Enter your Email Address to subscribe to our newsletters

राधाकृष्णनः सोमवासरे राज्यसभायां सप्त नवनिर्वाचित-पुनर्निर्वाचितसदस्येभ्यः शपथं ग्राहयामास।
शपथं गृहीतवत्सु सदस्येषु मानसिंह: मेरामन परमारः, तरुण चुगः, डा. अलकासिंहः, जितेन्द्रमेघजीभाईकंजारिया, राजेन्द्रहीरालालजैनः, एम्. नागराजः तथा अधिकारिमायुम शारदा देवी समाविष्टाः सन्ति। एतेषामतिरिक्तं काङ्ग्रेस-पक्षस्य अध्यक्षः मल्लिकार्जुन खरगे अपि सोमवासरे राज्यसभासदस्यत्वेन शपथं गृहीतवान्। सः कर्नाटक-राज्यात् निरन्तरं द्वितीयवारं राज्यसभासदस्यः निर्वाचितः अभवत्।
एतेषु पञ्च सदस्याः हिन्दीभाषया, एकः सदस्यः कन्नडभाषया, एकः पञ्जाबीभाषया, अपरः मणिपुरीभाषया च शपथं गृहीतवन्तः। एतेषु द्वौ सदस्यौ गुजरातराज्यस्य प्रतिनिधित्वं कुर्वन्ति, यदा कर्नाटक-मध्यप्रदेश-महाराष्ट्र-मणिपुर- तथा राजस्थान-राज्येभ्यः एकैकः सदस्यः अस्ति।
अस्मिन् अवसरे राज्यसभायाः उपसभापतिः हरिवंशः, सदनस्य नेता केन्द्रीयमन्त्री च जगतप्रकाश-नड्डा, संसदीयकार्य-मन्त्री किरेन रिजिजू, विधि-न्याय-राज्यमन्त्री अर्जुनराम-मेघवालः, राज्यसभासदस्यौ जयराम रमेशः तथा प्रफुल्ल पटेलः, राज्यसभायाः महासचिवः पी.सी. मोदी तथा सचिवालयस्य अन्ये वरिष्ठाधिकारिणः अपि उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan