

सः अवदत् यत् ग्रामे कुकरूमध्ये पशुपालकेभ्यः उन्नत-वंशीय-पशवः प्रदास्यन्ते, पशुशाला-निर्माणस्य योजना च कार्यान्विता भविष्यति। जल-समस्यायाः स्थायी-समाधानार्थं पर्यटन-विकासाय च पञ्च-कोटि-रूप्यकाणां व्ययेन तडागः निर्मास्यते। ग्रामे कसई अपि तडाग-निर्माणार्थं सर्वेक्षणं भविष्यति। क्षेत्रे मार्गाणां, शिक्षायाः तथा आधारभूत-अधोसंरचनायाः विस्तारः अपि भविष्यति।

मुख्यमन्त्री स्थानीय-ग्रामीणानां प्रार्थनया समग्र-विकासार्थम् आयुष-विभागस्य अन्तर्गतं वेलनेस-केन्द्र-स्थापना, जामुखेडा-ग्रामे मार्ग-निर्माणम्, लोकलदरी-ग्रामे पुलिका-निर्माणम्, कसई-भोडियाकुण्ड-मार्ग-निर्माणम्, बालिका-छात्रावास-निर्माणम्, उचित-मूल्य-विपण-निर्माणम् इत्यादीनि अनेकानि अधोसंरचनात्मक-कार्याणि घोषयामास।

मुख्यमन्त्री कुकरू-क्षेत्रे कृषकस्य सहादेव-गायनी इत्यस्य क्षेत्रे स्वयम् हलं चालयित्वा मक्का-बीजानि अवपत् तथा कृषकानां उत्साहं वर्धितवान्। सः कृषकाणां परिश्रमस्य प्रशंसां कृत्वा कृषिम् राज्यस्य समृद्धेः आधारम् इति अवदत्।

सः ग्रामीणैः सह आत्मीय-संवादम् अकरोत् तथा स्वसहायता-समूह-महिलानां कार्यस्य प्रशंसां कृत्वा ताः आत्मनिर्भरत्वाय प्रेरितवान्।

कार्यक्रमे ‘बैतूल-दर्शन’ इति पुस्तिकायाः विमोचनम् अपि अभवत्। अस्यां पुस्तिकायां बैतूल-जनपदस्य प्रमुख-पर्यटन-धार्मिक-प्राकृतिक-सांस्कृतिक-स्थलानां विवरणं सङ्कलितम् अस्ति।

मुख्यमन्त्री स्वसहायता-समूहस्य महिलाभ्यः नागरिकेभ्यश्च सुरक्षा-शिरस्त्राणानि वितरितवान्। वन्दना-सावे, सविता-आठोले, सन्तोषी-बेलकर, धर्मेन्द्र-सावे, सायबू-आठोले तथा अशोक-बेतकर इत्येभ्यः शिरस्त्राणानि प्रदत्तानि।

वन-रक्षक-भर्ती-परीक्षायां विशेष-पृष्ठ-जनजाति-वर्गात् चयनितेभ्यः ४५ अभ्यर्थिभ्यः नियुक्ति-प्रमाणपत्राणि प्रदत्तानि। राजू-बेगा, प्रमोद-ठकरिया, अजय-सहरिया, रानूबाई-बैगा तथा ज्योति-मिल्थरे इत्येभ्यः प्रमाणपत्राणि समर्पितानि।

मुख्यमन्त्री कुकरू-स्थितस्य कॉफी-उद्यानस्य निरीक्षणं कृत्वा तस्य इतिहासं, भूगर्भीय-स्थितिं तथा प्राकृतिक-परिवेशस्य विषये सूचनाम् अलभत। स्थानीय-कृषकान् कॉफी-उत्पादने संयोजयितुं सः विशेषं बलम् अदात् तथा अवदत् यत् कॉफी-कृषिः ग्रामीणाणाम् आय-वृद्धेः प्रभावीमाध्यमं भवितुम् अर्हति।

ततः परं कॉफी-प्रसंस्करण-कार्ये संलग्नायाः ल-वॉन-निर्माण्य: प्रतिनिधिभिः सह चर्चां कृत्वा कॉफी-प्रसंस्करणम्, विपणनम् तथा उत्पादन-विस्तारस्य सम्भावनाः अपि विचारिताः। उल्लेखनीयम् अस्ति यत् १९४४ तमे वर्षे ब्रिटिश-महिलया फ्लोरेन्स-हेन्ड्रिक्स इत्यनया अत्र कॉफी-उद्यानस्य स्थापना कृता। एतत् उद्यानं प्रायः ४० हेक्टेयर-क्षेत्रे विस्तृतम् अस्ति तथा अद्यापि क्षेत्रस्य महत्त्वपूर्णा प्राकृतिक-कृषि-धरोहररूपेण प्रसिद्धा अस्ति।

अस्मिन्नवसरे केन्द्रीय-जनजातीय-कार्य-राज्यमन्त्री दुर्गादास-उइके, वरिष्ठ-विधायकः प्रदेशाध्यक्षश्च हेमन्त-खण्डेलवालः, अनुसूचित-जनजाति-आयोगस्य सदस्यः मङ्गल-सिंह-धुर्वे, मध्यप्रदेश-जन-अभियान-परिषदः उपाध्यक्षः मोहन-नागरः, जनपदाधिकारी डा. सौरभ-सञ्जय-सोनवणे, वनमण्डल-अधिकारी लक्ष्मीकान्त-वासनिकः, आयुषविभागस्य योग-प्रशिक्षकः तथा बहुसंख्याः स्थानीय-ग्रामीणाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan