Enter your Email Address to subscribe to our newsletters





भोपालनगरम्, २८ जूनमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डा. मोहन-यादवः बैतूल-जनपदस्य पर्वतीय-पर्यटनस्थलं कुकरू प्रदेशस्य प्रमुख-पर्यटन-केन्द्ररूपेण विकसितुं अनेकाः महत्त्वपूर्णाः घोषणाः अकरोत्। सः अवदत् यत् पर्यटन-विकासार्थं १५ कोटि-रूप्यकाणां व्ययेन कुकरू, चिखलदरा, मुक्तागिरिः तथा मेलघाटम् एतानि संयोज्य एकीकृत-पर्यटन-परिपथः विकसितः भविष्यति।
मुख्यमन्त्री रविवासरे कुकरू-भ्रमणावसरे एतद् उक्तवान्। सः प्रसिद्धस्य कुकरू-पर्वतीय-पर्यटनस्थलस्य विश्रामगृह-परिसरे योगाभ्यासेन दिवसस्य आरम्भम् अकरोत् तथा योगस्य नियमित-अनुष्ठानाय प्रदेशवासिनः प्रेरितवान्। प्राकृतिक-रमणीय-परिसरे आयोजिते योग-सत्रे सः मयूरासनम्, शीर्षासनम्, ताडासनम्, वृक्षासनम्, त्रिकोणासनम्, भद्रासनम्, वक्रासनम्, भुजङ्गासनम्, शलभासनम् इत्यादीनि योगासनानि स्थानीय-ग्रामीणैः सह अभ्यस्य नाडी-शोधनम्, तितली-प्राणायामम्, भ्रामरी-प्राणायामं च अकरोत्।
मुख्यमन्त्री कुकरूतः राष्ट्रिय-पल्स-पोलियो-अभियानस्य शुभारम्भम् अकरोत् तथा बालकेभ्यः पोलियो-औषधस्य द्वे बिन्दू पाययितवान्। तेन कुकरू-पर्यटन-विकासस्य कार्ययोजनायाः प्रस्तुतीकरणम् अपि दृष्टम्।
सः अवदत् यत् कुकरूमध्ये ईको-पर्यटनम्, सूर्योदय-दर्शन-स्थलम्, सूर्यास्त-दर्शन-स्थलम् तथा अन्येषां दर्शनीय-स्थलानां विकासः भविष्यति। पर्यटकानां सुविधार्थम् आधुनिक-सुविधायुक्ताः ईको-विश्रामगृहाः तथा अन्या पर्यटन-अधोसंरचना विकसिताः भविष्यन्ति। ट्रेकिङ्ग्-सहितं विविधाः साहसिक-क्रीडाः अपि आरभ्यन्ते। आवश्यकता चेत् पर्यटन-विकासार्थं धनराशिरपि वर्धिता भविष्यति।
मुख्यमन्त्री अवदत् यत् स्थानीय-जनजातीय-ग्रामीण-समूहान् पर्यटन-व्यवसायेन संयोजयितुं होम-स्टे-व्यवस्था विकसिताः भविष्यन्ति। तेषां सञ्चालनं मध्यप्रदेश-पर्यटन-विकास-निगमस्य होटेल-इत्येतेषामिव भविष्यति तथा आरक्षण-व्यवस्था मध्यप्रदेश-पर्यटन-विभागेन क्रियते। एतेन स्थानीय-जनानां रोजगार-स्वरोजगार-अवसराः वर्धिष्यन्ते।
सः अवदत् यत् कुकरू उत्कृष्ट-कॉफी-उत्पादनेन सह कोदो-कुटकी, आमलकम्, मधु, हरितकी, विभीतकः, श्वेत-मूसली, भिल्लवः इत्यादिभिः प्राकृतिक-उत्पादैः अपि प्रसिद्धः अस्ति। एतेषां उत्पादानां संवर्धनार्थं स्वसहायता-समूह-महिलाभिः वन-विभागस्य सहयोगेन ‘कुकरू-नेचुरल’ इति नाम्ना उत्पादन-एककानि स्थाप्यन्ते तथा नगरेषु विक्रय-केन्द्राणि अपि उद्घाटितानि भविष्यन्ति।
सः दुग्ध-उत्पादनस्य अपार-सम्भावनां दृष्ट्वा रबडी, मावा, दधि तथा अन्येषां दुग्धोत्पादानां विक्रय-केन्द्राणि स्थापयितुं घोषणाम् अकरोत्। स्थानीय-यूनां पर्यटन-रोजगारे नियोजयितुं राष्ट्रिय-कौशल-विकास-निगमस्य माध्यमेन पर्यटक-मार्गदर्शकत्वे, वाहन-चालने, होटेल-प्रबन्धने च प्रशिक्षणं प्रदास्यते। रोबुस्टा-अरेबिका-कॉफी-उत्पादनस्य संवर्धनार्थं एक-कोटि-रूप्यकाणां व्ययेन परियोजना स्थाप्यते तथा कॉफी-बोर्ड वन-विभागश्च ग्रामीणेभ्यः तकनीकी-सहयोगं प्रदास्यतः।
सः अवदत् यत् ग्रामे कुकरूमध्ये पशुपालकेभ्यः उन्नत-वंशीय-पशवः प्रदास्यन्ते, पशुशाला-निर्माणस्य योजना च कार्यान्विता भविष्यति। जल-समस्यायाः स्थायी-समाधानार्थं पर्यटन-विकासाय च पञ्च-कोटि-रूप्यकाणां व्ययेन तडागः निर्मास्यते। ग्रामे कसई अपि तडाग-निर्माणार्थं सर्वेक्षणं भविष्यति। क्षेत्रे मार्गाणां, शिक्षायाः तथा आधारभूत-अधोसंरचनायाः विस्तारः अपि भविष्यति।
मुख्यमन्त्री स्थानीय-ग्रामीणानां प्रार्थनया समग्र-विकासार्थम् आयुष-विभागस्य अन्तर्गतं वेलनेस-केन्द्र-स्थापना, जामुखेडा-ग्रामे मार्ग-निर्माणम्, लोकलदरी-ग्रामे पुलिका-निर्माणम्, कसई-भोडियाकुण्ड-मार्ग-निर्माणम्, बालिका-छात्रावास-निर्माणम्, उचित-मूल्य-विपण-निर्माणम् इत्यादीनि अनेकानि अधोसंरचनात्मक-कार्याणि घोषयामास।
मुख्यमन्त्री कुकरू-क्षेत्रे कृषकस्य सहादेव-गायनी इत्यस्य क्षेत्रे स्वयम् हलं चालयित्वा मक्का-बीजानि अवपत् तथा कृषकानां उत्साहं वर्धितवान्। सः कृषकाणां परिश्रमस्य प्रशंसां कृत्वा कृषिम् राज्यस्य समृद्धेः आधारम् इति अवदत्।
सः ग्रामीणैः सह आत्मीय-संवादम् अकरोत् तथा स्वसहायता-समूह-महिलानां कार्यस्य प्रशंसां कृत्वा ताः आत्मनिर्भरत्वाय प्रेरितवान्।
कार्यक्रमे ‘बैतूल-दर्शन’ इति पुस्तिकायाः विमोचनम् अपि अभवत्। अस्यां पुस्तिकायां बैतूल-जनपदस्य प्रमुख-पर्यटन-धार्मिक-प्राकृतिक-सांस्कृतिक-स्थलानां विवरणं सङ्कलितम् अस्ति।
मुख्यमन्त्री स्वसहायता-समूहस्य महिलाभ्यः नागरिकेभ्यश्च सुरक्षा-शिरस्त्राणानि वितरितवान्। वन्दना-सावे, सविता-आठोले, सन्तोषी-बेलकर, धर्मेन्द्र-सावे, सायबू-आठोले तथा अशोक-बेतकर इत्येभ्यः शिरस्त्राणानि प्रदत्तानि।
वन-रक्षक-भर्ती-परीक्षायां विशेष-पृष्ठ-जनजाति-वर्गात् चयनितेभ्यः ४५ अभ्यर्थिभ्यः नियुक्ति-प्रमाणपत्राणि प्रदत्तानि। राजू-बेगा, प्रमोद-ठकरिया, अजय-सहरिया, रानूबाई-बैगा तथा ज्योति-मिल्थरे इत्येभ्यः प्रमाणपत्राणि समर्पितानि।
मुख्यमन्त्री कुकरू-स्थितस्य कॉफी-उद्यानस्य निरीक्षणं कृत्वा तस्य इतिहासं, भूगर्भीय-स्थितिं तथा प्राकृतिक-परिवेशस्य विषये सूचनाम् अलभत। स्थानीय-कृषकान् कॉफी-उत्पादने संयोजयितुं सः विशेषं बलम् अदात् तथा अवदत् यत् कॉफी-कृषिः ग्रामीणाणाम् आय-वृद्धेः प्रभावीमाध्यमं भवितुम् अर्हति।
ततः परं कॉफी-प्रसंस्करण-कार्ये संलग्नायाः ल-वॉन-निर्माण्य: प्रतिनिधिभिः सह चर्चां कृत्वा कॉफी-प्रसंस्करणम्, विपणनम् तथा उत्पादन-विस्तारस्य सम्भावनाः अपि विचारिताः। उल्लेखनीयम् अस्ति यत् १९४४ तमे वर्षे ब्रिटिश-महिलया फ्लोरेन्स-हेन्ड्रिक्स इत्यनया अत्र कॉफी-उद्यानस्य स्थापना कृता। एतत् उद्यानं प्रायः ४० हेक्टेयर-क्षेत्रे विस्तृतम् अस्ति तथा अद्यापि क्षेत्रस्य महत्त्वपूर्णा प्राकृतिक-कृषि-धरोहररूपेण प्रसिद्धा अस्ति।
अस्मिन्नवसरे केन्द्रीय-जनजातीय-कार्य-राज्यमन्त्री दुर्गादास-उइके, वरिष्ठ-विधायकः प्रदेशाध्यक्षश्च हेमन्त-खण्डेलवालः, अनुसूचित-जनजाति-आयोगस्य सदस्यः मङ्गल-सिंह-धुर्वे, मध्यप्रदेश-जन-अभियान-परिषदः उपाध्यक्षः मोहन-नागरः, जनपदाधिकारी डा. सौरभ-सञ्जय-सोनवणे, वनमण्डल-अधिकारी लक्ष्मीकान्त-वासनिकः, आयुषविभागस्य योग-प्रशिक्षकः तथा बहुसंख्याः स्थानीय-ग्रामीणाः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan