Enter your Email Address to subscribe to our newsletters


मीरजापुरम्, 29 जूनमासः (हि.स.)।
ज्येष्ठपूर्णिमायाः पावनावसरे सोमवासरे विश्वविख्याते मातृविन्ध्यवासिनीधाम्नि श्रद्धालूनां जनसागरः समुपस्थितः। प्रभाते मन्दिरस्य कपाटोद्घाटनानन्तरं दर्शनपूजनस्य क्रमः आरब्धः। उत्तरप्रदेशस्य विभिन्नजनपदेभ्यः बिहार मध्यप्रदेश झारखण्ड छत्तीसगढप्रदेशेभ्यश्च आगताः श्रद्धालवः मातुः विन्ध्यवासिन्याः दर्शनं कृत्वा स्वपरिवारस्य सुखसमृद्धिं सौख्यं मङ्गलमयं जीवनं च प्रार्थितवन्तः। सम्पूर्णदिने मन्दिरपरिसरः दर्शनमार्गश्च जय मातः विन्ध्यवासिनी इति घोषैः गुञ्जितः आसीत्।
प्रातःकालात् एव मन्दिरपरिसरे पक्काघाटे पुरातनवीआईपीमार्गे कोरिडोरमार्गे च श्रद्धालूनां दीर्घाः पङ्क्तयः आसन्। भीडस्य सुचारुरूपेण दर्शनार्थं पुलिसविभागः मन्दिरप्रशासनं च निरन्तरं सक्रियौ आस्ताम्। महिलानां पुरुषाणां च कृते पृथक् पङ्क्तिव्यवस्था कृता आसीत्। दर्शनानन्तरं श्रद्धालवः मन्दिरपरिसरे प्रसादं समर्पितवन्तः धार्मिकानुष्ठानेषु च सहभागं कृतवन्तः। ज्येष्ठपूर्णिमायाः अवसरे बहुसंख्यकाः नवदम्पत्यः परिवाराश्च मातुः सन्निधौ प्रणिपत्य आशीर्वादम् अलभन्त। अनेकैः श्रद्धालुभिः स्वबालकानां मुण्डनसंस्कारः अपि कारितः। मन्दिरस्य समीपस्थितेषु विपणिषु दिवसभरं जनचञ्चलता आसीत्। प्रसादः चुनरी नारिकेलः पूजासामग्री च विक्रयकेन्द्रेषु क्रेतॄणां महान् समागमः आसीत्।
श्रीविन्ध्यपण्डासमाजस्य अध्यक्षः पङ्कज द्विवेदी अवदत् यत् मातुः विन्ध्यवासिनीधाम्नि दर्शनानन्तरं श्रद्धालुभिः त्रिकोणपरिक्रमा अपि सम्पन्ना। परम्परानुसारं श्रद्धालुभिः प्रथमं मातुः विन्ध्यवासिन्याः दर्शनं कृतम्। ततः कालीखोहस्थां मातरं कालीं प्रति गमनं कृतम्। अन्ते अष्टभुजापर्वते विराजमानायाः मातुः अष्टभुजायाः दर्शनपूजनं कृत्वा त्रिकोणपरिक्रमा पूर्णा कृता। त्रिषु शक्तिपीठेषु प्रभातात् आरभ्य सायंकालपर्यन्तं श्रद्धालूनां निरन्तरः समागमः आसीत्। श्रद्धालूनां विशालभीडं दृष्ट्वा विन्ध्याचलपुलिसविभागेन सुरक्षायाः व्यापकाः प्रबन्धाः कृताः। मन्दिरपरिसरे दर्शनमार्गे प्रमुखचतुष्पथेषु च पुलिसकर्मचारिणः नियुक्ताः आसन्। सीसीटीवीचित्रग्रहणयन्त्रैः अपि निरन्तरं निरीक्षणं क्रियमाणम् आसीत्।
संमर्दस्य लाभं गृहीत्वा एकस्याः महिला श्रद्धालोः सुवर्णशृङ्खला अपहृता
ज्येष्ठपूर्णिमायाम् अभूतपूर्वसंमर्दस्य मध्ये जौनपुरजनपदस्य सुरेरीपुलिसक्षेत्रस्य सिठुपुर डोडा ग्रामनिवासिन्याः पार्वतीदेव्याः कण्ठात् अज्ञातेन उचक्केन सुवर्णशृङ्खला अपहृता। दर्शनानन्तरं घटनायाः ज्ञानं प्राप्त्वा पीडिता विन्ध्याचलकोतवालीपुलिसस्थानके निवेदनं दत्त्वा कार्यवाहीम् अयाचत। कस्बाप्रभारी अजय मिश्र अवदत् यत् घटनायाः सूचना प्राप्ता अस्ति। सीसीटीवीचित्राणां सहितम् अन्येषाम् अपि पक्षाणां परीक्षणं क्रियते। स्थानीयजनाः वदन्ति यत् भीडयुक्तेषु दिवसेषु सुवर्णशृङ्खलाचौर्यस्य घटनाः वर्धन्ते। अतः सुरक्षाव्यवस्था अधिकं दृढा कर्तव्या।
---------------
Hindusthan Samachar / Dheeraj Maithani