भारतीय-खाद्य-वैज्ञानिक-प्रौद्योगिकीविदां द्वात्रिंशतितमस्य सम्मेलनस्य प्रतीक-चिह्नस्य अनावरणम्
वाराणसी, २९ जूनमासः (हि.स.)। काशी-हिन्दू-विश्वविद्यालयस्य कृषि-विज्ञान-संस्थाने दुग्ध-विज्ञान-खाद्य-प्रौद्योगिकी-विभागे सोमवासरे भारतीय-खाद्य-वैज्ञानिक-प्रौद्योगिकीविदां द्वात्रिंशतितमस्य सम्मेलनस्य (आईसीएफओएसटी-२०२६) प्रतीक-चिह्नस्य अनावरणं सम्पन्
प्रौद्योगिकीविद् सम्मेलन के प्रतीक-चिह्न का अनावरण करते बीएचयू कुलपति


वाराणसी, २९ जूनमासः (हि.स.)। काशी-हिन्दू-विश्वविद्यालयस्य कृषि-विज्ञान-संस्थाने दुग्ध-विज्ञान-खाद्य-प्रौद्योगिकी-विभागे सोमवासरे भारतीय-खाद्य-वैज्ञानिक-प्रौद्योगिकीविदां द्वात्रिंशतितमस्य सम्मेलनस्य (आईसीएफओएसटी-२०२६) प्रतीक-चिह्नस्य अनावरणं सम्पन्नम्। एतत् सम्मेलनं २०२६ तमवर्षस्य दिसम्बरमासस्य २१ दिनाङ्कात् २३ दिनाङ्कपर्यन्तं बीएचयू-परिसरे एसोसिएशन-ऑफ-फूड-साइंटिस्ट्स-एण्ड-टेक्नोलॉजिस्ट्स-इण्डिया, सीएसआईआर-सीएफटीआरआई तथा डीआरडीओ इत्येतयोः सहयोगेन आयोज्यते।

विश्वविद्यालयस्य कुलपतिना प्रो.अजित-कुमार-चतुर्वेदिना उपस्थितानां मध्ये प्रतीक-चिह्नस्य अनावरणम् कृतम्।

अस्मिन् अवसरे प्रो.चतुर्वेदी सम्मेलनस्य बीएचयू-परिसरे आयोजनार्थम् आईएफ-सीटी-आई-संस्थायै कृतज्ञताम् व्यक्तवान्। सः अवदत् यत् शैक्षणिक-आयोजनानि नवीन-अनुसन्धानानां विचार-विनिमयाय, परस्पर-सहकार्य-विकासनाय, अनुसन्धान-सहायतायाः प्राप्तये तथा नवाचारस्य प्रोत्साहनाय महत्त्वपूर्णान् अवसरान् प्रददति। तेन पोषणस्य, खाद्य-सुरक्षायाः तथा स्वास्थ्य-सम्बद्ध-समस्यायाः समाधानाय खाद्य-विज्ञान-प्रौद्योगिक्योः वर्धमानं महत्त्वं रेखाङ्कितम्। कृषि-विज्ञान-चिकित्सा-प्रौद्योगिकी-क्षेत्राणां मध्ये अधिकस्य अन्तरविषयी-सहकार्यस्य आवश्यकतामपि सः प्रतिपादितवान्।

विशिष्टातिथिः तथा प्रौद्योगिकी-संस्थानस्य पूर्वनिदेशकः प्रो.एस.एन.उपाध्यायः खाद्य-विज्ञान-प्रौद्योगिक्या तथा कृषि-विज्ञान-संस्थानेन सह स्वस्य दीर्घकालिक-संबन्धं न्यवेदयत्। सः मेधाविनां एम.टेक-विद्यार्थिनां कृते स्थापितायाः प्रो.एस.एन.उपाध्याय-फेलोशिप् इत्यस्याः उल्लेखं कृत्वा यूनां शोधकर्तॄणां प्रोत्साहनस्य महत्त्वम् अवदत्।

सीएसआईआर-सीएफटीआरआई-मैसूरु-परिसरस्य आयोजन-सचिवः डा. तनाजी-जी. कुद्रे अवदत् यत् सम्मेलने प्रायः पञ्चविंशतिः प्राविधिक-सत्राणि आयोजयिष्यन्ते, येषु राष्ट्रिय-अन्ताराष्ट्रिय-स्तरयोः प्रायः शतं प्रतिष्ठित-वक्तारः सहभागिनः भविष्यन्ति। सम्मेलने शिक्षा-अनुसन्धान-संस्थान-उद्योग-नीति-निर्माण-क्षेत्रेभ्यः सम्बद्धाः द्विसहस्र-पञ्चशताधिकाः प्रतिनिधयः सहभागिनः भविष्यन्ति इति सम्भाव्यते।

सम्मेलनस्य अवधौ एकस्य विशाल-खाद्य-प्रदर्शिन्याः अपि आयोजनं भविष्यति। सा प्रदर्शिनी नवाचारान्, प्रौद्योगिकीः तथा उद्योग-शैक्षणिक-सहकार्यं प्रदर्शयितुं महत्त्वपूर्णं मञ्चं प्रदास्यति।

अध्यक्षः डा. परमजीत-एस.पनेसरः अवदत् यत् एषा संस्था भारते खाद्य-वैज्ञानिकानां प्रौद्योगिकीविदां च सर्वात् बृहत्तमा व्यावसायिक-संस्था अस्ति, यस्य राष्ट्रिय-अन्ताराष्ट्रिय-स्तरयोः सुदृढा उपस्थितिरस्ति।

कृषि-विज्ञान-संस्थानस्य निदेशकः प्रो.यू.पी.सिंहः आयोजन-समितिं अभिनन्दितवान्। प्रो.अनिल-कुमार-चौहानः अतिथीनां स्वागतं कृत्वा वैज्ञानिक-विचार-विनिमयस्य प्रोत्साहने तथा दुग्ध-विज्ञान-खाद्य-प्रौद्योगिकी-विषये अनुसन्धानस्य उन्नयने अस्य सम्मेलनस्य महत्त्वं प्रतिपादितवान्।

Hindusthan Samachar / Divya Ranjan