श्रीकृष्ण-जन्मभूमौ भगवत: जगन्नाथस्य स्नानयात्रा सम्पन्ना
मथुरानगरम्, २९ जूनमासः (हि.स.)। श्रीकृष्ण-जन्मभूमौ सोमवासरे सायंकाले भगवत: श्रीजगन्नाथस्य स्नानयात्रायाः पारम्परिक-आयोजनं विधिविधानपूर्वकं सम्पन्नम्। श्रीकृष्ण-जन्मस्थान-सेवा-संस्थानेन प्रदत्त-सूचनानुसारं ज्येष्ठ-शुक्ल-पूर्णिमायां सोमवासरे सायं षड्
भगवान जगन्नाथ की स्नानयात्रा का दृश्य


मथुरानगरम्, २९ जूनमासः (हि.स.)। श्रीकृष्ण-जन्मभूमौ सोमवासरे सायंकाले भगवत: श्रीजगन्नाथस्य स्नानयात्रायाः पारम्परिक-आयोजनं विधिविधानपूर्वकं सम्पन्नम्। श्रीकृष्ण-जन्मस्थान-सेवा-संस्थानेन प्रदत्त-सूचनानुसारं ज्येष्ठ-शुक्ल-पूर्णिमायां सोमवासरे सायं षड्वादनात् आरभ्य धार्मिक-अनुष्ठानानां मध्ये श्रीभागवत-भवने स्थितस्य भगवानः श्रीजगन्नाथस्य शास्त्रोक्त-विधिना वैदिक-मन्त्रोच्चारणस्य झाञ्झ-मञ्जीरयोः ध्वनेश्च मध्ये गोदुग्धेन, शर्करया, गोघृतेन, मधुना, दध्ना च पञ्चामृताभिषेकः कृतः तथा स्नानयात्रा-पूजा-सेवा सम्पन्ना।

धार्मिक-मान्यतानुसारं स्नानयात्रायाः अनन्तरं भगवान् जगन्नाथः अस्वस्थः भवति। अतः अधुना भगवत: स्वास्थ्यलाभः भविष्यति। तस्मात् अग्रिम-पञ्चदश-दिनपर्यन्तं भक्तानां कृते भगवत: श्रीजगन्नाथस्य दर्शनं न भविष्यति।

आषाढ-शुक्ल-द्वितीयायां, अर्थात् १६ जुलाई २०२६ दिनाङ्के, भगवान् श्रीजगन्नाथः स्वस्य ज्येष्ठ-भ्रात्रा बलभद्रेण भगिन्या सुभद्रया च सह रथे विराजमानः नगर-भ्रमणं करिष्यति।

भगवतः श्रीजगन्नाथस्य स्नानयात्रा-सेवा-पूजायां श्रीकृष्ण-जन्मस्थान-सेवा-संस्थानस्य प्रबन्ध-समितेः सदस्यः गोपेश्वरनाथ-चतुर्वेदी, डा.रोशनलालः, मन्दिरस्य पूजकस्य तथा अन्येऽपि विशेषरूपेण सहभागी अभवन्।

उल्लेखनीयम् अस्ति यत् देशे विदेशेषु च भगवानः श्रीजगन्नाथस्य मन्दिरेषु ज्येष्ठ-शुक्ल-पूर्णिमातः भगवत: श्रीजगन्नाथस्य रथयात्रा-महोत्सवस्य शुभारम्भः भवति।

Hindusthan Samachar / Divya Ranjan