Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 29 जूनमासः (हि.स.)।काङ्ग्रेसपक्षस्य अध्यक्षः राज्यसभायां प्रतिपक्षनेता च मल्लिकार्जुनखरगेः सोमवासरे राज्यसभासदस्यरूपेण शपथग्रहणम् अकरोत्। अद्यैव कर्णाटकात् उच्चसदनाय पुनर्निर्वाचितः खरगेः संसद्भवनस्थे सभापतिकक्षे उपराष्ट्रपतिना राज्यसभायाः सभापतिना च सी पी राधाकृष्णनेन शपथम् अकारितः।
शपथग्रहणसमारोहे राज्यसभायाः उपसभापतिः हरिवंशः सदनस्य नेता केन्द्रीयस्वास्थ्यमन्त्री जे पी नड्डा संसदीयकार्यमन्त्री किरेनरिजिजू काङ्ग्रेससंसदीयदलस्य अध्यक्षा सोनियागान्धी काङ्ग्रेसमहामन्त्री प्रियङ्कागान्धीवाड्रा पक्षस्य संगठनमहामन्त्री के सी वेणुगोपालः तथा विभिन्नदलानां बहवः वरिष्ठनेतारः उपस्थिताः आसन्।
उल्लेखनीयम् अस्ति यत् त्र्यशीतिवर्षीयः खरगेः निरन्तरं द्वितीयवारं कर्णाटकात् राज्यसभायै निर्वाचितः। सः सम्प्रति राज्यसभायां प्रतिपक्षनेतुः दायित्वं निर्वहति। सार्वजनिकजीवने पञ्चदशकाधिकस्य अनुभवस्य धारकः खरगेः स्वराजनीतिकजीवनम् कर्णाटकराज्यस्य राजनीत्याम् आरब्धवान्। सः वर्षे १९७२ प्रथमवारं कर्णाटकविधानसभायाः निर्वाचनम् अजयत्। ततः परं सः निरन्तरं नववारं विधायकरूपेण निर्वाचितः अभवत् तथा राज्यसर्वकारे अनेकानां महत्त्वपूर्णविभागानां दायित्वम् अवहत्। वर्षे १९९९ तः २००४ पर्यन्तं सः कर्णाटकविधानसभायां प्रतिपक्षनेतुः उत्तरदायित्वम् अपि निर्वहितवान्।
राष्ट्रियराजनीत्यां खरगेः वर्षयोः २००९ तथा २०१४ कर्णाटकस्य गुलबर्गालोकसभाक्षेत्रस्य प्रतिनिधित्वम् अकरोत्। संयुक्तप्रगतिशीलगठबन्धनसर्वकारस्य द्वितीयकार्यकाले सः रेलमन्त्री श्रमरोजगारमन्त्री च अभवत्। वर्षे २०१४ तः २०१९ पर्यन्तं सः लोकसभायां काङ्ग्रेसदलस्य नेता आसीत्। वर्षे २०२० प्रथमवारं राज्यसभाम् अगच्छत्। वर्षे २०२२ तमस्य वर्षस्य अक्टोबरमासे सः काङ्ग्रेसपक्षस्य अध्यक्षरूपेण निर्वाचितः। सः काङ्ग्रेसपक्षस्य अष्टनवतितमः अध्यक्षः अस्ति। सम्प्रति सः पक्षस्य सर्वोच्चसंगठनात्मकनेतृत्वेन सह संसदः उच्चसदने प्रतिपक्षस्य स्वररूपेण अपि सक्रियभूमिकां निर्वहति।
---------------
Hindusthan Samachar / Dheeraj Maithani