Enter your Email Address to subscribe to our newsletters


धनबादनगरम्, २८ जूनमासः (हि.स.)। भारतसर्वकारस्य शिक्षा-मन्त्रालयस्य अधीनं सञ्चाल्यमानं बिहार-झारखण्ड-पुस्तक-परिक्रमा-अभियानस्य चलत्-पुस्तकालय-बसयानं रविवासरे धनबादनगरम् आगतम्। पठनसंस्कृतेः संवर्धनाय तथा बालकान् यूनश्च पुस्तकैः सह सम्बद्धान् कर्तुम् आरब्धम् इदम् अभियानं ३० जूनमासपर्यन्तम् धनबाद-जनपदस्य विभिन्नेषु शैक्षिक-सार्वजनिक-स्थलेषु भ्रमणं करिष्यति। ततः परं एतत् बसयानं बोकारो-नगरं प्रति प्रस्थास्यति।
पुस्तक-परिक्रमा-बसमध्ये हिन्दी-मैथिली- तथा आङ्ग्ल-भाषासु लिखितानि शतं पुस्तकानि उपलब्धानि सन्ति। तेषु साहित्यं, बालसाहित्यं, विज्ञानम्, इतिहासः, संस्कृतिः, व्यक्तित्व-विकासः, प्रेरणादायक-साहित्यं तथा प्रतियोगिता-परीक्षासम्बद्धानि महत्त्वपूर्णानि पुस्तकानि समाविष्टानि सन्ति।
पुस्तकप्रेमिभिः विद्यार्थिभिश्च अस्य प्रयत्नस्य स्वागतं कृतम्। तेषां मतम् अस्ति यत् पुस्तकानि केवलं ज्ञानस्य माध्यमं न, अपितु विचाराणां व्यक्तित्वनिर्माणस्य च सुदृढम् आधारम् अपि सन्ति। अङ्कीय-युगे, यदा चलदूरवाणी-अन्तर्जालयोः कारणेन पठनस्य अभिरुचिः शनैः शनैः न्यूना भवति, तदा एतत् अभियानं जनान् पुनः पुस्तकानि प्रति आकर्षयितुं प्रयतते।
अस्मिन् चलत्-पुस्तकालये पाठकाः स्वाभिमतानां पुस्तकानां निःशुल्कम् अध्ययनं कर्तुं शक्नुवन्ति। पुस्तक-क्रयस्य सुविधापि उपलब्धा अस्ति। सामान्य-पाठकेभ्यः पुस्तक-क्रये दश-प्रतिशतपर्यन्तं मूल्य-शिथिलता प्रदीयते, विद्यार्थिभ्यः शिक्षकभ्यश्च पञ्चविंशति-प्रतिशतपर्यन्तं विशेष-लाभः प्रदास्यते।
अस्य अभियानस्य उद्देश्यं समाजे पठन-पाठन-संस्कृतेः सुदृढीकरणं तथा नवीन-वंशं पुस्तकानां जगता सह सम्बद्धां कर्तुम् अस्ति। सोमवासरे एषा पुस्तक-परिक्रमा-बसः एस.एस.एल.एन.टी. महिला-महाविद्यालयस्य समीपम् आगमिष्यति, यत्र छात्राः, छात्र्यः तथा पुस्तकप्रेमिणः अस्याः सुविधायाः लाभं प्राप्स्यन्ति।
Hindusthan Samachar / Divya Ranjan