दिल्ली ईवी नीतिः 2.0 : जनवरी 2027 तः इलेक्ट्रिक ऑटोयानम् अथ च अप्रैल 2028तः इलेक्ट्रिकद्विचक्रिकायाः भविष्यति पंजीकरणम्
नव दिल्ली, 29 जूनमासः (हि.स.)।दिल्लीसर्वकारेण विद्युच्चालितवाहननीतिः २ ० स्वीकृता। नवीननीतेः अन्तर्गतं ३० लक्षरूप्यकपर्यन्तमूल्ययुक्तेषु विद्युत्चालितकारयानेषु मार्गकरे पञ्जीकरणशुल्के च शतप्रतिशतपरिहारः प्रदास्यते। तदतिरिक्तं विद्युत्चालितद्विचक्रव
दिल्ली की मुख्यमंत्री रेखा गुप्ता की अध्यक्षता में आशीष सूद, मनजिंदर सिंह सिरसा और पंकज सिंह  कैबिनेट बैठक में शामिल।


नव दिल्ली, 29 जूनमासः (हि.स.)।दिल्लीसर्वकारेण विद्युच्चालितवाहननीतिः २ ० स्वीकृता। नवीननीतेः अन्तर्गतं ३० लक्षरूप्यकपर्यन्तमूल्ययुक्तेषु विद्युत्चालितकारयानेषु मार्गकरे पञ्जीकरणशुल्के च शतप्रतिशतपरिहारः प्रदास्यते। तदतिरिक्तं विद्युत्चालितद्विचक्रवाहनक्रयणे ३० सहस्ररूप्यकाणि विद्युत्चालितत्रिचक्रवाहनक्रयणे ५० सहस्ररूप्यकाणि एन १ श्रेण्याः विद्युत्चालितमालवाहकवाहनेषु च एकलक्षरूप्यकपर्यन्तं प्रोत्साहनराशिः प्रदास्यते।

तथैव १ जनवरी २०२७ आरभ्य केवलं नवीनानां विद्युत्चालितस्वयंचालितरिक्शायानानां तथा एन १ श्रेण्याः विद्युत्चालितमालवाहकवाहनानामेव पञ्जीकरणं भविष्यति। १ अप्रैल २०२८ आरभ्य केवलं नवीनानां विद्युत्चालितद्विचक्रवाहनानामेव पञ्जीकरणं क्रियिष्यते। अस्याः नीतेः अन्तर्गतं सम्पूर्णायां दिल्लीनगऱ्यां ३० सहस्राधिकाः विद्युच्चालनपुनर्भरणकेन्द्राणि स्थाप्यन्ते। पुरातनानां प्रदूषणकारकवाहनानां स्क्रैपकरणे ५ सहस्ररूप्यकात् आरभ्य एकलक्षरूप्यकपर्यन्तं प्रोत्साहनराशिरपि प्रदास्यते। सर्वेभ्यः पात्रलाभार्थिभ्यः प्रोत्साहनराशिः प्रत्यक्षलाभान्तरणपद्धत्या तेषां बैङ्कलेखासु प्रेष्यते।

मुख्यमन्त्रिणः रेखागुप्तायाः अध्यक्षतायां सोमवासरे सम्पन्नायां दिल्लीमन्त्रिमण्डलस्य उपवेशने अस्याः नीतेः अनुमोदनं कृतम्। नूतना विद्युत्चालितवाहननीतिः १ जुलाई आरभ्य प्रवर्तिष्यते तथा ३१ मार्च २०३० पर्यन्तं प्रभावी भविष्यति।

मुख्यमन्त्री रेखागुप्ता दिल्लीसचिवालये आयोजितायां पत्रकारवार्तायां अवदत् यत् वर्तमाना विद्युत्चालितवाहननीतिः ३० जून दिने समाप्ता भविष्यति। एतत् दृष्ट्वा १ जुलाई आरभ्य नूतना विद्युत्चालितवाहननीतिः २ ० प्रवर्तिष्यते। तया उक्तं यत् अस्याः नीतेः उद्देश्यं वाहनजन्यप्रदूषणस्य न्यूनीकरणं स्वच्छऊर्जाधारितपरिवहनस्य प्रोत्साहनं दिल्लीनगरस्य भविष्योपयुक्तपर्यावरणानुकूलराजधानीरूपेण विकासश्च अस्ति।

मुख्यमन्त्री अवदत् यत् सर्वकारः आगामिषु चतुर्षु वर्षेषु विद्युत्चालितवाहनक्षेत्रे प्रायः ७ सहस्रकोटिरूप्यकाणि व्ययिष्यति। अपरं ८ सहस्रकोटिरूप्यकाणि विद्युत्चालितवाहनाधारसंरचनायै मार्गकरपरिहाराय च व्ययिष्यन्ते। मार्गकरे प्रदीयमानपरिहारसहितैः विविधप्रोत्साहनैः दिल्लीनागरिकेभ्यः प्रायः १५ सहस्रकोटिरूप्यकाणां लाभः भविष्यति। तया उक्तं यत् अस्याः नीतेः अन्तर्गतं विद्युत्चालितवाहनक्रयणे स्क्रैपकरणे पुनर्भरणाधारसंरचनाविकासे मार्गकरपरिहारे च बहुविधानि सुविधानि प्रदास्यन्ते।

रेखागुप्ता अवदत् यत् नूतना विद्युत्चालितवाहननीतिः स्वच्छवायोः पर्यावरणानुकूलपरिवहनस्य स्थायिविकासस्य च प्रति सर्वकारस्य प्रतिबद्धतायाः प्रतीकम् अस्ति। अनया दिल्लीनगरे विद्युत्चालितवाहनानां स्वीकारः सुकरः भविष्यति तथा राजधानी स्मार्ट आधुनिकपरिवहनव्यवस्थया सम्पन्ना भविष्यति।

अस्मिन् अवसरे ऊर्जामन्त्री आशीषसूद पर्यावरणमन्त्री मनजिन्दरसिंहसिरसा स्वास्थ्यन्त्री पङ्कजसिंह च उपस्थिताः आसन्। पर्यावरणमन्त्री मनजिन्दरसिंहसिरसा अवदत् यत् मुख्यमन्त्रिणः रेखागुप्तायाः नेतृत्वे निर्मिता विद्युत्चालितवाहननीतिः २ ० प्रदूषणन्यूनीकरणद्वारा दिल्लीनगरं स्वच्छं आधुनिकं उत्तमसार्वजनिकपरिवहनव्यवस्थायुक्तं राजधानीनगरं कर्तुमेव प्रमुखम् उद्दिशति।

---------------

Hindusthan Samachar / Dheeraj Maithani