तकनीकी रूपेण दक्षाः भविष्यति उर्वरकविक्रेतारः
जोधपुरम्, 29 जूनमासः (हि.स.)। कृषिविश्वविद्यालयस्य किसानकौशलविकासकेन्द्रेण भारतसर्वकारस्य राजपत्रसूचना १९ अनुसारं प्रथमवारं मुख्यालये पञ्चदशदिवसीयः खुद्राउर्वरकविक्रेतृप्रशिक्षणकार्यक्रमस्य उद्घाटनसमारोहः आयोजितः। अस्मिन् कार्यक्रमे कृषिविश्वविद्या
jodhpur


जोधपुरम्, 29 जूनमासः (हि.स.)। कृषिविश्वविद्यालयस्य किसानकौशलविकासकेन्द्रेण भारतसर्वकारस्य राजपत्रसूचना १९ अनुसारं प्रथमवारं मुख्यालये पञ्चदशदिवसीयः खुद्राउर्वरकविक्रेतृप्रशिक्षणकार्यक्रमस्य उद्घाटनसमारोहः आयोजितः। अस्मिन् कार्यक्रमे कृषिविश्वविद्यालयस्य कुलगुरुः प्रोफेसरः वीरेन्द्रसिंह जैतावत अध्यक्षतां कृतवान्।

अस्मिन् अवसरे उपस्थितान् प्रशिक्षणार्थिनः सम्बोधयन् सः अवदत् यत् वर्तमानकाले क्षेत्रेषु अन्धाधुन्धरूपेण रासायनिकउर्वरकाणाम् उपयोगः क्रियते। कृषकाणां समीचीनज्ञानस्य अभावात् क्षेत्रेषु आवश्यकतायाः अपेक्षया अधिकमात्रया उर्वरकाणां प्रयोगः भवति। तेन केवलं भूमेः उर्वराशक्तिः प्रभाविताः न भवति अपितु मानवस्वास्थ्याय अपि गम्भीराः विपदः उत्पद्यन्ते।

सः अवदत् यत् कृषकः कृषिसम्बद्धपरामर्शं प्राप्तुं सर्वप्रथमं विक्रेतारं सम्प्राप्नोति। अतः विक्रेतुः दायित्वं भवति यत् सः स्वयम् अपि एतत् पाठ्यक्रमं निष्ठया सम्पूर्णं कुर्यात् सम्यक् ज्ञानं च धारयेत् तथा कृषकाय अपि श्रेष्ठं परामर्शं दद्यात्।

सः प्रशिक्षणार्थिभ्यः उक्तवान् यत् कृषकान् मृत्तिकाजलयोः परीक्षणाय प्रेरयन्तु येन कृषकाः सन्तुलितरूपेण आवश्यकतानुसारं च उर्वरकाणाम् उपयोगं कुर्वन्ति।

कार्यक्रमे स्वागतभाषणं किसानकौशलविकासकेन्द्रस्य प्रभारी डा प्रदीप पगारिया अकरोत्। तेन उक्तं यत् अस्य पाठ्यक्रमस्य उद्देश्यं खुद्राविक्रेतृभ्यः वैज्ञानिककृषेः मृत्तिकास्वास्थ्यप्रबन्धनस्य उर्वरकाणां सन्तुलितोपयोगस्य च तकनीकीज्ञानं प्रदातुम् अस्ति। येन ते कृषकेभ्यः सम्यक् प्रमाणिकं च परामर्शं दातुं समर्थाः भवेयुः।

समारोहस्य अन्ते के के वी के नोडलाधिकारिणी डा प्रियंका स्वामी धन्यवादज्ञापनम् अकरोत्। कार्यक्रमे पाली नागौर भीलवाडा कुचामन फलोदी जैसलमेर बालोतरा इत्यादिभ्यः अन्येभ्यश्च जनपदेभ्यः आगताः प्रशिक्षणार्थिनः उपस्थिताः आसन्। कार्यक्रमे प्रशिक्षणाधिकारी डा मनीष बेडा नीलिमा मकवाना डा प्रियंका अनिल यादव तथा तकनीकीसहायकः नरहरि जोशी अपि उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani