Enter your Email Address to subscribe to our newsletters

लखनऊ, २९ जूनमासः (हि.स.)। उत्तरप्रदेश-सर्वकारः जल-जीवन-अभियानं केवलं योजनासु सीमितं न स्थापयन्, तस्य भूमिस्तरीय-गुणवत्तायाः सुनिश्चितीकरणाय अपि निरन्तरं सक्रियः अस्ति। प्रदेशस्य ग्रामीण-क्षेत्रेषु प्रत्येकं गृहम् यावत् स्वच्छ-पेयजल-प्रदानस्य सर्वकारस्य प्रतिबद्धतां अधिकं सुदृढीकुर्वन् जलशक्ति-मन्त्री स्वतन्त्रदेव-सिंहः अधुना स्वयं ग्रामेषु गत्वा नल-जलापूर्ति-व्यवस्थायाः वास्तविक-स्थितेः निरीक्षणं करिष्यति।
जुलाईमासस्य १५ दिनाङ्कात् २५ दिनाङ्कपर्यन्तं प्रस्तावितस्य अस्य विशेष-अभियानस्य अन्तर्गतं जलशक्ति-मन्त्री स्वतन्त्रदेव-सिंहः द्वादशाधिक-जनपदानां ग्रामाणां भ्रमणं करिष्यति। अस्मिन् अवसरे सः केवलं पेयजल-आपूर्तेः जलस्य गुणवत्तायाश्च परीक्षणं न करिष्यति, अपितु ग्रामीणैः सह प्रत्यक्ष-संवादं कृत्वा तेषां समस्याः विचारांश्च ज्ञास्यति। अस्मिन् अभियाने नमामि-गङ्गे-ग्रामीण-जलापूर्ति-विभागस्य अपर-मुख्य-सचिवः अनुराग-श्रीवास्तवेन सह विभागस्य वरिष्ठ-अधिकारिणोऽपि तेन सह भविष्यन्ति।
जलशक्ति-मन्त्री विभागीय-अधिकारिणश्च ग्रामेषु रात्रि-विश्राममपि करिष्यन्ति। अस्मिन् काले ग्रामीणैः सह प्रत्यक्ष-संवादः स्थापितः भविष्यति तथा योजनानां वास्तविक-स्थितेः निष्पक्ष-मूल्याङ्कनमपि भविष्यति। निरीक्षणस्य समये ग्रामेषु 'जल-अर्पण' कार्यक्रमाः अपि आयोजयिष्यन्ते, येषु ग्रामीणाः जलापूर्ति-व्यवस्थायाः संरक्षणे सञ्चालने च सहभागीता कारयिष्यन्ते।
जुलाईमासस्य १५ तथा १६ दिनाङ्कयोः जलशक्ति-मन्त्री ललितपुर-, झाँसी- तथा जालौन-जनपदानां ग्रामाणाम् आकस्मिक-निरीक्षणं करिष्यति। ततः १८ तथा १९ जुलाई दिनाङ्कयोः सुल्तानपुर-जौनपुर-मिर्जापुर- तथा सोनभद्र-जनपदानां ग्रामीण-क्षेत्राणां भ्रमणं कृत्वा जलापूर्ति-व्यवस्थायाः समीक्षां करिष्यति। एतेषु सर्वेषु स्थानेषु सः ग्रामीणेभ्यः प्रत्यक्ष-प्रतिपुष्टिं स्वीकृत्य योजनानां प्रभावस्य मूल्याङ्कनं करिष्यति।
जुलाईमासस्य २४ दिनाङ्के जलशक्ति-मन्त्री मथुरायां सन्तैः सह विशेष-संवादं करिष्यति। अस्मिन् उपवेशने यमुना-नद्याः स्वच्छता-संरक्षणयोः विषये विचारा: स्वीकरिष्यन्ते। सहैव यमुना-तटवर्तिनः ग्रामीणाः अपि अस्मिन् अभियाने संयोज्य नदी-स्वच्छतायाः विषये जागरूकाः करिष्यन्ते।
राज्य-पेयजल-स्वच्छता-मिशनस्य मुख्यालये सोमवासरे आयोजितायां समीक्षा-सभायां जलशक्ति-मन्त्री स्वतन्त्रदेव-सिंहेन स्पष्ट-निर्देशाः प्रदत्ताः यत् यदि कस्यचित् जनपदात् जलापूर्ति-सम्बद्धा शिकायतः प्राप्यते, तर्हि सम्बद्धस्य मुख्य-अभियन्तुः तथा अधीक्षण-अभियन्तुः उत्तरदायित्वं निश्चित्य तयोः विरुद्धं कार्यवाही करिष्यते। तेन सर्वेभ्यः मुख्य-अभियन्तृभ्यः प्रत्येकस्य परियोजनायाः व्यक्तिगत-समीक्षां कर्तुं गुणवत्तां सुनिश्चितीकर्तुं च निर्देशाः प्रदत्ताः।
तेन एतदपि निर्देशितं यत् सर्वे मुख्य-अभियन्तारः स्व-स्तरेऽपि ग्रामेषु 'जल-अर्पण' कार्यक्रमान् आयोजयन्तु। एतेषु कार्यक्रमेषु ग्रामवासिभ्यः जलापूर्ति-व्यवस्थायाः उत्तरदायित्वं समर्प्य जल-संरक्षणस्य विषयेऽपि तान् जागरूकान् कुर्वन्तु।
Hindusthan Samachar / Divya Ranjan