प्रधानमन्त्री मोदी सेशेल्स-देशस्य ‘गार्डियन् ऑफ द ब्लू होराइज़न्’ इति सर्वोच्च-सम्मानेन सम्मानितः
नवदेहली, २८ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी रविवासरे आयोजिते विशेष-समारोहे सेशेल्स-देशस्य राष्ट्रपतिना डॉ. पैट्रिक-हर्मिनी इत्यनेन प्रतिष्ठितेन ‘गार्डियन ऑफ द ब्लू होराइज़न’ इति सर्वोच्च-सम्मानेन सम्मानितः। एतत् सम्मानं हरित-नेतृत्वस्य
प्रधानमंत्री को पर्यावरण कार्यों के लिए मिले सम्मानों को दर्शाता चार्ट


प्रधानमंत्री को सम्मान में प्राप्त पत्र


प्रधानमंत्री को सम्मानित करते सेशेल्स के राष्ट्रपति


नवदेहली, २८ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी रविवासरे आयोजिते विशेष-समारोहे सेशेल्स-देशस्य राष्ट्रपतिना डॉ. पैट्रिक-हर्मिनी इत्यनेन प्रतिष्ठितेन ‘गार्डियन ऑफ द ब्लू होराइज़न’ इति सर्वोच्च-सम्मानेन सम्मानितः।

एतत् सम्मानं हरित-नेतृत्वस्य, विकास-शीलदेशानां हितसंवर्धनाय तस्य निरन्तर-प्रयत्नानाम्, ‘ब्लू-इकोनॉमी’, जलवायु-परिवर्तन-निवारणम्, सामुद्रिक-सम्पदां धारणीय-प्रबन्धनम् तथा लघु-द्वीपीय-विकासशील-राष्ट्राणां विकासाकाङ्क्षाणां संवर्धने दीर्घकालिक-प्रतिबद्धतायाः मान्यतार्थं प्रदत्तम्। विशेषतया एतत् सम्मानं प्रथमवारमेव प्रदत्तम्।

विदेश-मन्त्रालयस्य अनुसारं प्रधानमन्त्री एतत् सम्मानं तेषां सर्वेषां राष्ट्राणां नाम समर्पितवान् ये पर्यावरण-संरक्षणाय तथा जलवायु-परिवर्तनस्य आव्हानस्य समक्षं कर्तुं प्रतिबद्धाः सन्ति। तेन उक्तं यत् भारत-सेशेल्सयोः राजनयिक-सम्बन्धानां पञ्चाशद्वर्ष-पूर्त्याः अवसरे प्राप्तम् एतत् सम्मानम् उभयदेशयोः विशेष-मैत्रीं अधिकं सुदृढां करिष्यति।

मन्त्रालयेन उक्तं यत् एतत् सम्मानं हरित-भूगोलं प्रति प्रधानमन्त्रिणः दीर्घकालिक-प्रतिबद्धतायाः मान्यता अस्ति। अस्य अन्तर्गतं अन्ताराष्ट्रिय-सौर-सन्धिः, मिशन-लाइफ, ‘एकः पादपः मातुः नाम्ना’ अभियानम् तथा अन्ताराष्ट्रिय-बिग-कैट-सन्धिः इत्यादय: उपक्रमा: समाविष्टा:। एतत् सम्मानं धारणीय-विकासस्य प्रोत्साहनार्थं प्रधानमन्त्रिणः प्राप्तेषु अन्ताराष्ट्रिय-सम्मानेषु नवीनतमः अस्ति। अस्मात् पूर्वं तेन एफ.ए.ओ.-संस्थायाः एग्रीकोला-पदकम्, सियोल-शान्ति-पुरस्कारः तथा संयुक्त-राष्ट्र-सङ्घस्य ‘चैम्पियन् ऑफ द अर्थ’ पुरस्कारः अपि प्राप्तः।

विदेश-मन्त्रालयस्य मते एतत् सम्मानम् अस्य तथ्यस्य द्योतकम् अस्ति यत् सेशेल्स-देशः क्षमता-निर्माणे, पर्यावरण-संरक्षणे, धारणीय-विकास-प्रयत्नेषु तथा हिन्द-महासागर-प्रदेशस्य साझा-प्राथमिकतासु भारतस्य वर्धमानां भूमिकां विश्वसनीय-सहभागिरूपेण महत्त्वं ददाति।

उल्लेखनीयं यत् प्रधानमन्त्री नरेन्द्रमोदी अद्यावधि विश्वस्य ३४ देशैः तेषां सर्वोच्च-नागरिक-सम्मानेन सम्मानितः अस्ति।

Hindusthan Samachar / Divya Ranjan