प्रत्येकम् अपेक्षितस्य चिकित्साव्यवस्थां कर्तुं सर्वकारस्य उत्तरदायित्वम् : मुख्यमंत्री योगी
- मुख्यमंत्री सोमवासरे ‘जनता दर्शने’ विभिन्न जनपदेभ्यः आगतैः सहामिलत् लखनऊ, 29 जूनमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे जनतादर्शने प्रदेशस्य विभिन्नजनपदेभ्यः आगतानां प्रार्थिनां समस्याः सावधानतया अशृणोत्। तेषां प्रार्थनापत्राणि गृ
जनता दर्शन में लोगों की समस्याएं सुनते मुख्यमंत्री योगी


- मुख्यमंत्री सोमवासरे ‘जनता दर्शने’ विभिन्न जनपदेभ्यः आगतैः सहामिलत्

लखनऊ, 29 जूनमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे जनतादर्शने प्रदेशस्य विभिन्नजनपदेभ्यः आगतानां प्रार्थिनां समस्याः सावधानतया अशृणोत्। तेषां प्रार्थनापत्राणि गृहीत्वा सम्बन्धिताधिकारिभ्यः प्रदाय निर्देशितवान् यत् सर्वेषां जनानां समस्याः निर्धारितसमयसीमायाः अन्तर्गतं समाधीयन्ताम्। ततः परं पीडितपक्षेण सह संवादं कृत्वा तेषां सन्तुष्टेः विषये अपि जानकारी गृह्यताम्। मुख्यमन्त्री पीडितान् आश्वासयन् उक्तवान् यत् भवन्तः निश्चिन्ताः स्वगृहं गच्छन्तु। वयं प्रत्येकस्य प्रकरणस्य समुचितं निस्तारणं कारयिष्यामः।

बरेलीनगरात् आगता एका महिला मुख्यमन्त्रिणा सह मेलनं कृतवती। सा कर्कटरोगस्य चिकित्सार्थं मुख्यमन्त्रिणः समीपे आर्थिकसहायतां प्रार्थितवती। मुख्यमन्त्री तस्याः चिकित्सालयस्य व्ययविवरणपत्रं याचितवान् यत् सा तत्क्षणं प्रदातुं न अशक्नोत्। तदा मुख्यमन्त्री उक्तवान् यत् चिकित्सालयात् व्ययविवरणपत्रं आनयतु। भवान्ती स्वस्वास्थ्यस्य विषये ध्यानं ददातु। चिकित्सायाः चिन्तां शासनमेव करिष्यति। मुख्यमन्त्री रोगिणः चिकित्सालये प्रवेशनार्थं समुचितचिकित्सार्थं च अपि निर्देशान् अददात्।

जनतादर्शने राजस्वसम्बद्धानि प्रकरणानि अपि प्रस्तुतानि अभवन्। अस्मिन् विषये मुख्यमन्त्री उक्तवान् यत् शासनम् अतिक्रमणं कदापि न सहिष्यते। अस्मिन् विषये निरन्तरं कार्यवाही प्रवर्तिष्यते। मुख्यमन्त्री राजस्वप्रकरणानां समयबद्धनिस्तारणे अपि विशेषबलम् अददात्। सः उक्तवान् यत् अस्मिन् शीघ्रनिर्णयेन वादिभ्यः समयेन राहतिः प्राप्यते। राजस्वसम्बद्धाः अधिकारिणः समयेन न्यायालयेषु उपविशन्तु। अस्मिन् विषये शीघ्रं निर्णयान् अपि कुर्वन्तु। यतः अन्यथा निर्धनाः वादिनः अधिकं प्रभाविताः भवन्ति। वादिभ्यः न्यायप्रदानं शासनस्य मन्शा अस्ति। तदनुरूपं राजस्वसम्बद्धाः अधिकारिणः आवश्यकतायुक्तेभ्यः जनाभ्यः न्यायं प्रददतु।--------------

Hindusthan Samachar / Dheeraj Maithani