ट्राई इत्यस्य परिशीलने जियोसंचारः सर्वतः उत्तमः, बीएसएनएल इत्यत्र समस्या सर्वतोऽधिका
नवदिल्ली, 29 जूनमासः (हि.स.)।भारतीयदूरसञ्चारविनियामकप्राधिकरणेन ट्राई संस्थया राजस्थानगुजरातराज्ययोः मध्ये विद्यमाने जोधपुर अहमदाबाद रेलमार्गे चलदूरवाणीजालसेवानां गुणवत्तायाः परीक्षणम् कृतम्। मई मासे सम्पन्ने अस्मिन् परीक्षणे रिलायन्सजियो संस्थायाः
ट्राई


नवदिल्ली, 29 जूनमासः (हि.स.)।भारतीयदूरसञ्चारविनियामकप्राधिकरणेन ट्राई संस्थया राजस्थानगुजरातराज्ययोः मध्ये विद्यमाने जोधपुर अहमदाबाद रेलमार्गे चलदूरवाणीजालसेवानां गुणवत्तायाः परीक्षणम् कृतम्। मई मासे सम्पन्ने अस्मिन् परीक्षणे रिलायन्सजियो संस्थायाः जालव्याप्तिः दत्तांशग्रहणवेगश्च सर्वोत्कृष्टौ प्राप्तौ।

ट्राई संस्थया उक्तम् यत् मई मासस्य चतुर्थदिने जोधपुरतः अहमदाबादपर्यन्तं ४५६ दशमलव ९ किलोमीटरपरिमिते रेलमार्गे स्वतन्त्रचालनपरीक्षणम् अक्रियत। अस्य उद्देश्यं विभिन्नदूरसञ्चारसेवाप्रदातृणां वास्तविकसमये जालगुणवत्तायाः मूल्याङ्कनम् आसीत्। परीक्षणकाले एयरटेल बीएसएनएल रिलायन्सजियो वीआई संस्थानां द्विजी त्रिजी चतुर्जी पञ्चजी जालेषु वाणीसेवानां दत्तांशसेवानां च परीक्षणम् अभवत्।

प्रतिवेदनानुसारं जालव्याप्तेः विषये रिलायन्सजियो संस्थायाः प्रदर्शनं सर्वोत्कृष्टम् आसीत्। जियो संस्थायाः २६१३६ नमूनासु केवलं ६८५ स्थानेषु दुर्बलसंकेतः प्राप्तः। एयरटेल संस्थायाः २६३१९ नमूनासु १८४३ स्थानेषु दुर्बलसंकेतः अभिलेखितः। वीआई संस्थायाः २५८१७ नमूनासु ५१५० स्थानेषु तथा बीएसएनएल संस्थायाः २३६२५ नमूनासु ७३६८ स्थानेषु दुर्बलसंकेतः प्राप्तः। सीमितसेवायाः अथवा जालाभावस्य विषये अपि बीएसएनएल संस्था सर्वाधिकं पश्चादवर्तत यत्र १२७१ स्थानेषु जालसेवा नोपलब्धा आसीत्।

आह्वानविच्छेदस्य विषये एयरटेल रिलायन्सजियो संस्थयोः प्रदर्शनं सर्वोत्कृष्टम् आसीत्। परीक्षणकाले उभयोः संस्थयोः जाले एको अपि आह्वानविच्छेदः न अभवत्। बीएसएनएल संस्थायां १२२ सफलआह्वानेषु १५ आह्वानविच्छेदाः अभवन्। वीआई संस्थायां १२६ सफलआह्वानेषु ४ आह्वानविच्छेदाः अभिलेखिताः।

दत्तांशअवतरणवेगस्य विषये रिलायन्सजियो संस्था प्रथमस्थाने आसीत्। तस्याः औसतदत्तांशअवतरणवेगः ८९ दशमलव ६१ एमबीपीएस अभवत्। एयरटेल संस्थायाः अवतरणवेगः ४८ दशमलव ५३ एमबीपीएस आसीत्। वीआई संस्थायाः औसतदत्तांशअवतरणवेगः १२ दशमलव ७१ एमबीपीएस तथा बीएसएनएल संस्थायाः ७ दशमलव ९५ एमबीपीएस अभवत्।

दत्तांशप्रेषणवेगस्य विषये एयरटेल संस्था ११ दशमलव ६९ एमबीपीएस वेगेन प्रथमस्थानम् अलभत। रिलायन्सजियो संस्थायाः औसतप्रेषणवेगः ९ दशमलव ०६ एमबीपीएस तथा वीआई संस्थायाः ८ दशमलव ८१ एमबीपीएस आसीत्। बीएसएनएल संस्थायाः प्रेषणवेगः ३ दशमलव ७६ एमबीपीएस अभिलेखितः।

ट्राई संस्थया उक्तम् यत् परीक्षणं जोधपुर भगतकीकोठी लूनीजङ्क्शन समदड़ी जालोर भीनमाल रानीवाड़ा धानेरा भीलड़ी पाटन महेसाणाजङ्क्शन इत्यादिषु विभिन्नेषु स्थानकेषु रेलखण्डेषु च सम्पन्नम्। परीक्षणकाले आह्वानस्थापनसफलतादरः आह्वानविच्छेददरः संकेतव्याप्तिः दत्तांशअवतरणवेगः दत्तांशप्रेषणवेगः लेटेन्सी जिटर पैकेटड्रॉप इत्यादीनां प्रमुखमानकानां मूल्याङ्कनम् अक्रियत।

ट्राई संस्थया उक्तम् यत् अस्य प्रतिवेदनस्य निष्कर्षाः सम्बन्धितदूरसञ्चारसंस्थानां सह समं विनिमिताः सन्ति यथा आवश्यकसुधारात्मकपदानि शीघ्रं स्वीकर्तुं शक्येरन्।

---------------

Hindusthan Samachar / Dheeraj Maithani