प्रधानमन्त्री मोदी विक्टोरियानगरे श्रीगणेशमन्दिरस्य दर्शनम् अकरोत्
नवदेहली, २९ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे सेशेल्सदेशस्य राजधानी विक्टोरियानगरे स्थितस्य एकमात्रस्य ''अरुलमिगु नवशक्ति-विनायक-मन्दिरस्य'' गत्वा भगवत: श्रीगणेशस्य दर्शनं पूजनं च अकरोत्। प्रधानमन्त्री मोदी ''एक्स'' माध्यम
प्रधानमंत्री मोदी ने विक्टोरिया में विनायक मंदिर के दर्शन किए।


नवदेहली, २९ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे सेशेल्सदेशस्य राजधानी विक्टोरियानगरे स्थितस्य एकमात्रस्य 'अरुलमिगु नवशक्ति-विनायक-मन्दिरस्य' गत्वा भगवत: श्रीगणेशस्य दर्शनं पूजनं च अकरोत्।

प्रधानमन्त्री मोदी 'एक्स' माध्यमे अलिखत्— “मया विक्टोरियास्थिते प्रमुखे हिन्दू-मन्दिरे 'अरुलमिगु नवशक्ति-विनायक-मन्दिरे' प्रार्थना कृता। भगवान् श्रीगणेशः सर्वेभ्यः बुद्धिं शक्तिं समृद्धिं च प्रददातु।”

उल्लेखनीयम् अस्ति यत् विनायक-मन्दिरम् सेशेल्सदेशे स्थितं प्रथमम् एकमेव च हिन्दू-मन्दिरम् अस्ति। एतत् मन्दिरं वर्षे १९९२ स्थापितम्। एतत् केवलं प्रार्थनास्थलं नास्ति, अपितु श्रद्धायाः गाम्भीर्यस्य सहस्रवर्षप्राचीन-भारतीयसंस्कृतेः सौन्दर्यस्य च परिचायकम् अस्ति। श्रद्धालुभ्यः जिज्ञासुभ्यश्च एतन्मन्दिरं हिन्दू-उपासनायाः सारं तथा शान्तेः ज्ञानस्य च सार्वभौमिकान्वेषणस्य अद्वितीयं दृश्यं प्रदर्शयति।

अस्य मन्दिरस्य अन्तः मुरुगनस्य, नटराजस्य, दुर्गादेव्याः तथा अन्येषां देवतानामपि सुन्दराः विग्रहाः सन्ति। तेषां प्रत्येकस्य स्वकीयः महिमा तथा विशिष्टं आध्यात्मिकं महत्त्वं च अस्ति।

Hindusthan Samachar / Divya Ranjan