प्रधानमन्त्री मोदी विविधसंस्कृतीनां सम्मानस्य महत्त्वम् अवदत्
नवदेहली, जूनमासस्य २९ दिनाङ्कः। प्रधानमन्त्री नरेन्द्रमोदी विविधसंस्कृतीनां सम्मानस्य महत्त्वं प्रतिपादितवान्। तेन उक्तं यत् विविधसंस्कृतीनां सम्मानं वैश्विकविश्वासं, परस्परबोधं तथा भ्रातृत्वभावं सुदृढं करोति। प्रधानमन्त्री सोमवासरे ‘एक्स’ इति साम
प्रधानमंत्री नरेन्द्र मोदी


नवदेहली, जूनमासस्य २९ दिनाङ्कः। प्रधानमन्त्री नरेन्द्रमोदी विविधसंस्कृतीनां सम्मानस्य महत्त्वं प्रतिपादितवान्। तेन उक्तं यत् विविधसंस्कृतीनां सम्मानं वैश्विकविश्वासं, परस्परबोधं तथा भ्रातृत्वभावं सुदृढं करोति।

प्रधानमन्त्री सोमवासरे ‘एक्स’ इति सामाजिकमाध्यमे लिखितवान् यत् विश्वस्य विविधसंस्कृतीनां सम्मानात् जनानां मध्ये विश्वासः, सहयोगभावना, परस्परावबोधः तथा भ्रातृत्वभावः अधिकं वर्धते।

तेन पुनरुक्तं यत् यः पुरुषः देशस्य, कालस्य, जातेः तथा धर्मस्य परम्पराः सम्यक् अवगच्छति, उच्चनीचविवेकं च धारयति, सः विविधस्रोतसः धनं प्राप्य अपि सर्वदा जनसमूहे प्रभावी भवति तथा नेतृत्वं करोति।

Hindusthan Samachar / Divya Ranjan