देशस्य औद्योगिकोत्पादनं मईमासे 5.1 प्रतिशतं वर्धितं, विनिर्माणस्य विद्युत्क्षेत्राणां च उत्तमप्रदर्शन
नवदिल्ली, 29 जूनमासः (हि.स)। देशस्य औद्योगिकोत्पादनं विनिर्माणक्षेत्रस्य विद्युत्प्रदायक्षेत्रस्य च उत्तमप्रदर्शनस्य कारणेन मईमासे वर्धमानं पञ्चदशमलवएकप्रतिशतपरिमाणं प्राप्तम्। अस्मात् पूर्वं अप्रैलमासे चतुर्दशमलव नवप्रतिशतवृद्धिः अभिलेखिता आसीत्
औद्योगिक उत्पादन सूचकांक के लोगो का प्रतीकात्मक चित्र


नवदिल्ली, 29 जूनमासः (हि.स)।

देशस्य औद्योगिकोत्पादनं विनिर्माणक्षेत्रस्य विद्युत्प्रदायक्षेत्रस्य च उत्तमप्रदर्शनस्य कारणेन मईमासे वर्धमानं पञ्चदशमलवएकप्रतिशतपरिमाणं प्राप्तम्। अस्मात् पूर्वं अप्रैलमासे चतुर्दशमलव नवप्रतिशतवृद्धिः अभिलेखिता आसीत्।

साङ्ख्यिकी तथा कार्यक्रमकार्यान्वयनमन्त्रालयेन सोमवासरे प्रकाशितेषु आकडेषु उक्तं यत् एतत् नूतनशृङ्खलायाः आधारेण औद्योगिकोत्पादनसूचकाङ्कस्य द्वितीयं मासिकमापनम् अस्ति। आकडानुसारं विनिर्माणक्षेत्रे पञ्चदशमलव पञ्चप्रतिशतवृद्धिः तथा विद्युत्गैसप्रदायक्षेत्रे नवदशमलव नवप्रतिशतबलवती वृद्धिः अभवत्, येन औद्योगिकोत्पादनस्य उल्लेखनीयः विकासः अभवत्।

परन्तु खननक्षेत्रे षोडशमलव एकप्रतिशतपरिमिता न्यूनता अभिलेखिता। खननक्षेत्रस्य अवनतेः अपि कारखानगतिविधिषु निरन्तरः विस्तारः दृष्टः। एतयोः प्रमुखक्षेत्रयोः उत्तमप्रदर्शनेन समग्रस्य औद्योगिकोत्पादनस्य वृद्धिः अभवत्। एते आकडाः देशस्य आर्थिकगतिविधिषु सुधारस्य संकेतं ददति।

मन्त्रालयेन २०२६ तमस्य वर्षस्य जूनमासस्य प्रथमदिने थोकमूल्यसूचकाङ्कस्य अपस्फीतिकारकरूपेण उपयोगं कृत्वा २०२२ २०२३ इति आधारवर्षेण सह औद्योगिकोत्पादनसूचकाङ्कस्य द्वितीया नूतनशृङ्खला प्रकाशिताऽस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani