देवरियायां व्यापारी कल्याण दिवसे उत्कृष्ट करदातॄणां जातस्सम्मानः
देवरिया, 29 जूनमासः (हि.स.)। राज्यकरविभागेन देवरियाजनपदेन सोमवासरे दानवीरभामाशाहस्य जयन्त्याः अवसरे विकासभवने स्थिते गान्धीसभागारे व्यापारीकल्याणदिवसस्य आयोजनं कृतम्। कार्यक्रमे उत्कृष्टकरदातारः सम्मानिताः तथा मुख्यमन्त्री व्यापारी दुर्घटनाबीमायोज
फोटो


फोटो


देवरिया, 29 जूनमासः (हि.स.)। राज्यकरविभागेन देवरियाजनपदेन सोमवासरे दानवीरभामाशाहस्य जयन्त्याः अवसरे विकासभवने स्थिते गान्धीसभागारे व्यापारीकल्याणदिवसस्य आयोजनं कृतम्। कार्यक्रमे उत्कृष्टकरदातारः सम्मानिताः तथा मुख्यमन्त्री व्यापारी दुर्घटनाबीमायोजनायाः अन्तर्गतं आर्थिकसहायतापि प्रदत्ता।

कार्यक्रमस्य मुख्यातिथिः सदरविधायकः शलभमणि त्रिपाठी दीपं प्रज्वाल्य दानवीरभामाशाहस्य चित्रे पुष्पाञ्जलिं समर्प्य कार्यक्रमस्य शुभारम्भम् अकरोत्। सः अवदत् यत् व्यापारीवर्गः देशस्य प्रदेशस्य च अर्थव्यवस्थायाः मेरुदण्डः अस्ति। व्यापारिभिःनिष्ठया समर्पितेन करेण सर्वकारः जनकल्याणकारीयोजनानां सञ्चालनं करोति आधारभूतसुविधानां विकासं च विधत्ते। सः दानवीरभामाशाहस्य त्यागं राष्ट्रभक्तिं समाजसेवां च वर्तमानसंततये प्रेरणास्रोतः इति अवदत्।

अस्मिन् अवसरे वित्तीयवर्षे २०२५ २०२६ मध्ये सर्वाधिकं राज्यकरं नेट एसजीएसटी समर्पितवन्तः जनपदस्य दश उत्कृष्टकरदातारः स्मृतिचिह्नेन प्रशस्तिपत्रेण च सम्मानिताः। सम्मानितेषु व्यापारिषु गणेश ऑटो सेल्स पूर्वाञ्चल मोटर्स प्राइवेट लिमिटेड विराज कन्स्ट्रक्शन प्रिन्स कन्स्ट्रक्शन देवराही सॉल्वेन्ट एक्सट्रैक्शन प्राइवेट लिमिटेड काशीनाथ बर्नवाल एण्ड सन्स अन्वी एण्टरप्राइजेज दुल्हन साडी कलेक्शन ओमप्रकाश उपाध्याय ठेकेदारः तथा माँ वैष्णो ट्रेडर्स समाविष्टाः।

कार्यक्रमस्य समये मुख्यमन्त्री व्यापारी दुर्घटनाबीमायोजनायाः अन्तर्गतं मार्गदुर्घटनायां दिवंगतस्य राजू यादवस्य महालक्ष्मी कन्स्ट्रक्शन इति संस्थायाः स्वामिनः पत्नी सन्ध्या यादवायै विधायकः शलभमणि त्रिपाठी दशलक्षरूप्यकाणां आर्थिकसहायतायाः धनादेशं प्रदत्तवान्। सः अवदत् यत् एषा योजना संकटसमये व्यापारीपरिवाराणां आर्थिकसुरक्षां प्रदातुं महत्त्वपूर्णं माध्यमम् अस्ति।

कार्यक्रमे राज्यकरविभागस्य उपायुक्तः विवेककुमार मिश्रः राजेशप्रतापसिंहः अमितकुमारसिंहः सहिताः विभागस्य अधिकारिणः व्यापारीप्रतिनिधयः व्यापारिकसङ्घटनानां पदाधिकारीणः बहुसंख्यकाः उद्यमिनः च उपस्थिताः आसन्। कार्यक्रमस्य सञ्चालनं पङ्कजशुक्लेन कृतम्।

Hindusthan Samachar / Dheeraj Maithani