Enter your Email Address to subscribe to our newsletters

अयोध्या, २९ जूनमासः (हि.स.)। श्रीराम-जन्मभूमि-मन्दिरे समर्पित-दानस्य विषये उद्भूत-विवादस्य मध्ये अयोध्यायाः प्रख्यातः सन्तः, चिन्तकः, सिद्धपीठ-श्रीहनुमत्-निवासस्य पीठाधीश्वरः आचार्यः मिथिलेशनन्दिनी-शरण-महाराजः तीव्रां प्रतिक्रियाम् अददात्। सः अवदत् यत् यदि कश्चन अपराधः, अनियमितता अथवा अनैतिक-कृत्यम् अभवत्, तर्हि तस्य निष्पक्ष-अनुसन्धानं भवेत्, दोषिणश्च दण्डं प्राप्नुयुः। किन्तु एतस्य ब्याजेन श्रीराम-जन्मभूमि-मन्दिरं, अयोध्यां तथा कोटिशः श्रद्धालूनां श्रद्धां कारागारे स्थापनं न न्यायसङ्गतम्, न च धर्मसम्मतम्।
सः अवदत् यत् अधुना अयोध्यायाः विषये टिप्पणीकर्तॄणां सहसा सम्मर्द: अभवत्। येषां कुलानि भ्रष्टाचारस्य, लुण्ठनस्य च आरोपैः परिवेष्टितानि आसन्, तेऽपि अधुना नैतिकतायाः उपदेशं कुर्वन्ति। येषां परिचयः देशस्य लुण्ठनस्य आरोपैः अभवत्, तेऽपि धर्मस्य सत्यतायाश्च पाठं पठयन्ति। आचार्यः अवदत् यत् येषां पूर्वजाः अयोध्यां प्रति दृष्टिमपि न क्षिपन्ति स्म, तेऽपि अधुना श्रीराम-जन्मभूमेः विषये वक्तुं अग्रे सन्ति।
तथ्यैः विना स्वयंभू-प्रवक्तृत्वं न युक्तम्
महाराजः अवदत्— “सत्यं प्रियं वदेत्” इति सार्वजनिक-जीवनस्य आदर्शः। यदि अपराधः कश्चित् अभवत्, तर्हि तस्य निन्दा अवश्यं भवेत्। किन्तु सम्पूर्ण-तथ्यानां प्रकाशनात् पूर्वमेव सामाजिक-माध्यमेषु, दूरभाषे, सञ्चार-माध्यमेषु च उपविश्य सर्वे स्वयमेव प्रवक्तारः भवन्ति, एतत् न समीचीनम्। परेषां न्यायनिर्णयात् पूर्वं स्वस्य आत्ममन्थनम् अत्यावश्यकम्।
स्वप्रवचने सः प्रसिद्धां कथाम् अपि अश्रावयत्। तस्यां कथायां एकस्मै चौराय मृत्युदण्डः विहितः। किन्तु सः राजानम् अवदत् यत् प्रथमं ज्ञायताम्— राज्ये कः अस्ति यः जीवने कदापि चौर्यं न कृतवान्। ततः मोती-कृषेः प्रसङ्गं निरूपितवान्, यस्याः शर्तः आसीत् यत् केवलं स एव मोतीं छेत्तुं शक्नोति, येन कदापि चौर्यं न कृतम्। यदा राजपुरोहितः, मन्त्री, अन्ते च स्वयं राजा अपि तत्र प्राप्तवन्तः, तदा सर्वे स्वजीवने कस्यचित् दोषस्य अथवा प्रमादस्य स्वीकारम् अकुर्वन्। ततः चोरः अवदत्— “यदा सम्पूर्णं राज्यं कस्यचित् दोषस्य भागी अस्ति, तर्हि केवलम् अहमेव कथं कारागारे?”
आचार्यः अवदत् यत् एषैव स्थितिः अधुना दृश्यते। लघु-घटनाम् आधारं कृत्वा जनाः स्वान् महत: नैतिकान् धर्मात्मानश्च प्रतिपादयितुं प्रयतन्ते। कश्चिदपि न वदितुं शक्नोति यत् तस्य जीवने कदापि काचित् त्रुटिः न जाता। अतः परेषां न्यायात् पूर्वं स्वस्य आत्ममन्थनम् आवश्यकम्।
अयोध्यायाः अपकीर्तिं कर्तुं केचन प्रयतन्ते
सः अवदत् यत् देशे सहस्रकोटि-रूप्यकाणां लुंठनानां आरोपाः अभवन्, अनेके सर्वकाराः भ्रष्टाचारस्य आरोपैः परिवेष्टिताः आसन्, बृहत्सु धार्मिक-संस्थासु अपि कोटिशः रूप्यकाणां दानं समर्प्यते; किन्तु तत्र एतादृशी व्यग्रता न दृश्यते। केवलं श्रीराम-जन्मभूमि-मन्दिरस्य महिमानं न्यूनीकर्तुं, तस्य प्रतिष्ठायां प्रश्नचिह्नं स्थापयितुं च कश्चन वर्गः निरन्तरं सक्रियः दृश्यते।
प्रभुः श्रीरामः अन्तर्यामी; अन्तिमः निर्णयः तेनैव भविष्यति
महाराजः अवदत् यत् प्रभुः श्रीरामः अन्तर्यामी अस्ति, अन्तिम-निर्णयं स एव करिष्यति। अतः जनैः परेषां दोषगणनां विहाय स्वाचारस्य सुधारः करणीयः। कालिदासस्य उल्लेखं कुर्वन् सः अवदत् यत् सत्यवादी जनः अल्पमेव वदति, यतः अतिवचनात् सत्यस्य मर्यादा भग्नत्वं प्राप्नोति। महर्षेः वाल्मीकेः प्रसङ्गमपि निर्दिश्य सः अवदत् यत् भगवान् श्रीरामः तस्मिन्नेव हृदये निवसति, यत्र सत्यं, मधुरा वाणी, विनयः, अमात्सर्यम्, परगुण-स्वीकार-प्रवृत्तिः, अहङ्कार-त्यागः, भगवति निष्काम-भक्तिश्च वर्तते। समाजेन विवादान्, आरोप-प्रत्यारोपांश्च विहाय एतानि मूल्यानि एव आचरितव्यानि।
Hindusthan Samachar / Divya Ranjan