Enter your Email Address to subscribe to our newsletters

वाराणसी, 29 जूनमासः (हि. स.)।
वाराणसी विकासप्राधिकरणस्य उपाध्यक्षः पूर्ण बोरा सोमवासरे उक्तवान् यत् वाराणस्यां गतकेषु वर्षेषु निर्मितेषु वाणिज्यभवनेषु अधःतलस्य उपयोगः वाहनस्थापनातिरिक्तकार्येषु क्रियते। अधःतलं वाहनस्थापनार्थं प्रदर्श्यते किन्तु तस्य उपयोगः आपणस्थापनाय लाभार्जनार्थं वा कर्मचारिणां निवासार्थं वा क्रियते। वाराणसी विकासप्राधिकरणस्य कर्मचारीणः अधिकारिणश्च स्वस्वक्षेत्रेषु एतादृशानाम् अधःतलानां परीक्षणं कृत्वा तेषां सूचीं निर्मीयुः। येन तेषां विरुद्धं विधिसम्मता कार्यवाही कर्तुं शक्येत।
उपाध्यक्षः बोरा उक्तवान् यत् लखनऊनगरे प्रशिक्षणसंस्थायां जाताग्निदुर्घटनानन्तरं वाणिज्यभवनानां परीक्षणं अत्यन्तं कठोरतया क्रियमाणम् अस्ति। अस्मिन् परीक्षणे केचन भवनाः मानचित्रस्य अभावात् अथवा आवश्यकप्रपत्राराणाम् अभावात् मुद्रिताः सन्ति। एतादृशी कार्यवाही आगामिषु दिनेेषु वाराणस्यामपि निरन्तरं दृश्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani