Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 29 जूनमासः (हि.स.)। काङ्ग्रेसदलस्य राष्ट्रियाध्यक्षः मल्लिकार्जुन खरगे कर्णाटकराज्यात् पुनः राज्यसभासदस्यत्वेन निर्वाचितः अभवत्। तदनन्तरं राज्यसभायां पुनरपि प्रतिपक्षनेता इति रूपेण तस्मै मान्यता प्रदत्ता। राज्यसभासचिवालयेन सोमवासरे प्रकाशितसंसदीयवार्तापत्रानुसारं राज्यसभासभापतिः उपराष्ट्रपतिः च सी पी राधाकृष्णनः तस्मै षड्विंशतितमात् जून मासात् द्विसहस्रषड्विंशतितमवर्षात् प्रभृति सदने प्रतिपक्षनेता इति मान्यतां प्रदत्तवान्।
संसदीयवार्तापत्रानुसारं खरगेस्य पूर्वं राज्यसभाकार्यकालः पञ्चविंशतितमे जून मासे समाप्तः आसीत्। तेन सह प्रतिपक्षनेता इति तस्य मान्यता अपि समाप्ता अभवत्। कर्णाटकराज्यात् पुनः राज्यसभासदस्यत्वेन निर्वाचितत्वात् नूतनकार्यकालाय पुनरपि अस्य पदस्य मान्यता तस्मै प्रदत्ता।
अस्मात् पूर्वं सोमवासरे संसद्भवनस्थिते सभापतिकक्षे उपराष्ट्रपतिः राज्यसभासभापतिः च सी पी राधाकृष्णनः मल्लिकार्जुन खरगे राज्यसभासदस्यत्वेन शपथं ग्राहयामास। अस्मिन् अवसरे सदननेता केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्री जे पी नड्डा संसदीयकार्यमन्त्री किरेन रिजिजू राज्यसभायाः उपसभापतिः हरिवंशः काङ्ग्रेससंसदीयदलस्य अध्यक्षा सोनिया गान्धी सांसदः प्रियङ्का गान्धी वाड्रा इत्यादयः विभिन्नदलानां वरिष्ठनेतारः उपस्थिताः आसन्।
त्र्यशीतिवर्षीयः मल्लिकार्जुन खरगे द्विसहस्रविंशतितमे वर्षे प्रथमवारं राज्यसभासदस्यः अभवत्। अधुना सः निरन्तरं द्वितीयवारं कर्णाटकराज्यात् उच्चसदनस्य सदस्यत्वेन निर्वाचितः अस्ति।
खरगेस्य राजनैतिकजीवनम् पञ्चदशकाधिककालपर्यन्तं विस्तृतम् अस्ति। सः एकोनविंशतिशताधिकद्विसप्ततितमे वर्षे प्रथमवारं कर्णाटकविधानसभानिर्वाचनं जित्वा सक्रियराजनीतौ प्रविष्टः। ततः परं सः निरन्तरं नववारं विधायकत्वेन निर्वाचितः। दीर्घराजनैतिकजीवने सः कर्णाटकसर्वकारे अनेकमहत्त्वपूर्णमन्त्रिपदानि धारितवान् तथा विधानसभायां प्रतिपक्षनेता इति उत्तरदायित्वम् अपि निर्वहितवान्।
द्विसहस्रनवमे द्विसहस्रचतुर्दशे च वर्षे सः गुलबर्गा लोकसभाक्षेत्रात् सांसदत्वेन निर्वाचितः। केन्द्रस्य संयुक्तप्रगतिशीलगठबन्धनसर्वकारे सः रेलमन्त्री श्रमरोजगारमन्त्री च आसीत्। द्विसहस्रचतुर्दशवर्षात् द्विसहस्रएकोनविंशतिवर्षपर्यन्तं सः लोकसभायां काङ्ग्रेसदलस्य नेता आसीत्। द्विसहस्रद्वाविंशतितमे वर्षे अक्टोबरमासे सः काङ्ग्रेसदलस्य राष्ट्रियाध्यक्षत्वेन निर्वाचितः।
अद्यतनकाले दशराज्येषु सप्तविंशतिः राज्यसभास्थानानां निर्वाचनानन्तरं उच्चसदनस्य राजनैतिकसमीकरणेषु अपि परिवर्तनम् अभवत्। भारतीयजनतापक्षस्य नेतृत्वयुक्तस्य राष्ट्रियजनतान्त्रिकगठबन्धनस्य सदस्यसंख्या प्रायः द्विपञ्चाशदधिकशतम् अभवत्। विपक्षीयानाम् इण्डिया गठबन्धनस्य समीपे प्रायः चतुःषष्टिः सदस्याः सन्ति।
राज्यसभायां द्वितीयांशाधिकबहुमतप्राप्तये त्रिषष्ट्यधिकशतसदस्यानां समर्थनम् अपेक्षितम् अस्ति। उच्चसदने बीजूजनतादलस्य पञ्च सदस्याः वाईएसआर काङ्ग्रेसपक्षस्य सप्त सदस्याः च सन्ति। उभौ दलौ कस्यापि राष्ट्रियगठबन्धनस्य औपचारिकभागौ न स्तः तथापि विविधविधेयकेषु अन्येषु महत्त्वपूर्णावसरेषु च तौ केन्द्रसर्वकारस्य समर्थनम् अकुरुताम्।------------
Hindusthan Samachar / Dheeraj Maithani