मुख्यमन्त्री योगिनः आगरा-भ्रमणम् — समीक्षासभायां मेट्रो-परियोजनायाः विमानस्थानकस्य च कार्यम् अक्तूबरमासपर्यन्तं सम्पन्नं कर्तुं निर्देशाः
आगरानगरम्, २८ जूनमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः अद्य आगरानगरम् आगत्य मण्डलायुक्त-सभागारे लोकनिर्माण-विभागस्य तथा जनपदस्य वरिष्ठाधिकारिभिः सह सभाम् अकरोत्। विकासकार्याणां समीक्षां कुर्वन् सः अवैध-खननम्, आग्रा-मेट्रो-परियोज
आगरा पहुंचे मुख्यमंत्री, की विकास कार्यों की समीक्षा


आगरानगरम्, २८ जूनमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः अद्य आगरानगरम् आगत्य मण्डलायुक्त-सभागारे लोकनिर्माण-विभागस्य तथा जनपदस्य वरिष्ठाधिकारिभिः सह सभाम् अकरोत्। विकासकार्याणां समीक्षां कुर्वन् सः अवैध-खननम्, आग्रा-मेट्रो-परियोजना, आग्रा-विमानस्थानकम् तथा ग्रामीण-मार्गाणां स्थितिं विषये कठोरान् निर्देशान् अदात्।

सभायां मुख्यमन्त्री आग्रा-मेट्रो-परियोजनायाः विमानस्थानकस्य च कार्यम् अस्मिन्नेव वर्षे अक्तूबर-मासपर्यन्तम् सम्पन्नं कर्तुं निर्देशम् अदात्, येन एतयोः महत्त्वपूर्णयोः परियोजनयोः उद्घाटनार्थं प्रधानमन्त्रिणः समयः प्राप्येत। सः अवदत् यत् विकासकार्येषु जानपूर्वकं विलम्बः, आलस्यं प्रमादश्च कदापि न सह्यः। अवैध-खननस्य विषये मुख्यमन्त्रिणः दृष्टिकोणः अत्यन्तं कठोरः आसीत्। सः स्पष्टतया चेतावनीम् अदात् यत् अवैध-खननं कठोरतया निरुध्यताम् तथा तत्र संलग्नानां विरुद्धम् अभियोगाः पञ्जीकृत्य ते शीघ्रं कारागारं प्रेष्यन्ताम्। सः अवदत् यत् अवैध-खननेन स्वार्थार्थम् आर्थिकलाभं कुर्वन्तः समाजस्य महतीं हानिं कुर्वन्ति। पञ्च-टन-भारसहन-क्षमत्वेन निर्मितेषु मार्गेषु बहुगुणाधिक-भारयुक्तैः वाहनैः गमनागमनेन ते मार्गान् क्षतिग्रस्तान् कुर्वन्ति। अतः मार्ग-पुनर्निर्माणव्ययः तेषां वाहनानि गृहीत्वा नेतव्यः।

मुख्यमन्त्री तेषां विभागानाम् कार्यदायी-संस्थानानां च प्रति अपि कठोरं रुखं प्रकटितवान्, ये मार्गान् खनित्वा पुनः तेषां मरम्मतिं न कुर्वन्ति। सः स्पष्टतया उक्तवान् यत् तादृशेषु विभागेष्वपि कठोरा कार्यवाही भवेत्। सार्वजनिक-सम्पत्तेः हानिकारकेभ्यः विरुद्धं कठोरकार्यवाही सुनिश्चितव्या, येन जनसामान्यः दुर्मार्गाणां तथा अपूर्ण-विकासकार्याणां दुष्परिणामान् न भुञ्जीत।

मुख्यमन्त्री योगी-आदित्यनाथः सभायां लोकनिर्माण-विभागस्य सचिवं अजय-चौहानम् अपि निर्देशितवान् यत् जनप्रतिनिधिभिः प्रदत्तानां विकासकार्य-प्रस्तावानां समीक्षा शीघ्रं क्रियताम्, अनुमोदनानन्तरं तेषां कार्यान्वयनम् अपि विलम्बं विना आरभ्यताम्, येन निर्माणकार्याणि विकासकार्याणि च शीघ्रमेव जनसामान्यं प्राप्नुयुः। सः अधिकारिभ्यः उक्तवान् यत् विकास-परियोजनाः समये सम्पन्नाः भवेयुः तथा निर्माणसामग्रीणां गुणवत्तायामपि विशेषं ध्यानं दीयताम्। गुणवत्तायां कापि उपेक्षा न भवेत्, यतः मार्गाः, सेतवः, मेट्रो-परियोजनाः तथा विमानस्थानकानि प्रदेशस्य प्रगतेः आधारशिलाः सन्ति। तेषां उच्चगुणवत्तया समापनं सर्वेषां सम्बन्धित-विभागानां दायित्वम् अस्ति।

सः पुनः स्पष्टतया अवदत् यत् विकासकार्येषु प्रमादः, भ्रष्टाचारः तथा अवैध-क्रियाकलापान् प्रति प्रदेश-सर्वकारस्य शून्य-सहिष्णुता-नीतिः वर्तते। विकास-परियोजनानां समये समापनम्, उच्चगुणवत्तया तासां सम्पन्नता तथा जनसामान्याय समये उपलब्धता प्रदेशसर्वकारस्य सर्वोच्च-प्राथमिकता अस्ति। अस्यां सभायाम् आग्रा-मण्डलस्य अन्तर्गतानां आगरा, मथुरा, फिरोजाबाद तथा मैनपुरी-जनपदानां सांसदाः, विधायकाः, मन्त्रिणः, मण्डलायुक्तः, सर्वेषां जनपदानां जनपदाधिकारिणः तथा लोकनिर्माण-विभागस्य वरिष्ठाधिकारिणः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan