मातृ-नवजात-स्वास्थ्यसेवानां नूतनदिशाप्रदर्शनार्थं अद्य ‘सुमन-मार्गदर्शिका २०३०’ प्रकाशितः भविष्यति
नवदेहली, १९ जून-मासः। मातृ-नवजातमृत्युदरस्य न्यूनीकरणाय तथा च २०३० तमवर्षपर्यन्तं सततविकासलक्ष्यस्य सिद्ध्यर्थं केन्द्रीयसर्वकारः अद्य महत्त्वपूर्णं पादक्षेपं करिष्यति। केन्द्रीय-स्वास्थ्य-परिवारकल्याणमन्त्री जगत्प्रकाश-नड्डा केन्द्रीय-स्वास्थ्य-पर
समीक्षा बैठक के दौरान स्वास्थ्य मंत्री जे पी नड्डा


नवदेहली, १९ जून-मासः। मातृ-नवजातमृत्युदरस्य न्यूनीकरणाय तथा च २०३० तमवर्षपर्यन्तं सततविकासलक्ष्यस्य सिद्ध्यर्थं केन्द्रीयसर्वकारः अद्य महत्त्वपूर्णं पादक्षेपं करिष्यति। केन्द्रीय-स्वास्थ्य-परिवारकल्याणमन्त्री जगत्प्रकाश-नड्डा केन्द्रीय-स्वास्थ्य-परिवारकल्याण-परिषदः षोडशतमे सम्मेलने ‘सुमन-मार्गदर्शिका २०३०’ नामकं रणनीतिपत्रं प्रकाशितं करिष्यति। एतत् मार्गदर्शकतथ्यं मातृ-नवजात-स्वास्थ्यसेवानां सुदृढीकरणाय समग्रः, बहुआयामी तथा प्रमाणाधारितः रणनीतिपत्ररूपेण निर्मितः अस्ति।

स्वास्थ्यमन्त्रालयेन उक्तं यत् गतदशवर्षेषु भारते मातृस्वास्थ्यस्य क्षेत्रे उल्लेखनीया प्रगतिः अभवत्, तथापि केषुचित् राज्येषु जनपदेषु च अद्यापि एतादृश्यः समस्याः सन्ति, येषां कारणात् मातृ-नवजातमृत्युदरे अपेक्षितपरिमाणेन न्यूनता न अभवत्। एताः समस्याः दृष्ट्वा निर्मिते अस्मिन् मार्गदर्शके प्रत्येकं राज्यस्य स्थानीयावश्यकतानुसारं पृथक् कार्ययोजना विनिर्मिता अस्ति।

अस्मिन् मार्गदर्शके गर्भधारणात् पूर्वं परिचर्या, गर्भावस्थायां नियमितपरीक्षणम्, सुरक्षितप्रसवः तथा प्रसवोत्तरकाले मातुः शिशोश्च समुचितपरिचर्या समन्वितरूपेण समाविष्टा अस्ति। एतत् प्रजनन-, मातृ-नवजात-बाल-किशोर-स्वास्थ्य-परिवारनियोजन-पोषणकार्यक्रमैः सह अपि सम्बद्धं कृतम् अस्ति, येन समन्विताः स्वास्थ्यसेवाः प्रदातुं शक्यन्ते।

अस्य रणनीतेः प्रमुखविशेषता उच्चसंकट-युक्तगर्भावस्थानां परिचयाय प्रबन्धनाय च चतुस्तरीयव्यवस्था अस्ति। अस्याः अन्तर्गतं गर्भावस्थायाः आरम्भे, विशेषतः तृतीयत्रैमासिके, प्रसवकाले तथा प्रसवोत्तरकाले उच्चसंकटयुक्ताः मातरः समये एव ज्ञास्यन्ते, तासां निरन्तरनिरीक्षणं तथा समयोचित-चिकित्सा सुनिश्चिता भविष्यति। आदिवासिक्षेत्रेषु, दुर्गमप्रदेशेषु, आपत्कालीनप्रसूति-सेवासु, परिवहनसुविधासु तथा जलवायुपरिवर्तन-जन्येषु नवीनसमस्याषु अपि विशेषं ध्यानं दत्तम् अस्ति।

अस्य मार्गदर्शकस्य अन्तर्गतं असम-बिहार-छत्तीसगढ-हरियाणा-झारखण्ड-कर्नाटक-मध्यप्रदेश-ओडिशा-पञ्जाब-राजस्थान-उत्तरप्रदेश-उत्तराखण्ड-पश्चिमबङ्गाल-इत्येतेषु त्रयोदश-उच्चप्राथमिकता-राज्येषु स्थितेषु १३० जनपदेषु विशेषरणनीतिः कार्यान्विता भविष्यति। एतेषु जनपदेषु गर्भवतीनां समये पञ्जीकरणम्, आवश्यकप्रसूति-पूर्वपरीक्षणानि, गुणवत्तायुक्त-चिकित्सकीयपरीक्षणानि तथा प्रसवोत्तरसंस्थागतपरिचर्या सुनिश्चितीकरणाय ‘सुमन-पैकेज्’ प्रवर्तिष्यते।

स्वास्थ्यमन्त्रालयस्य अनुसारम् आशाकार्यकर्त्र्यः गर्भावस्थायाः अष्टमे नवमे च मासे प्रत्येकपक्षे गृहं गत्वा गर्भवतीनां स्वास्थ्यपरीक्षणं, संकटलक्षणपरिचयं, पोषणसम्बद्धपरामर्शं, सुरक्षितप्रसवस्य सिद्धतां तथा संस्थागतप्रसवस्य जागरूकतां वर्धयिष्यन्ति।

अस्मिन् मार्गदर्शके प्रसवोत्तर-महत्त्वपूर्णकाले गर्भवत्याः सह निवसतः नामनिर्दिष्टपरिचारकस्य कृते आर्थिकसहायतायाः अपि प्रस्तावः कृतः अस्ति। दूरस्थ-दुर्गमप्रदेशेषु आपत्कालीन-रेफरल-परिवहनव्यवस्थायाः सुदृढी-करणम्, बर्थ-वेटिङ्ग-होम, मातृ-शिशु-स्वास्थ्यविभागः, प्रसूति-उच्चनिर्भरता-एककं तथा गहनचिकित्सा-विभागः इत्यादीनां स्वास्थ्य-सुविधानां स्थापनाय विशेषं बलं प्रदत्तं अस्ति।

सर्वेषां राज्यकेंद्रशासितप्रदेशानां कृते अपि अस्मिन् मार्गदर्शके महत्त्वपूर्णाः विचाराः प्रदत्ताः सन्ति। गर्भधारणस्य योजना कुर्वतीनां महिलानां कृते फोलिक-अम्लस्य वितरणम्, मातृ-अल्परक्तता-कुपोषणयोः निवारणाय व्यापकपोषणकार्यक्रमाः तथा गर्भावस्थातः प्रसवोत्तरकालपर्यन्तं उच्चसंकटयुक्त-मातॄणां प्रभाविनिरीक्षणम् इत्यादयः प्रमुखाः विषयाः सन्ति।

अस्मिन् मार्गदर्शके सामुदायिक-सहभागितायाः अपि विशेषमहत्त्वं प्रदत्तम् अस्ति। ‘सुमन-पञ्चायतः’ इत्यस्य अवधारणायै प्रोत्साहनं दास्यते, यस्य उद्देश्यं शून्यमातृमृत्युः, शून्यशिशुमृत्युः, सर्वासां गर्भवतीनां समये परीक्षणम्, संस्थागतप्रसवः तथा शतप्रतिशतटीकाकरणं सुनिश्चितीकर्तुम् अस्ति। ‘मदर्स पिकनिक’ इति नवप्रयत्नेन महिलानां समुदायस्य च मातृ-नवजात-स्वास्थ्यसम्बद्धासु उत्तमचारासु सेवासु च जागरूकतां वर्धयितुं प्रयत्नः भविष्यति।

स्वास्थ्यमन्त्रालयस्य मते ‘सुमन-मार्गदर्शिका २०३०’ राज्य-जनपदानां आवश्यकतानुसारं लक्षितहस्तक्षेपैः, उन्नतस्वास्थ्याधारभूतसंरचनया, सुदृढसामुदायिकसहभागितया तथा समयबद्धकार्ययोजनया मातृ-नवजात-स्वास्थ्यसेवानां अधिकं सुदृढीकरणं करिष्यति तथा भारतं २०३० तमवर्षपर्यन्तं मातृ-नवजातमृत्युदरस्य उल्लेखनीयन्यूनीकरणलक्ष्यस्य समीपं नेतुं महत्त्वपूर्णां भूमिकां निर्वहिष्यति।

Hindusthan Samachar / Divya Ranjan