Enter your Email Address to subscribe to our newsletters

नवदेहली, २९ जूनमासः (हि.स.)। भारतीयसेनया मङ्गोलियादेशस्य राजधानी उलानबातारनगरे आयोजिते बहुराष्ट्रीये शान्तिस्थापन-सैन्याभ्यासे 'खान क्वेस्ट' इत्यस्मिन् सहभागित्वा स्वस्य सामरिककौशलेन रणनीतिक-चातुर्येण च सह परिचालन-सज्जतायाः प्रभावात्मकं प्रदर्शनम् कृतम्।
उलानबातारस्थिते फाइव हिल्स प्रशिक्षण-क्षेत्रे प्रवर्तमानेऽस्मिन् अभ्यासे भारतीय-सेनायाः जाट-रेजिमेण्ट-इत्यस्य चत्वारिंशत्-सदस्यात्मिक: पक्ष: सहभागी वर्तते। अयं 'खान क्वेस्ट' अभ्यासः वर्षे २००३ तमे अमेरिकादेशस्य मङ्गोलिया-देशस्य च मध्ये द्विपक्षीयकार्यक्रमरूपेण आरब्धः आसीत्। पश्चात् वर्षतः २००६ प्रभृति सः बहुराष्ट्रीयः शान्तिस्थापनाभ्यासः अभवत्।
भारतीयसेनायाः दलम् अस्मिन् बहुपक्षीयसंयुक्तसैन्याभ्यासे सहभागितार्थं जूनमासस्य १८ दिनाङ्के प्रस्थितम् आसीत्। अयं अभ्यासः जूनमासस्य २० दिनाङ्कतः जुलाईमासस्य ३ दिनाङ्कपर्यन्तं उलानबातारस्थिते फाइव हिल्स प्रशिक्षण-क्षेत्रे प्रवर्तते। अस्मिन् अभ्यासे विश्वस्य विभिन्नदेशेभ्यः आगताः सैन्यदलानि संयुक्तराष्ट्र-सङ्घस्य अधिकारपत्रस्य सप्तमाध्यायस्य अन्तर्गतं शान्तिसमर्थन-अभियानेषु सहयोगम् अन्तरसञ्चालनीयतां च वर्धयितुं संयुक्तरूपेण कार्यं कुर्वन्ति। अस्य अभ्यासस्य प्रमुखोद्देश्यम् संयुक्तराष्ट्र-सङ्घस्य अधिकारपत्रस्य सप्तमाध्यायस्य अधीनं बहुराष्ट्रीयपरिसरे शान्तिरक्षण-शान्तिसमर्थन-अभियानेषु सैन्यतत्परतायाः अन्तस्सञ्चालनीयतायाश्च संवर्धनम् अस्ति।
अभ्यासस्य अवधौ संयुक्तयोजना, निरीक्षणं, घेराबन्दी-अन्वेषण-अभियानानि, शत्रुप्रभावितक्षेत्रेभ्यः नागरिकाणाम् सुरक्षितनिर्गमनम्, युद्धकालीन-प्राथमिकचिकित्सायाः प्रदर्शनं च क्रियते।
भारतम्, अमेरिकादेशः इत्यादीभि: सह अष्टादशदेशानां प्रायः सहस्रं सैनिकाः अस्मिन् अभ्यासे भागं गृह्णन्ति। अयं अभ्यासः प्रथमं वर्षे २००३ तमे अमेरिकादेशस्य मङ्गोलियारक्षाबलयोः मध्ये द्विपक्षीयकार्यक्रमरूपेण आरब्धः। वर्षतः २००६ प्रभृति सः बहुपक्षीयः शान्तिरक्षणाभ्यासः अभवत्, अधुना च अस्य त्रयोविंशतितमं संस्करणं प्रवर्तते।
भारतीयदलस्य सहभागिता वैश्विकशान्तेः मङ्गोलियादेशेन सह रणनैतिक-सहभागितां च प्रति भारतस्य दृढप्रतिबद्धतां प्रकाशयति। भारतीयदलस्य चत्वारिंशत् सैनिकेषु जाट-रेजिमेण्ट-इत्यस्य एकस्य बटालियन-इत्यस्य सैनिकाः, अन्येषां सशस्त्रबलानां सेवाशाखानां च सैनिकाः समाविष्टाः सन्ति।
'खान क्वेस्ट' अभ्यासस्य उद्देश्यं सहभागिनां रक्षाबलानां दलान् बहुपक्षीय-परिसरे शान्तिरक्षण-अभियानेषु कार्य-क्षमत्वेन सज्जीकर्तुम् अस्ति। अस्मिन् अभ्यासे संयुक्तयोजनायाः सामरिक-अभ्यासानां च विशेषं बलं दीयते। तेषु स्थिर-चल-निरीक्षणचौकीनां स्थापना, घेराबन्दी-अन्वेषण-अभियानानि, निरीक्षणं, शत्रुप्रभावितक्षेत्रेभ्यः नागरिक-निर्गमनम्, तात्कालिक-विस्फोटक-यन्त्राणां प्रतिकाराभ्यासः, प्राथमिक-चिकित्सा, आहतानाम् उद्धारश्च अन्तर्भवन्ति।
अनेन अभ्यासेन सहभागिनः देशाः संयुक्त-अभियानानां सञ्चालनार्थं स्वस्व-श्रेष्ठ-रणनीतयः, तकनीकाः, कार्यप्रक्रियाश्च परस्परं विनिमेष्यन्ति। अयं अभ्यासः सहभागिराष्ट्राणां सैनिकानां मध्ये परिचालन-सज्जतां, सौहार्दं भ्रातृत्वभावं च वर्धयिष्यति।
Hindusthan Samachar / Divya Ranjan