Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, जूनमासस्य २९ दिनाङ्कः। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे लखनऊ-नगरे स्वकीय-शासकीय-निवासस्थाने आयोजिते ‘जनतादर्शने’ कार्यक्रमे राज्यस्य विभिन्नजनपदेभ्यः आगतानां नागरिकाणां समस्याः अशृणोत्।
तेन सर्वासां समस्यानां प्रभावी, पारदर्शी तथा समयबद्धसमाधानार्थं सम्बन्धित-अधिकारिभ्यः आवश्यकनिर्देशाः प्रदत्ताः। मुख्यमन्त्री अवदत् यत् जनसमस्यानां शीघ्रनिराकरणाय राज्यसर्वकारः दृढसंकल्पितः अस्ति। अतः सर्वेषां समस्याः त्वरितरूपेण समाधानं प्राप्नुवन्ति। एतस्मिन् कार्ये कस्यापि प्रकारस्य भेदभावस्य स्थानं नास्ति।
Hindusthan Samachar / Divya Ranjan