मध्यप्रदेशस्य रत्नगर्भे पन्नानगरे पुनरपि श्रमिकस्य भाग्यं प्रस्फुटितम्, बहुमूल्यं हीरकं प्राप्तम्
पन्नानगरम्, २९ जूनमासः (हि.स.)। मध्यप्रदेशस्य रत्नगर्भा पन्नानगरी पुनरपि हीरकं प्रसूतवती, येन एकस्य श्रमिकस्य भाग्यं प्रस्फुटितम्। अत्र राजू आदिवासी नामकस्य श्रमिकस्य खनने कार्यं कुर्वतः ११.१९ कैरेट् परिमाणम् उज्ज्वल-प्रकारस्य बहुमूल्यं हीरकं प्राप
हीरे के साथ राजू आदिवासी


राजू आदिवासी को खदान से मिला हीरा


पन्नानगरम्, २९ जूनमासः (हि.स.)। मध्यप्रदेशस्य रत्नगर्भा पन्नानगरी पुनरपि हीरकं प्रसूतवती, येन एकस्य श्रमिकस्य भाग्यं प्रस्फुटितम्। अत्र राजू आदिवासी नामकस्य श्रमिकस्य खनने कार्यं कुर्वतः ११.१९ कैरेट् परिमाणम् उज्ज्वल-प्रकारस्य बहुमूल्यं हीरकं प्राप्तम्। अस्य हीरकस्य अनुमानिता मूल्यराशिः ३० लक्षरूप्यकाणाम् अधिका इति कथ्यते।

राजू आदिवासी अहिरगवा-क्षेत्रे स्थितायाः हीरक-खनिजस्य पट्टम् अलभत। सोमवासरे खननकार्यस्य समये मृत्तिकायाः मध्ये अयं दीप्तिमन्तं हीरकं तेन प्राप्तम्। हीरकप्राप्तेः अनन्तरं तेन नियमानुसारं सः पन्ना-हीरक-कार्यालये समर्पितम्। कार्यालयस्य अधिकारिभिः परीक्षणानन्तरं एतत् ११.१९ कैरेट् परिमाणं उज्ज्वल-प्रकारस्य हीरकः इति निश्चितम्। अस्य बहुमूल्यहीरकस्य अनुमानिता मूल्यराशिः प्रायः ३० लक्षरूप्यकाणि इति निर्दिष्टा।

जिलासमाहर्तृ-कार्यालयस्थितस्य हीरक-कार्यालयस्य हीरक-पारखी अनुपमसिंहः अस्य शुद्धतां परीक्षितवान् तथा नियमानुसारं तम् स्वीकृतवान्। तेन उक्तं यत् अस्य हीरकस्य वास्तविकं मूल्यं ३० लक्षरूप्यकाणाम् अधिकमपि भवितुमर्हति। तथापि अस्य वास्तविकं मूल्यं आगामिन्यां नीलाम्यां निर्धार्यते। नीलाम्या प्राप्तायाः धनराशेः शासननिर्धारितनियमानुसारं राजांशस्य करस्य च कटनोत्तरं अवशिष्टा राशिरेव हीरकप्राप्ताय व्यक्तये प्रदास्यते।

मध्यप्रदेशस्य अस्यां रत्नगर्भे पन्नानगरे कस्य भाग्यं कदा प्रस्फुटिष्यति इति वक्तुं न शक्यते। पन्नानगरे भूमेः प्राप्तैः हीरकैः बहवः जनाः रात्र्येकस्मिन्नेव लक्षाधिपतयः अभवन्। एषा प्रथमवारं नास्ति यदा राजू आदिवासी-परिवारेण हीरकं प्राप्तम्। अस्मात् पूर्वं वर्षे २०२४ तमे तस्य भ्राता राकेश: आदिवासी पट्टी-खनिजे १९.२२ कैरेट् परिमाणस्य उच्चगुणवत्तायुक्तं महद् हीरकं प्राप्तवान्। सः हीरकं विक्रये प्रायः ९३ लक्षरूप्यकैः विक्रीतम् आसीत्, येन तस्य परिवारस्य आर्थिकस्थितौ महत्त्वपूर्णः सुधारः अभवत्।

एतादृशीं विशालां धनराशिं प्राप्यापि परिवारेण परिश्रमः न परित्यक्तः। राकेश आदिवासी अवदत् यत् अस्य नूतनहीरकस्य विक्रये प्राप्तां धनराशिं ते नूतनां हीरक-खनिं स्थापयितुं पुनश्च स्वभाग्यपरीक्षणाय च विनियोक्ष्यन्ति।

Hindusthan Samachar / Divya Ranjan