रोजगार-मेलापके ३९ युवानः रोजगारं प्राप्तवन्तः, २३ द्वितीय-साक्षात्कार-चरणाय चयनिताः
देहरादूनम्, २९ जूनमासः (हि.स.)। प्रदेशस्य यूनां रोजगार-प्रदानस्य उद्देशेन क्षेत्रीय-सेवायोजन-कार्यालये, देहरादूने सोमवासरे आयोजिते लघु-रोजगार-मेलापके ३९ अभ्यर्थिनः विभिन्नासु निजी-निर्माणीषु चयनिताः, यदा २३ अभ्यर्थिनः द्वितीय-साक्षात्कार-चरणाय चयनि
क्षेत्रीय सेवायोजन कार्यालय, देहरादून में आयोजित लघु रोजगार मेला।


देहरादूनम्, २९ जूनमासः (हि.स.)। प्रदेशस्य यूनां रोजगार-प्रदानस्य उद्देशेन क्षेत्रीय-सेवायोजन-कार्यालये, देहरादूने सोमवासरे आयोजिते लघु-रोजगार-मेलापके ३९ अभ्यर्थिनः विभिन्नासु निजी-निर्माणीषु चयनिताः, यदा २३ अभ्यर्थिनः द्वितीय-साक्षात्कार-चरणाय चयनिताः।

प्रातः दशवादनतः सायं चतुर्वादनपर्यन्तम् आयोजिते रोजगार-मेलापके २८२ अभ्यर्थिनः सहभागित्वम् अकुर्वन्। मेलापके १२ निजी-निर्माण्यः विविध-पदेषु नियुक्त्यर्थं चयन-प्रक्रियायां सहभागित्वम् अकुर्वन् तथा अभ्यर्थिनां शैक्षणिक-योग्यता-कौशल-अनुभवानाम् आधारेण साक्षात्कारान् अगृह्णन्।

रोजगार-मेलापके विण्डलास-बायो-मेडिसिन्, आईपीसीए-लेबोरेटरीज्, एलआईसी, भारती-एयरटेल, निर्माण-ऑर्गेनाइजेशन-इत्यादयः १२ प्रतिष्ठित-कम्पन्यः सहभागित्वम् अकुर्वन्। निर्धारितासु १४ निर्माणीषु १२ निर्माण्यः मेलापके सम्मिलिताः अभवन्।

देहरादून-सहितात् प्रदेशस्य विभिन्न-जनपदेभ्यः आगताः युवक-युवत्यः विभिन्न-निर्माणीनां प्रदर्शिनी-स्थलानि गत्वा रोजगार-सम्बद्धां सूचनां प्राप्तवन्तः तथा स्व-योग्यतानुरूपम् आवेदनानि अकुर्वन्। रोजगारस्य अन्वेषणाय आगतेषु युवसु विशेषः उत्साहः दृष्टः।

उत्तरकाशी-जनपदात् आगतः अभ्यर्थी प्रमोदः रोजगार-मेलापकं यूनां कृते उपयोगीम् उपक्रमम् इति कथयन् मुख्यमन्त्रिणः पुष्करसिंह-धामी-महोदयस्य, जनपद-प्रशासनस्य तथा सेवायोजन-विभागस्य प्रति कृतज्ञतां प्रकटितवान्। सः अवदत् यत् सामाजिक-माध्यमेन तस्मै मेलापकस्य सूचना प्राप्ता तथा एतादृशैः आयोजनैः युवभ्यः स्वराज्ये एव रोजगार-अवसराः प्राप्यन्ते।

क्षेत्रीय-सेवायोजन-अधिकारिणी ममता-चौहान-नेगी अवदत् यत् विभागः यूभ्यः निजी-क्षेत्रे रोजगार-प्रदानस्य उद्देशेन समये-समये रोजगार-मेलापकानाम् आयोजनं करिष्यति। तया उक्तं यत् एतादृशैः आयोजनैः बेरोजगार-यूभ्यः विभिन्न-कम्पनीभिः सह प्रत्यक्षतया सम्पर्कं स्थापयित्वा रोजगार-प्राप्तेः अवसरः लभ्यते।

Hindusthan Samachar / Divya Ranjan