राष्ट्रनिर्माणाय कार्यकर्तृषु अनुशासनं निरन्तरम् आत्मविकासश्च अनिवार्यौ : सह-प्रान्त-कार्यवाहः राजेशः
नवदेहली, २८ जूनमासः (हि.स.)। राष्ट्रियस्वयंसेवकसङ्घस्य दिल्ली-प्रान्तस्य सह-प्रान्त-कार्यवाहः राजेशः अवदत् यत् राष्ट्रनिर्माणाय कार्यकर्तृषु त्यागः, सेवा, अनुशासनं तथा निरन्तरम् आत्मविकासः इत्येते गुणाः अनिवार्याः सन्ति। सः एतत् शिक्षा-संस्कृत्यु
दिल्ली में शैक्षिक कार्यशाला के अवसर पर लोग मौजूद।


नवदेहली, २८ जूनमासः (हि.स.)। राष्ट्रियस्वयंसेवकसङ्घस्य दिल्ली-प्रान्तस्य सह-प्रान्त-कार्यवाहः राजेशः अवदत् यत् राष्ट्रनिर्माणाय कार्यकर्तृषु त्यागः, सेवा, अनुशासनं तथा निरन्तरम् आत्मविकासः इत्येते गुणाः अनिवार्याः सन्ति।

सः एतत् शिक्षा-संस्कृत्युत्थान-न्यासस्य तथा दिल्ली-धाम-खाटू-श्यामस्य संयुक्ततत्त्वावधाने आयोजितायां द्विदिवसीयायां प्रान्तीय-शैक्षिक-कार्य-शालायां उक्तवान्। अद्य रविवासरे कार्यशालायाः समापनम् अभवत्। भारतीय-ज्ञान-परम्परा तथा शिक्षायाः मौलिकस्वरूपस्य सुदृढीकरणम् इति विषये केन्द्रितायाः अस्याः कार्यशालायाः प्रमुखोद्देशः न्यासस्य कार्यकर्तॄन्, शिक्षकाश्च शिक्षाविदश्च भारतीय-ज्ञान-परम्परायाः, सङ्गठनात्मक-कार्यप्रणाल्याः तथा राष्ट्रिय-शिक्षायाः उद्देश्यानि प्रति जागरूकान् सक्रियांश्च कर्तुम् आसीत्।

तेन उपस्थितजनसमूहः भारतं जानीत, मन्यध्वं, भवत, भारतं निर्मात इति मूलमन्त्रं स्वजीवने आत्मसात्कर्तुम् आहूतः।

प्रथम-वैचारिक-सत्रे शिक्षा-संस्कृत्युत्थान-न्यासस्य राष्ट्रिय-संयोजकः ए. विनोदः शिक्षा-बचाओ-आन्दोलनस्य ऐतिहासिकां पृष्ठभूमिं निरूपितवान्। सः अवदत् यत् भारतस्य पुनः विश्वगुरुपदे प्रतिष्ठापनाय शिक्षा-व्यवस्थायाः भारतीय-संस्कृत्याः राष्ट्रिय-दृष्टेश्च अनुरूपं पुनर्गठनम् आवश्यकम्। सः शिक्षकान् प्रार्थितवान् यत् ते विद्यालयान् नवाचारस्य प्रयोगशालारूपेण विकसितवन्तः योगम्, सतत-अध्ययनं तथा अनुशासित-कार्यशैलीं च स्वीकुर्युः।

कार्यशालायाः द्वितीय-दिने शिक्षा-संस्कृत्युत्थान-न्यासस्य राष्ट्रिय-सचिवः डा. अतुल-कोठारी भारतीय-ज्ञान-परम्पराधारित-शिक्षायाः प्रासङ्गिकतां विवृतवान्। सः प्रान्तीय-कार्यकर्तॄन् सम्बोध्य अवदत् यत् राष्ट्रिय-शिक्षायाः उद्देश्यं केवलं रोजगार-प्रदानं न, अपितु चरित्रवन्तः, कर्तव्यनिष्ठाः, संस्कारिताः राष्ट्रनिष्ठाश्च नागरिकान् निर्मातुम् अस्ति। राष्ट्रिय-शिक्षा-नीतेः (एनईपी-२०२०) तथा भारतीय-ज्ञान-परम्परायाः प्रभावि-क्रियान्वयने शिक्षकाणां भूमिका सर्वाधिकमहत्त्वपूर्णा वर्तते।

खाटू-श्याम-दिल्ली-धाम्नः राष्ट्रियाध्यक्षः घनश्याम-गुप्त-जवेरी स्वसम्बोधने अवदत् यत् मूल्यपरक-शिक्षायाः प्रसारः ईश्वरीयं कार्यम् अस्ति। सः विश्वासं व्यक्तवान् यत् दिल्ली-धाम-खाटू-श्यामः न्यासेन सह मिलित्वा शिक्षा, संस्कारः तथा राष्ट्रनिर्माणसम्बद्धेषु कार्येषु सदैव तत्परः भविष्यति।

अस्मिन् द्विदिवसीये आयोजने भारतीय-ज्ञान-परम्परा, पञ्चकोशाधारित-समग्र-शिक्षा, मूल्यपरक-शिक्षा, लक्ष्यनिर्धारणम्, सङ्गठनात्मक-सुदृढीकरणम् तथा एनईपी-२०२० इत्यस्य व्यावहारिक-क्रियान्वयनम् इत्यादिषु विषयेषु गम्भीरः संवादः समूहचर्चाश्च अभवन्। सहभागिभिः विविधाः सामाजिक-शैक्षिक-परियोजनानां कार्ययोजनाः निर्मिताः, तासां प्रस्तुतीकरणमपि कृतम्। कार्यशालायाः अन्ते सर्वे सहभागिनः देशे मूल्यनिष्ठां राष्ट्रोन्मुखीं च शिक्षा-व्यवस्थां सुदृढां कर्तुं सङ्कल्पम् अगृह्णन्।

अस्मिन्नवसरे दिल्ली-प्रान्तस्य अनेकाः प्रतिष्ठिताः शिक्षाविदः उपस्थिताः आसन्। तेषु मुख्यतया सञ्जय-स्वामी, शोभा-पेडणेकर:, निरञ्जन-कुमारः, प्रो. हितेश-शर्मा, प्रवीण-आर्यः, ओ. पी. वर्मा तथा श्री-विनोद-शानवालः समाविष्टाः आसन्।

Hindusthan Samachar / Divya Ranjan