उत्तर-पश्चिम-रेलमार्गस्य नूतन-नियन्त्रण-कार्यालयस्य उद्घाटनम्
जयपुरम्, २९ जूनमासः (हि.स.)। उत्तर-पश्चिम-रेलमार्गेण रेलसञ्चालनस्य परिचालन-क्षमतां कार्यदक्षतां च अधिकं सुदृढीकर्तुं सोमवासरे प्रधान-कार्यालये नवीकृत-नियन्त्रण-कार्यालयस्य उद्घाटनं कृतम्। उत्तर-पश्चिम-रेलमार्गस्य मुख्य-जनसम्पर्क-अधिकारी अमित-सुदर्
रेलवे


जयपुरम्, २९ जूनमासः (हि.स.)। उत्तर-पश्चिम-रेलमार्गेण रेलसञ्चालनस्य परिचालन-क्षमतां कार्यदक्षतां च अधिकं सुदृढीकर्तुं सोमवासरे प्रधान-कार्यालये नवीकृत-नियन्त्रण-कार्यालयस्य उद्घाटनं कृतम्।

उत्तर-पश्चिम-रेलमार्गस्य मुख्य-जनसम्पर्क-अधिकारी अमित-सुदर्शनः अवदत् यत् रेल-प्रशासनेन आधारभूत-संरचनायाः तथा परिचालन-दक्षतायाः आधुनिकीकरणस्य अन्तर्गतं एतत् नियन्त्रण-कार्यालयम् उन्नत-प्रौद्योगिकी-सुविधाभिः सुसज्जीकृतम्। आधुनिक-सञ्चार-प्रणालीभिः, उन्नत-निरीक्षण-पटलैः तथा उत्तम-कार्य-परिवेशेन युक्तम् एतत् नियन्त्रण-कार्यालयं रेलयानानां वास्तविक-समये निरीक्षणं सञ्चालनं च अधिक-प्रभावकरूपेण करिष्यति। तेन उक्तं यत् अस्याः नवीन-व्यवस्थायाः माध्यमेन आपत्कालीन-परिस्थितिषु प्राप्त-विवरणानाम् आधारेण शीघ्र-निर्णय-ग्रहण-क्षमतायामपि सुधारः भविष्यति, येन रेल-सञ्चालनस्य विश्वसनीयता कार्यदक्षता च वर्धिष्येते।

अस्मिन् अवसरे उत्तर-पश्चिम-रेलमार्गस्य महाप्रबन्धकः अमिताभः नवनिर्मित-नियन्त्रण-कार्यालयस्य निरीक्षणम् अकरोत् तथा तत्र उपलब्धानां सुविधानाम् अवलोकनम् अपि कृतवान्। उद्घाटन-समारोहे उत्तर-पश्चिम-रेलमार्गस्य अपर-महाप्रबन्धकः अशोक-माहेश्वरी, जयपुर-मण्डलस्य मण्डल-रेल-प्रबन्धकः रवि-जैनः, वरिष्ठ-उप-महाप्रबन्धकः शिवेन्द्र-मोहनः, प्रमुख-मुख्य-परिचालन-प्रबन्धकः मदन-राम-देवडा, प्रमुख-मुख्य-वाणिज्य-प्रबन्धिका सीमा-शर्मा तथा विविध-विभागानां प्रमुख-अधिकारिणः कर्मचारीणश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan