राष्ट्रपतिना रक्षा-अलङ्करण-समारोहे १०५ विशिष्ट-सेवा-पदकानि प्रदत्तानि, सप्त अधिकारिणः सर्वोत्तम-युद्ध-सेवा-पदकेन सम्मानिताः
नवदेहली, २९ जूनमासः (हि.स.)। राष्ट्रपतिः द्रौपदी-मुर्मु सोमवासरे राष्ट्रपतिभवने आयोजिते रक्षा-अलङ्करण-समारोहे–२०२६ सशस्त्र-बलानां तथा भारतीय-तटरक्षक-बलस्य १०५ अधिकारिभ्यः कर्मिभ्यश्च विशिष्ट-सेवा-अलङ्करणानि प्रदत्तवती। एतेषु पुरस्कारेषु सप्त सर्वोत
राष्ट्रपति द्रौपदी मुर्मु सोमवार को लेफ्टिनेंट जनरल प्रतीक शर्मा को सर्वोत्तम युद्ध सेवा पदक प्रदान करते हुए


नवदेहली, २९ जूनमासः (हि.स.)। राष्ट्रपतिः द्रौपदी-मुर्मु सोमवासरे राष्ट्रपतिभवने आयोजिते रक्षा-अलङ्करण-समारोहे–२०२६ सशस्त्र-बलानां तथा भारतीय-तटरक्षक-बलस्य १०५ अधिकारिभ्यः कर्मिभ्यश्च विशिष्ट-सेवा-अलङ्करणानि प्रदत्तवती। एतेषु पुरस्कारेषु सप्त सर्वोत्तम-युद्ध-सेवा-पदकानि, ३० परम-विशिष्ट-सेवा-पदकानि, १२ उत्तम-युद्ध-सेवा-पदकानि तथा ५६ अति-विशिष्ट-सेवा-पदकानि सन्ति।

राष्ट्रपतिना एतेषाम् अलङ्करणानां माध्यमेन ते सैन्य-अधिकारिणः कर्मिणश्च सम्मानिताः, ये राष्ट्रस्य सुरक्षा-रक्षा-सेवासु असाधारणं नेतृत्वम्, उत्कृष्टां व्यावसायिक-क्षमतां तथा विशिष्टां सेवां प्रदर्शितवन्तः।

सर्वोत्तम-युद्ध-सेवा-पदकेन सम्मानिताः

सर्वोत्तम-युद्ध-सेवा-पदकेन सम्मानितेषु लेफ्टिनेन्ट-जनरल प्रतीक-शर्मा, एयर-मार्शल नागेश-कपूरः, लेफ्टिनेन्ट-जनरल राजीव-घई, एयर-मार्शल अवधेश-कुमार-भारती, सेवानिवृत्तः वाइस-एडमिरल संजय-जसजीत-सिंहः, सेवानिवृत्तः एयर-मार्शल नर्मदेश्वर-तिवारी तथा सेवानिवृत्तः एयर-मार्शल जितेन्द्र-मिश्रः समाविष्टाः।

परम-विशिष्ट-सेवा-पदकम्

परम-विशिष्ट-सेवा-पदकानि ३० वरिष्ठ-अधिकारिभ्यः प्रदत्तानि। तेषु नौसेनायाः एडमिरल कृष्ण-स्वामीनाथनः, लेफ्टिनेन्ट्-जनरल मञ्जिन्दर-सिंहः, एयर-मार्शल आशुतोष-दीक्षितः, एयर-मार्शल तेजिन्दर-सिंहः, एयर-मार्शल-सीथेपल्ली-श्रीनिवासः तथा स्थलसेना-नौसेना-वायुसेनानां अनेके वरिष्ठ-अधिकारिणः समाविष्टाः।

उत्तम-युद्ध-सेवा-पदकम्

उत्तम-युद्ध-सेवा-पदकानि १२ अधिकारिभ्यः प्रदत्तानि। तेषु लेफ्टिनेन्ट्-जनरल धीरज-सेठः, एयर-मार्शल मनीष-खन्ना, लेफ्टिनेन्ट-जनरल प्रशान्त-श्रीवास्तवः, लेफ्टिनेन्ट्-जनरल राजन-शरावतः, लेफ्टिनेन्ट-जनरल अभिजीत-एस्.-पेण्डारकरः, लेफ्टिनेन्ट-जनरल गम्भीर-सिंहः, लेफ्टिनेन्ट-जनरल प्रसन्न-किशोर-मिश्रः, वाइस-एडमिरल तरुण-सोबती, एयर-मार्शल प्रवीण-केशव-वोहरा, एयर-कमोडोर अजय-कुमार-चौधरी, एयर-कमोडोर प्रभात-मलिक: तथा ग्रुप-कैप्टन कमरान-नज़ीरः समाविष्टाः।

अति-विशिष्ट-सेवा-पदकम्

अति-विशिष्ट-सेवा-पदकानि ५६ अधिकारिभ्यः कर्मिभ्यश्च प्रदत्तानि। तेषु एयर-मार्शल तरुण-चौधरी, लेफ्टिनेन्ट-जनरल नीरज-वार्ष्णेयः, लेफ्टिनेन्ट-जनरल विकास-रोहेला, लेफ्टिनेन्ट्-जनरल हरबिन्दर-सिंह-वन्द्रा, नौसेना-वायुसेनयोः अनेके वरिष्ठ-अधिकारिणः, भारतीय-तटरक्षक-बलस्य अतिरिक्त-महानिदेशकः डॉनी-माइकलः तथा सेनायाः सूबेदारः एच.होकाटो-सेमा अपि समाविष्टाः।

Hindusthan Samachar / Divya Ranjan