Enter your Email Address to subscribe to our newsletters

सुकमानगरम्, २८ जूनमासः (हि.स.)। राष्ट्रिय-पल्स-पोलियो-अभियानस्य २०२६ वर्षस्य शुभारम्भः जनपदाधिकारिणा अमित-कुमारेण तथा आरक्षक-अधीक्षकेण किरण-चव्हाणेन मराईगुड़ायां बालकेभ्यः पोलियो-औषधस्य खुराकं पाययित्वा कृतः। तथैव सुकमा-बसस्थानके नगरपालिकाध्यक्षः हूङ्गाराम-मरकामः बालकेभ्यः पल्स-पोलियो-अभियानस्य द्वे बिन्दू पाययित्वा कार्यक्रमस्य शुभारम्भम् अकरोत्।
अस्मिन् कार्यक्रमे पार्षदौ रञ्जीत-बारठः, रमेश-कर्मा, अनिलः, मुख्य-चिकित्सा-स्वास्थ्याधिकारी डा.आर.के. सिंहः, डा.प्रदीप-पटेलः, स्वास्थ्य-विभागस्य चिकित्सकाः, परिचारिकाः, अन्ये कर्मचारीणश्च बहुसंख्यया उपस्थिताः आसन्।
जिला-टीकाकरण-अधिकारी डा.दीपेश-चन्द्राकरः अभियानस्य विस्तृतां सूचनां दत्त्वा अवदत् यत् जनपदे शून्यतः पञ्चवर्षीय-आयुवर्गस्य प्रायः ३९ सहस्र बालकेभ्यः पोलियो-औषधं पाययितुं लक्ष्यं निर्धारितम् अस्ति। एतत् अभियानं २८, २९ तथा ३० जूनमासपर्यन्तं त्रिदिनात्मकः भविष्यति। प्रथमदिने सर्वेषु बूथेषु बालकेभ्यः पोलियो-औषधं पाययते, द्वितीय-तृतीयदिने च स्वास्थ्य-विभागस्य दलानि गृहं गृहम् गत्वा ये बालकाः पूर्वं वञ्चिताः अभवन्, तेभ्यः औषधं पाययित्वा शत-प्रतिशत-लक्ष्यस्य पूर्तिं करिष्यन्ति। एतदर्थं जनपदे समग्रतः ३८९ बूथाः स्थापिताः सन्ति तथा प्रायः १११७ कर्मचारीणां नियुक्तिः कृता अस्ति।
Hindusthan Samachar / Divya Ranjan