‘मन की बात’ कार्यक्रमे मध्यप्रदेशस्य ब्यावरा-नगरस्य पर्यावरण-क्रान्तिः प्रशंसिता, प्रधानमन्त्रीणा भगिनीनां प्रयासाः प्रशंसिताः
भोपालनगरम्, २८ जूनमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः लोकप्रिय-कार्यक्रमस्य ‘मन की बात’ इत्यस्य १३५तमं प्रसारणं रविवासरे आकाशवाण्या अभवत्। अस्मिन् कार्यक्रमे प्रधानमन्त्री मध्यप्रदेशस्य राजगढ़-जनपदस्य ब्यावरा-नगरस्य भगिनीनां पर्यावरण-संरक्
मप्र के राजगढ़ जिले के ब्यावरा की बहनों ने प्लास्टिक कचरे से सार्वजनिक स्थानों को बनाया सुंदर


मुख्यमंत्री डॉ. मोहन यादव ने बैतूल में कार्यक्रम मन की बात को सुना


भोपालनगरम्, २८ जूनमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः लोकप्रिय-कार्यक्रमस्य ‘मन की बात’ इत्यस्य १३५तमं प्रसारणं रविवासरे आकाशवाण्या अभवत्। अस्मिन् कार्यक्रमे प्रधानमन्त्री मध्यप्रदेशस्य राजगढ़-जनपदस्य ब्यावरा-नगरस्य भगिनीनां पर्यावरण-संरक्षणाय कृतानाम् अनुकरणीय-प्रयत्नानाम् उल्लेखम् अकरोत्।

यदा प्रधानमन्त्रिणा मोदिना ‘मनसः वाणी’ कार्यक्रमे ब्यावरा-नगरस्य भगिनीनां ‘प्लास्टिक-मुक्त-अभियानस्य’ उल्लेखः कृतः, तदा एषः क्षणः सम्पूर्णस्य नगरस्य जनानां कृते गौरवस्य विषयः अभवत्। प्रधानमन्त्री ताभ्यः भगिनीभ्यः तथा पर्यावरण-प्रेमी-संस्थाभ्यः सामाजिक-हिताय कृतानाम् अनुकरणीय-प्रयत्नानां मुक्तकण्ठेन प्रशंसाम् अकरोत्। तेन एतत् अभियानं जनसहभागितया सामाजिक-परिवर्तनस्य तथा ‘वेस्ट-टू-वेल्थ’ इत्यस्य उत्कृष्टम् उदाहरणम् इति वर्णितः, सम्पूर्णदेशस्य कृते प्रेरणादायकश्च कथितः।

प्रधानमन्त्री अवदत् यत् तस्मै राजगढ़-जनपदस्य ब्यावरा-नगरस्य कतिपयाभ्यः भगिनीभ्यः विषये ज्ञातुं अवसरः प्राप्तः, याभिः स्वपरिसरे विकीर्णं प्लास्टिक-अवशिष्टं निष्कासयितुं सङ्कल्पः कृतः। ताः अन्येषां साहाय्यस्य परिवर्तनस्य वा प्रतीक्षां न कृतवन्त्यः, अपितु स्वयमेव अग्रे गत्वा नगरात् प्लास्टिक-अवशिष्टानि रिक्त-प्लास्टिक-पात्राणि च सङ्ग्रहीतुं प्रारब्धवन्त्यः। अल्पकाले एव एषः प्रयत्नः जनान्दोलनस्य रूपम् अधारयत्। सङ्गृहीतस्य प्लास्टिक-द्रव्यस्य पुनर्चक्रणं कृत्वा तस्य उपयोगः सार्वजनिक-स्थलानां सौन्दर्यवर्धने क्रियते। अतीतेषु कतिपयेषु मासेषु शतशः किलोग्राम-परिमितं प्लास्टिक-द्रव्यं पुनर्चक्रितं भूत्वा उपयोगे नीतम्। यत् प्लास्टिक-द्रव्यं पूर्वं प्रदूषणस्य कारणम् आसीत्, तदेव अधुना तासां प्रयासैः नगरस्य सौन्दर्य-वर्धने महत्त्वपूर्णं योगदानं ददाति।

प्रधानमन्त्री ब्यावरा-नगरस्य सर्वाभ्यः भगिनीभ्यः तथा अभियानेन सम्बद्धेभ्यः सर्वेभ्यः सामाजिक-प्रेरणादायक-कार्याय अभिनन्दनं शुभकामनाश्च अददात्। ‘मन की बात’ इति राष्ट्रिय-मञ्चे अस्य अभियानस्य उल्लेखः सम्पूर्णस्य राजगढ़-जनपदस्य मध्यप्रदेशस्य च कृते गौरवस्य क्षणः अभवत्। एषा उपलब्धिः दर्शयति यत् यदा समाजः स्वयमेव परिवर्तनस्य सङ्कल्पं करोति, तदा लघुतमः प्रयत्नोऽपि राष्ट्रिय-परिचयं प्राप्नोति तथा सर्वदेशस्य प्रेरणास्रोतः भवति।

मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः बैतूल-जनपदस्य कुकरू-ग्रामे ग्रामीणैः जनप्रतिनिधिभिश्च सह प्रधानमन्त्रिणः ‘मनसः वाणी’ कार्यक्रमम् अशृणोत्। अस्मिन् अवसरे केन्द्रीय-जनजातीय-कार्य-राज्यमन्त्री दुर्गादास-उइके, वरिष्ठ-विधायकः प्रदेशाध्यक्षः हेमन्त-खण्डेलवालः, विधायकः महेन्द्र-केशरसिंह-चौहानः, जन-अभियान-परिषदः उपाध्यक्षः डॉ.मोहन-नागरः तथा बहुसंख्यकाः ग्रामीणाः उपस्थिताः आसन्।

मुख्यमन्त्री सामाजिक-माध्यमे ‘एक्स’ इत्यत्र हर्षं व्यक्तीकृत्य अलिखत् यत् प्रधानमन्त्रिणा मोदिना ब्यावरा-नगरस्य तासां भगिनीनां प्रशंसा कृता, याः प्लास्टिक-अवशिष्टानि पुनर्चक्रणेन ईको-ब्रिक्स निर्मिमते। एषः प्रशंसनीयः उपक्रमः पर्यावरण-संरक्षणस्य महिलानाम् आत्मनिर्भरतायाश्च प्रेरणादायकम् उदाहरणम् अस्ति। तेन एतदपि उक्तं यत् प्रधानमन्त्रिणा आगामिनि गणेश-महोत्सवे मृण्मयी-गणेश-प्रतिमानां उपयोगाय देशवासिनः आहूताः, येन श्रद्धया सह पर्यावरण-संरक्षणस्य सङ्कल्पोऽपि अधिकः सुदृढः भविष्यति।

अभियानस्य स्वरूपम्

ब्यावरा-नगरस्य पर्यावरण-प्रेमि-संस्थायाः संयोजकेन अनिल-कुशवाहेन नेतृत्वे कतिपयमासेभ्यः आरभ्य गृहेभ्यः निष्पन्नानि एकवार-उपयोगी-प्लास्टिक-द्रव्याणि तथा पॉलिथीन-सामग्री सङ्गृह्य ईको-ब्रिक्स् निर्मीयन्ते। एताभिः ईको-ब्रिक्स-पिण्डैः उद्यानेषु सार्वजनिक-स्थलेषु च उपवेशन-पीठिकाः, शोभा-संरचनाः, उद्यानोपकरणानि तथा अन्याः उपयोगी-सामग्र्य: निर्मीयन्ते। एषः उपक्रमः ‘वेस्ट-टू-वैल्यू’ इति अवधारणां साकारयन् प्लास्टिक-अवशिष्टं बहूपयोगि-संसाधने परिवर्तयति।

तेन उक्तं यत् अस्य अभियानस्य महत्तमा शक्तिः जनभागीदारी अस्ति। नगरस्य गृहिण्यः स्वगृहात् निष्पन्नां पॉलिथीनं पृथक् सङ्गृह्णन्ति, वणिजः स्वप्रतिष्ठानानां प्लास्टिक-द्रव्यं संस्थायै समर्पयन्ति, युवानश्च प्रतिदिनं स्वसमयं दत्त्वा पर्यावरण-संरक्षण-अभियाने सहभागी भवन्ति। संस्थया नगरे प्लास्टिक-बैंक तथा बोतल-बैङ्क इत्येतौ स्थापितौ, यत्र नागरिकाः सुकरतया प्लास्टिक-द्रव्यं निक्षेपयितुं शक्नुवन्ति। विद्यालयेषु जागरूकता-कार्यक्रमैः नववंश: अपि पर्यावरण-संरक्षणाय प्रेर्यते।

संस्थायाः सदस्यः तरुण-सेनः अवदत् यत् अधुना ४०–५० युवानः महिलाश्च प्रतिदिनं स्वेच्छया अस्मिन् अभियाने कार्यं कुर्वन्ति। अद्यावधि द्विकुंतलाधिकं प्लास्टिक-द्रव्यं ईको-ब्रिक्स: इति रूपे परिवर्त्य नगरस्य विभिन्न-स्थलेषु उपयोगे नीतम्। स्थानीय-वणिजां नागरिकानां च सहयोगः प्रतिदिनं वर्धते, अतः एतत् अभियानं व्यापक-जनान्दोलनस्य रूपं गृह्णाति।

ब्यावरा-नगरपालिका अपि अस्मिन् अभिनवे उपक्रमे सहभागी भूत्वा भविष्ये ईको-ब्रिक्स-निर्मित-सामग्रीणां सार्वजनिक-स्थलेषु अधिकाधिक-उपयोगस्य अभिप्रायं प्रकटितवती।

Hindusthan Samachar / Divya Ranjan