गडकरी उत्तराखण्डे ४,०२६ किलोमीटर-दीर्घानां राष्ट्रिय-राजमार्ग-परियोजनानां समीक्षाम् अकरोत्
नवदेहली, २९ जूनमासः (हि.स.)। केन्द्रीय-सड़क-परिवहन-राजमार्गमन्त्री नितिन-गडकरी सोमवासरे उत्तराखण्डे राष्ट्रिय-राजमार्ग-परियोजनानां गुणवत्तायाः अनुरक्षणस्य च प्रगतेः समीक्षाम् अकरोत्। केन्द्रीय-सड़क-परिवहन-राजमार्गमन्त्रालयेन उक्तं यत् अत्र आयोजिता
नई दिल्ली में उत्तराखंड राजमार्ग परियोजनाओं की समीक्षा बैठक करते केंद्रीय मंत्री नितिन गडकरी।


नवदेहली, २९ जूनमासः (हि.स.)। केन्द्रीय-सड़क-परिवहन-राजमार्गमन्त्री नितिन-गडकरी सोमवासरे उत्तराखण्डे राष्ट्रिय-राजमार्ग-परियोजनानां गुणवत्तायाः अनुरक्षणस्य च प्रगतेः समीक्षाम् अकरोत्।

केन्द्रीय-सड़क-परिवहन-राजमार्गमन्त्रालयेन उक्तं यत् अत्र आयोजितायां समीक्षासभायां ४,०२६ किलोमीटर-दीर्घानां परियोजनानां स्थितेः विषये विस्तरेण चर्चा अभवत्। अस्यां सभायां केन्द्रीय-राज्यमन्त्री अजय: टम्टा, एनएचएआई, एनएचआईडीसीएल इत्येतयोः वरिष्ठाधिकारिणः तथा परियोजनानां ठेकेदाराः उपस्थिताः आसन्।

समीक्षासभायां गडकरी अधिकारिभ्यः ठेकेदारेभ्यश्च निर्देशान् अददात् यत् परियोजनानां कार्यान्वयनस्य गतिः शीघ्रतरां क्रियताम्, गुणवत्तानिरीक्षणं सुदृढं भवतु तथा आधुनिक-निर्माण-पद्धतीनां अवलम्बनं क्रियताम्। अनेन राजमार्ग-सम्पदां आयुः वर्धिष्यते, यात्रायाः गुणवत्ता सुधरिष्यति तथा प्रमुख-मार्गेषु निर्बाध-सम्पर्कः सुनिश्चितः भविष्यति।

तेन आगामि-मानसून-ऋतुम् दृष्ट्वा पूर्वसज्जाकरणस्य आवश्यकतायामपि विशेषः बलः दत्तः। अस्य अन्तर्गतं प्रभावी-जल-निकास-व्यवस्था, पर्वत-ढलान-सुरक्षोपायाः तथा त्वरित-प्रतिक्रिया-तन्त्रस्य विकासाय निर्देशाः प्रदत्ताः, येन यातायातस्य व्यवधानं न्यूनं भवेत् यात्रिणां सुरक्षा च सुनिश्चिता भवेत्।

Hindusthan Samachar / Divya Ranjan