सोमनाथ स्वाभिमान यात्रा-2026 इत्येतदन्तर्गते विशेषेण ट्रेनयानं जम्मूतः प्रस्थितम्
जम्मूः,, 29 जूनमासः (हि.स.)। सोमनाथस्वाभिमानयात्रा २०२६ इत्यस्याः अन्तर्गतं जम्मूकश्मीरप्रदेशस्य श्रद्धालून् गुजरातस्थितं पवित्रं सोमनाथधाम नयन्ती विशेषरेलयानसेवा सोमवासरस्य प्रातःकाले जम्मूतवी रेलस्थानकात् प्रस्थापिता। प्रातः प्रायः षड्वादने आयोज
सोमनाथ स्वाभिमान यात्रा-2026 इत्येतदन्तर्गते विशेषेण ट्रेनयानं जम्मूतः प्रस्थितम्


जम्मूः,, 29 जूनमासः (हि.स.)।

सोमनाथस्वाभिमानयात्रा २०२६ इत्यस्याः अन्तर्गतं जम्मूकश्मीरप्रदेशस्य श्रद्धालून् गुजरातस्थितं पवित्रं सोमनाथधाम नयन्ती विशेषरेलयानसेवा सोमवासरस्य प्रातःकाले जम्मूतवी रेलस्थानकात् प्रस्थापिता। प्रातः प्रायः षड्वादने आयोजिते कार्यक्रमे जम्मूकश्मीरशासनस्य मन्त्री सतीश शर्मा हरितध्वजं प्रदर्श्य एतां विशेषरेलयानसेवां औपचारिकरूपेण प्रस्थापितवान्।

अस्मिन् अवसरे बहुसंख्यकाः श्रद्धालवः रेलविभागस्य प्रशासनस्य च अधिकारिणः उपस्थिताः आसन्। श्रद्धालवः भगवान् सोमनाथस्य दर्शनार्थम् उत्साहेन यात्राम् आरब्धवन्तः। शासनस्य पक्षतः यात्रां सुगमां सुरक्षितां च कर्तुं आवश्यकव्यवस्थाः अपि सुनिश्चिताः कृताः।

एषा विशेषरेलयानसेवा श्रद्धालुभ्यः सुविधाजनकां सुरक्षितां च यात्रां प्रदातुं सञ्चालिता अस्ति। येन ते गुजरातस्थितस्य देशस्य प्रमुखज्योतिर्लिङ्गेषु अन्यतमस्य सोमनाथमन्दिरस्य दर्शनं कर्तुं शक्नुवन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani