श्री-अकालतख्तस्य आदेशस्य अक्षरशः पालनं करिष्यामः, सोमवासरे सर्वे मन्त्रिणः विधायकाश्च उपस्थिताः भविष्यन्ति - भगवन्त-मानः
चण्डीगढम्, २८ जूनमासः (हि.स.)। पञ्जाबस्य मुख्यमन्त्री भगवन्तसिंह-मानः रविवासरे अवदत् यत् श्री-अकालतख्त-साहिबः सिक्ख-समुदायस्य सर्वोच्चा धार्मिक-संस्था अस्ति, तस्य प्रत्येकम् आदेशं च पूर्णया श्रद्धया निष्ठया च पालनीयम्। तेन उक्तं यत् श्री-अकालतख्त-स
पंजाब के मुख्यमंत्री भगवंत मान पत्रकारों से बातचीत करते हुए साथ है आआपा सुप्रीमों अरविंद केजरीवाल


चण्डीगढम्, २८ जूनमासः (हि.स.)। पञ्जाबस्य मुख्यमन्त्री भगवन्तसिंह-मानः रविवासरे अवदत् यत् श्री-अकालतख्त-साहिबः सिक्ख-समुदायस्य सर्वोच्चा धार्मिक-संस्था अस्ति, तस्य प्रत्येकम् आदेशं च पूर्णया श्रद्धया निष्ठया च पालनीयम्। तेन उक्तं यत् श्री-अकालतख्त-साहिबेन आहूताः पञ्जाब-विधानसभायाः अध्यक्षेन सह सर्वे मन्त्रिणः विधायकाश्च सोमवासरे तत्र उपस्थिताः भूत्वा राज्यसर्वकारस्य पक्षं प्रस्तोष्यन्ति।

श्री-अमृतसर-साहिबे आम-आदमी-पक्षस्य राष्ट्रिय-संयोजकेन अरविन्द-केजरीवालेन सह पत्रकारैसह वार्तालापे मुख्यमन्त्री अवदत् यत् सर्वकारः तस्य रूपानुकरणं कुर्वतः व्यक्तेः कृत्रिम-चलच्चित्र-सम्बद्धानि समस्त-विवरणानि अपि श्री-अकालतख्त-साहिबाय समर्पयिष्यति।

मुख्यमन्त्री अवदत् यत् विपक्ष-दलानि अस्य विषयस्य धार्मिक-रूपं दत्त्वा राजनैतिक-लाभं प्राप्तुं प्रयतन्ते। तेन स्पष्टतया उक्तं यत् राजनीति-धर्मौ कदापि परस्परं न मिश्रणीयौ। अपरञ्च तेन महाराष्ट्र-सर्वकाराय सिक्ख-समुदायस्य धार्मिक-विषयेषु हस्तक्षेपं न कर्तुम् आह्वानंं कृतम्।

मुख्यमन्त्री भगवन्तसिंह-मानः अवदत्, “श्री-अकालतख्त-साहिबः प्रत्येकं सिक्खस्य कृते सर्वोच्च-श्रद्धाकेन्द्रम् अस्ति तथा अस्माकं समुदायस्य सर्वोच्चः तख्तः अस्ति। तस्मात् निर्गतः प्रत्येकम् आदेशः अस्माभिः श्रद्धया स्वीकृत्य अक्षरशः पालनीयः। अस्माकं सर्वे मन्त्रिणः, विधायकाः तथा पञ्जाब-विधानसभायाः अध्यक्षः, ये श्री-अकालतख्त-साहिबेन आहूताः सन्ति, सोमवासरे तत्र उपस्थिताः भविष्यन्ति। ते विनीत-सिखरूपेण श्री-अकालतख्त-साहिबस्य पुरतः सर्वकारस्य स्थितिं स्पष्टयिष्यन्ति तथा स्वपक्षम् उपस्थापयिष्यन्ति।”

तेन उक्तं यत्, “पूर्वमपि यदा मां श्री-अकालतख्त-साहिबः आहूतवान्, तदा अहं भारतस्य राष्ट्रपतेः कार्यक्रममपि परित्यज्य तत्र गतवान्।”

मुख्यमन्त्री अवदत्, “यदा यदा अहं ग्रामेषु, सामाजिक-कार्यक्रमेषु जनसभासु च गच्छामि, तदा महत् जनसमर्थनं प्राप्नोमि। विपक्ष-दलानि एतत् सहितुं न शक्नुवन्ति, यतः ते स्वयम् एवंविधं जनसमर्थनं सङ्ग्रहीतुं असमर्थाः सन्ति। एतस्मात् कारणात् ते मम विरुद्धं निराधारान् आरोपान् कुर्वन्ति। पञ्जाबस्य जनाः एतादृशीं राजनीतिं कदापि न स्वीकुर्युः।” तेन उक्तं यत् “भाजपा, काङ्ग्रेसः अकाली-दलश्च मां धार्मिकदृष्ट्या कलङ्कयित्वा राजनैतिक-लाभं प्राप्तुम् इच्छन्ति, किन्तु अहं केवलं रोजगारः, जलम्, विद्युत्, स्वास्थ्यं, शिक्षा तथा समग्र-विकासः इत्यादिषु विषयेषु जनहिताय कार्यं करोमि।”

एकस्य प्रश्नस्य उत्तरे मुख्यमन्त्री अवदत्, “राज्यसर्वकारः शीघ्रमेव जत्थेदार-साहिबाय पत्रं प्रेषयिष्यति, यस्मिन् मम छविं मलिनीकर्तुं मम रूपानुकरणं कुर्वतः व्यक्तेः कृत्रिम-चलचित्रस्य उपयोगः कथं कृतः इति विवरणं भविष्यति। पत्रस्य अन्तिम-रूपं सज्जीक्रियते। अस्माकं मन्त्रिणां विधायकानां च श्री-अकालतख्त-साहिबस्य पुरतः उपस्थितेः अनन्तरं अग्रिम-रणनीतिः निर्धारयिष्यते। सिख-पन्थे सङ्गतिः एव सर्वोच्चा मन्यते, अतः प्रत्येकं निर्णयः तस्याः इच्छानुसारमेव भविष्यति।”

महाराष्ट्र-सर्वकारेण १९५६ तमवर्षस्य ‘नान्देड-सिख-गुरुद्वारा-सचखण्ड-श्री-हजूर-अबचलनगर-साहिब-अधिनियमः’ निरस्तः इति विषये पृष्टे मुख्यमन्त्री अवदत्, “महाराष्ट्र-सर्वकारेण सिक्ख-समुदायस्य धार्मिक-विषयेषु हस्तक्षेपः न कर्तव्यः। महाराष्ट्रस्य भाजपा-सर्वकारेण तादृशा: पदक्षेपा: न ग्राह्या:, यैः सिक्ख-समुदायस्य धार्मिक-भावनाः आहताः स्युः। राजनीति-धर्मौ पृथक् विषयौ स्तः, तयोः कदापि परस्पर-मिश्रणं न कर्तव्यम्।”

Hindusthan Samachar / Divya Ranjan